तान् उवाच हरि श्रेष्ठो हनूमान् वानर ऋषभः । अव्यग्र मनसो यूयम् मधु सेवत वानराः ॥१॥
द्विषष्टितमः सर्गः 5.62
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अहमावारयिष्यामि युष्माकम् परिपन्थिनः । श्रुत्वा हनुमतो वाक्यम् हरीणाम् प्रवरो अन्गदः ॥२॥
प्रत्युवाच प्रसन्न आत्मा पिबन्तु हरयो मधु । अवश्यम् कृत कार्यस्य वाक्यम् हनुमतो मया ॥३॥
अकार्यम् अपि कर्तव्यम् किम् अन्ग पुनः ईदृशम् । अन्दगस्य मुखात् श्रुत्वा वचनम् वानर ऋषभाः ॥४॥
साधु साध्व् इति सम्हृष्टा वानराः प्रत्यपूजयन् । पूजयित्वा अन्गदम् सर्वे वानरा वानर ऋषभम् ॥५॥
जग्मुः मधु वनम् यत्र नदी वेग इव द्रुतम् । ते प्रहृष्टा मधु वनम् पालान् आक्रम्य वीर्यतः ॥६॥
अतिसर्गाच् च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम् । पपुः सर्वे मधु तदा रसवत्फलमाददुः ॥७॥
उत्पत्य च ततः सर्वे वन पालान् समागताः । ताडयन्ति स्म शतशः सक्तान् मधु वने तदा ॥८॥
मधूनि द्रोण मात्राणि बहुभिः परिगृह्य ते । पिबन्ति सहिताः सर्वे भक्षयन्ति तथा अपरे ॥९॥
केचित् पीत्वा अपविध्यन्ति मधूनि मधु पिन्गलाः । मधु उच्चिष्टेन केचिच् च जघ्नुः अन्योन्यम् उत्कटाः ॥१०॥
अपरे वृक्ष मूलेषु शाखाम् गृह्य व्यवस्थितः । अत्यर्थम् च मद ग्लानाः पर्णानि आस्तीर्य शेरते ॥११॥
उन्मत्त भूताः प्लवगा मधु मत्ताः च हृष्टवत् । क्षिपन्ति अपि तथा अन्योन्यम् स्खलन्ति अपि तथा अपरे ॥१२॥
केचित् क्ष्वेडान् प्रकुर्वन्ति केचित् कूजन्ति हृष्टवत् । हरयो मधुना मत्ताः केचित् सुप्ता मही तले ॥१३॥
कृत्वा केचिर्धसन्त्यन्ये केचित्कुर्वन्ति चेतरत् । कृत्वा केचिद्वदन्त्यन्ये केचिद्बुध्यन्ति चेतरत् ॥१४॥
ये अपि अत्र मधु पालाः स्युः प्रेष्या दधि मुखस्य तु । ते अपि तैः वानरैः भीमैः प्रतिषिद्धा दिशो गताः ॥१५॥
जानुभिः च प्रकृष्टाः च देव मार्गम् च दर्शिताः । अब्रुवन् परम उद्विग्ना गत्वा दधि मुखम् वचः ॥१६॥
हनूमता दत्त वरैः हतम् मधु वनम् बलात् । वयम् च जानुभिः कृष्टा देव मार्गम् च दर्शिताः ॥१७॥
ततो दधि मुखः क्रुद्धो वनपः तत्र वानरः । हतम् मधु वनम् श्रुत्वा सान्त्वयामास तान् हरीन् ॥१८॥
इह आगच्छत गच्छामो वानरान् अतिदर्पितान् । बलेन आवारयिष्यामो मधु भक्षयतो वयम् ॥१९॥
श्रुत्वा दधि मुखस्य इदम् वचनम् वानर ऋषभाः । पुनः वीरा मधु वनम् तेन एव सहिता ययुः ॥२०॥
मध्ये च एषाम् दधि मुखः प्रगृह्य सुमहातरुम् । समभ्यधावत् वेगेना ते च सर्वे प्लवम्गमाः ॥२१॥
ते शिलाः पादपान् च अपि पाषाणान् च अपि वानराः । गृहीत्वा अभ्यागमन् क्रुद्धा यत्र ते कपि कुन्जराः ॥२२॥
ते स्वामि वचनम् वीरा हृदयेष्व् अवसज्य तत् । त्वरया हि अभ्यधावन्त साल ताल शिला आयुधाः ॥२३॥
वृक्षस्थान् च तलस्थान् च वानरान् बल दर्पितान् । अभ्यक्रामन्त ते वीराः पालाः तत्र सहस्रशः ॥२४॥
अथ दृष्ट्वा दधि मुखम् क्रुद्धम् वानर पुम्गवाः । अभ्यधावन्त वेगेन हनूमत् प्रमुखाः तदा ॥२५॥
तम् सवृक्षम् महाबाहुम् आपतन्तम् महाबलम् । आर्यकम् प्राहरत् तत्र बाहुभ्याम् कुपितो अन्गदः ॥२६॥
मद अन्धः अ न वेद एनम् आर्यको अयम् मम इति सः । अथ एनम् निष्पिपेष आशु वेगवत् वसुधा तले ॥२७॥
स भग्न बाहुः विमुखो विह्वलः शोणित उक्षितः । मुमोह सहसा वीरो मुहूर्तम् कपि कुन्जरः ॥२८॥
स समाश्वस्य सहसा सम्क्रुद्धो राजमातुलः । वानरान्वारयामास दण्डेन मधुमोहितान् ॥२९॥
स कथंचित् विमुक्तः तैः वानरैः वानर ऋषभः । उवाच एक अन्तम् आगम्य भृत्यान् तान् समुपागतान् ॥३०॥
एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः । सुग्रीवो विपुल ग्रीवः सह रामेण तिष्ठति ॥३१॥
सर्वम् चैव अन्गदे दोषम् श्रावयिष्यामि पार्थिव । अमर्षी वचनम् श्रुत्वा घातयिष्यति वानरान् ॥३२॥
इष्टम् मधु वनम् हि एतत् सुग्रीवस्य महात्मनः । पितृ पैतामहम् दिव्यम् देवैः अपि दुरासदम् ॥३३॥
स वानरान् इमान् सर्वान् मधु लुब्धान् गत आयुषः । घातयिष्यति दण्डेन सुग्रीवः ससुहृज् जनान् ॥३४॥
वध्या हि एते दुरात्मानो नृप आज्ञा परिभाविनः । अमर्ष प्रभवो रोषः सफलो नो भविष्यति ॥३५॥
एवम् उक्त्वा दधि मुखो वन पालान् महाबलः । जगाम सहसा उत्पत्य वन पालैः समन्वितः ॥३६॥
निमेष अन्तर मात्रेण स हि प्राप्तो वन आलयः । सहस्र अंशु सुतो धीमान् सुग्रीवो यत्र वानरः ॥३७॥
रामम् च लक्ष्मणम् चैव दृष्ट्वा सुग्रीवम् एव च । सम प्रतिष्ठाम् जगतीम् आकाशान् निपपात ह ॥३८॥
स निपत्य महावीर्यः सर्वैः तैः परिवारितः । हरिः दधि मुखः पालैः पालानाम् परम ईश्वरः ॥३९॥
स दीन वदनो भूत्वा कृत्वा शिरसि च अञ्जलिम् । सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत् ॥४०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे द्विषष्टितमः सर्गः ॥