ततो मूर्ध्ना निपतितम् वानरम् वानर ऋषभः । दृष्ट्वा एव उद्विग्न हृदयो वाक्यम् एतत् उवाच ह ॥१॥
त्रिषष्टितमः सर्गः 5.63
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
उत्तिष्ठ उत्तिष्ठ कस्मात् त्वम् पादयोः पतितो मम । अभयम् ते भवेत् वीर सत्यम् एव अभिधीयताम् ॥२॥
स तु विश्वासितः तेन सुग्रीवेण महात्मना । उत्थाय च महाप्राज्ञो वाक्यम् दधि मुखो अब्रवीत् ॥३॥
न एव ऋक्ष रजसा राजन् न त्वया न अपि वालिना । वनम् निसृष्ट पूर्वम् हि भक्षितम् तत् तु वानरैः ॥४॥
एभिः प्रधर्षिताः च एव वारिता वन रक्षिभिः । मधूनि अचिन्तयित्वा इमान् भक्षयन्ति पिबन्ति च ॥५॥
शिष्टम् अत्र अपविध्यन्ति भक्षयन्ति तथा अपरे । निवार्यमाणाः ते सर्वे भ्रुवौ वै दर्शयन्ति हि ॥६॥
इमे हि सम्रब्धतराः तथा तैः सम्प्रधर्षिताः । वारयन्तो वनात् तस्मात् क्रुद्धैः वानर पुम्गवैः ॥७॥
ततः तैः बहुभिः वीरैः वानरैः वानर ऋषभाः । सम्रक्त नयनैः क्रोधाद्त् हरयः सम्प्रचालिताः ॥८॥
पाणिभिः निहताः केचित् केचिज् जानुभिः आहताः । प्रकृष्टाः च यथा कामम् देव मार्गम् च दर्शिताः ॥९॥
एवम् एते हताः शूराः त्वयि तिष्ठति भर्तरि । कृत्स्नम् मधु वनम् चैव प्रकामम् तैः प्रभक्ष्यते ॥१०॥
एवम् विज्ञाप्यमानम् तु सुग्रीवम् वानर ऋषभम् । अपृच्छत् तम् महाप्राज्ञो लक्ष्मणः पर वीरहा ॥११॥
किम् अयम् वानरो राजन् वनपः प्रत्युपस्थितः । कम् च अर्थम् अभिनिर्दिश्य दुह्खितो वाक्यम् अब्रवीत् ॥१२॥
एवम् उक्तः तु सुग्रीवो लक्ष्मणेन महात्मना । लक्ष्मणम् प्रत्युवाच इदम् वाक्यम् वाक्य विशारदः ॥१३॥
आर्य लक्ष्मण सम्प्राह वीरो दधि मुखः कपिः । अन्गद प्रमुखैः वीरैः भक्षितम् मधु वानरैः ॥१४॥
विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः । न एषाम् अकृत कृत्यानाम् ईदृशः स्यात् उपक्रमः ॥१५॥
आगतैश्च प्रमथितम् यथा मधुवनम् हि तैः । धर्षितं च वनम् कृत्स्नमुपयुक्तम् च वानरैः ॥१६॥
वनम् यथा अभिपन्नम् तैः साधितम् कर्म वानरैः । दृष्टा देवी न संदेहो न च अन्येन हनूमता ॥१७॥
न हि अन्यः साधने हेतुः कर्मणो अस्य हनूमतः । कार्य सिद्धिः हनुमति मतिः च हरि पुम्गव ॥१८॥
व्यवसायः च वीर्यम् च श्रुतम् च अपि प्रतिष्ठितम् । जाम्बवान् यत्र नेता स्यात् अन्गदस्य बल ईश्वरः । हनूमान् च अपि अधिष्ठाता न तस्य गतिः अन्यथा ॥१९॥
अन्गद प्रमुखैः वीरैः हतम् मधु वनम् किल ॥२०॥
वारिताः सहिताः पालाः तथा जानुभिः आहताः । एतत् अर्थम् अयम् प्राप्तो वक्तुम् मधुर वाग् इह ॥२१॥
नाम्ना दधि मुखो नाम हरिः प्रख्यात विक्रमः । दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ॥२२॥
अभिगम्य यथा सर्वे पिबन्ति मधु वानराः । न च अपि अदृष्ट्वा वैदेहीम् विश्रुताः पुरुष ऋषभ ॥२३॥
वनम् दात्त वरम् दिव्यम् धर्षयेयुः वन ओकसः । ततः प्रहृष्टो धर्म आत्मा लक्ष्मणः सह राघवः ॥२४॥
श्रुत्वा कर्ण सुखाम् वाणीम् सुग्रीव वदनाच् च्युताम् । प्राहृष्यत भृशम् रामो लक्ष्मणः च महायशाः ॥२५॥
श्रुत्वा दधि मुखस्य इदम् सुग्रीवः तु प्रहृष्य च । वन पालम् पुनः वाक्यम् सुग्रीवः प्रत्यभाषत ॥२६॥
प्रीतो अस्मि सौम्य यत् भुक्तम् वनम् तैः कृत कर्मभिः । मर्षितम् मर्षणीयम् च चेष्टितम् कृत कर्मणाम् ॥२७॥
इच्छामि शीघ्रम् हनुमत् प्रधानान् । शाखा मृगान् तान् मृग राज दर्पान् । द्रष्टुम् कृत अर्थान् सह राघवाभ्याम् । श्रोतुम् च सीता अधिगमे प्रयत्नम् ॥२८॥
प्रीतिस्फीताक्षौ सम्प्रहृष्टौ कुमारौ । दृष्ट्वा सिद्धार्थौ वानराणाम् च राजा । अङ्गैः सम्हृष्टैः कर्मसिद्धिम् विदित्वा । बाह्वोओरासन्नाम् सोऽतिमात्रम् ननन्द ॥२९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे त्रिषष्टितमः सर्गः ॥