सुग्रीवेण एवम् उक्तः तु हृष्टो दधि मुखः कपिः । राघवम् लक्ष्मणम् चैव सुग्रीवम् च अभ्यवादयत् ॥१॥
चतुःषष्टितमः सर्गः 5.64
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स प्रणम्य च सुग्रीवम् राघवौ च महाबलौ । वानरैः सहितैः शूरैः दिवम् एव उत्पपात ह ॥२॥
स प्रविष्टो मधु वनम् ददर्श हरि यूथपान् । विमदान् उद्धतान् सर्वान् मेहमानान् मधु उदकम् ॥३॥
स तान् उपागमत् वीरो बद्ध्वा कर पुट अञ्जलिम् । उवाच वचनम् श्लक्ष्णम् इदम् हृष्टवत् अन्गदम् ॥४॥
सौम्य रोषो न कर्तव्यो यत् एभिः अभिवारितः । अज्ञानात् रक्षिभिः क्रोधात् भवन्तः प्रतिषेधिताः ॥५॥
युव राजः त्वम् ईशः च वनस्य अस्य महाबल । मौर्ख्यात् पूर्वम् कृतो दोषः तत् भवान् क्षन्तुम् अर्हति ॥६॥
आख्यातम् हि मया गत्वा पितृव्यस्य तव अनघ । इह उपयानम् सर्वेषाम् एतेषाम् वन चारिणाम् ॥७॥
स त्वत् आगमनम् श्रुत्वा सह एभिः हरि यूथपैः । प्रहृष्टो न तु रुष्टो असौ वनम् श्रुत्वा प्रधर्षितम् ॥८॥
प्रहृष्टो माम् पितृव्यः ते सुग्रीवो वानर ईश्वरः । शीघ्रम् प्रेषय सर्वान् तान् इति ह उवाच पार्थिवः ॥९॥
श्रुत्वा दधि मुखस्य एतत् वचनम् श्लक्ष्णम् अन्गदः । अब्रवीत् तान् हरि श्रेष्ठो वाक्यम् वाक्य विशारदः ॥१०॥
शन्के श्रुतो अयम् वृत्त अन्तो रामेण हरि यूथपाः । तत् क्षमम् न इह नः स्थातुम् कृते कार्ये परम् तपाः ॥११॥
पीत्वा मधु यथा कामम् विश्रान्ता वन चारिणः । किम् शेषम् गमनम् तत्र सुग्रीवो यत्र मे गुरुः ॥१२॥
सर्वे यथा माम् वक्ष्यन्ति समेत्य हरि यूथपाः । तथा अस्मि कर्ता कर्तव्ये भवद्भिः परवान् अहम् ॥१३॥
न आज्ञापयितुम् ईशो अहम् युव राजो अस्मि यदि अपि । अयुक्तम् कृत कर्माणो यूयम् धर्षयितुम् मया ॥१४॥
ब्रुवतः च अन्गदः च एवम् श्रुत्वा वचनम् अव्ययम् । प्रहृष्ट मनसो वाक्यम् इदम् ऊचुः वन ओकसः ॥१५॥
एवम् वक्ष्यति को राजन् प्रभुः सन् वानर ऋषभ । ऐश्वर्य मद मत्तो हि सर्वो अहम् इति मन्यते ॥१६॥
तव च इदम् सुसदृशम् वाक्यम् न अन्यस्य कस्यचित् । सम्नतिः हि तव आख्याति भविष्यत् शुभ भाग्यताम् ॥१७॥
सर्वे वयम् अपि प्राप्ताः तत्र गन्तुम् कृत क्षणाः । स यत्र हरि वीराणाम् सुग्रीवः पतिः अव्ययः ॥१८॥
त्वया हि अनुक्तैः हरिभिः न एव शक्यम् पदात् पदम् । क्वचित् गन्तुम् हरि श्रेष्ठ ब्रूमः सत्यम् इदम् तु ते ॥१९॥
एवम् तु वदताम् तेषाम् अन्गदः प्रत्यभाषत । बाढम् गच्छाम इति उक्त्वा उत्पपात मही तलात् ॥२०॥
उत्पतन्तम् अनूत्पेतुः सर्वे ते हरि यूथपाः । कृत्वा आकाशम् निराकाशम् यज्ञ उत्क्षिप्ता इव अनलाः ॥२१॥
ते अम्बरम् सहसा उत्पत्य वेगवन्तः प्लवम्गमाः । विनदन्तो महानादम् घना वात ईरिता यथा ॥२२॥
अन्गदे हि अननुप्राप्ते सुग्रीवो वानर अधिपः । उवाच शोक उपहतम् रामम् कमल लोचनम् ॥२३॥
समाश्वसिहि भद्रम् ते दृष्टा देवी न संशयः । न आगन्तुम् इह शक्यम् तैः अतीते समये हि नः ॥२४॥
न मत् सकाशम् आगच्छेत् कृत्ये हि विनिपातिते । युव राजो महाबाहुः प्लवताम् प्रवरो अन्गदः ॥२५॥
यदि अपि अकृत कृत्यानाम् ईदृशः स्यात् उपक्रमः । भवेत् तु दीन वदनो भ्रान्त विप्लुत मानसः ॥२६॥
पितृ पैतामहम् च एतत् पूर्वकैः अभिरक्षितम् । न मे मधु वनम् हन्यात् अहृष्टः प्लवग ईश्वरः ॥२७॥
कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत । दृष्टा देवी न संदेहो न च अन्येन हनूमता ॥२८॥
न हि अन्यः कर्मणः हेतुः साधने तत् विधो भवेत् । हनूमति हि सिद्धिः च मतिः च मति सत्तम ॥२९॥
व्यवसायः च वीर्यम् च सूर्ये तेज इव ध्रुवम् । जाम्बवान् यत्र नेता स्यात् अन्गदः च बल ईश्वरः ॥३०॥
हनूमान् च अपि अधिष्ठाता न तस्य गतिः अन्यथा । मा भूः चिन्ता समायुक्तः सम्प्रति अमित विक्रम ॥३१॥
ततः किल किला शब्दम् शुश्राव आसन्नम् अम्बरे । हनूमत् कर्म दृप्तानाम् नर्दताम् कानन ओकसाम् ॥३२॥
किष्किन्धाम् उपयातानाम् सिद्धिम् कथयताम् इव । ततः श्रुत्वा निनादम् तम् कपीनाम् कपि सत्तमः ॥३३॥
आयत अन्चित लान्गूलः सो अभवद्त् हृष्ट मानसः । आजग्मुः ते अपि हरयो राम दर्शन कान्क्षिणः ॥३४॥
अन्गदम् पुरतः कृत्वा हनूमन्तम् च वानरम् । ते अन्गद प्रमुखा वीराः प्रहृष्टाः च मुदा अन्विताः ॥३५॥
निपेतुः हरि राजस्य समीपे राघवस्य च । हनूमान् च महाबहुः प्रणम्य शिरसा ततः ॥३६॥
नियताम् अक्षताम् देवीम् राघवाय न्यवेदयत् । दृष्टा देवीति हनुमद्वदनादमृतोपमम् ॥३७॥
आकर्ण्य वचनम् रामो हर्षमाप सलक्ष्मणः । निश्चित अर्थम् ततः तस्मिन् सुग्रीवम् पवन आत्मजे ॥३८॥
लक्ष्मणः प्रीतिमान् प्रीतम् बहु मानात् अवैक्षत । प्रीत्या च रममाणो अथ राघवः पर वीरहा ॥३९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे चतुःषष्टितमः सर्गः ॥