ततः प्रस्रवणम् शैलम् ते गत्वा चित्र काननम् । प्रणम्य शिरसा रामम् लक्ष्मणम् च महाबलम् ॥१॥
पञ्चषष्टितमः सर्गः 5.65
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
युव राजम् पुरः कृत्य सुग्रीवम् अभिवाद्य च । प्रवृत्तम् अथ सीतायाः प्रवक्तुम् उपचक्रमुः ॥२॥
रावण अन्तः पुरे रोधम् राक्षसीभिः च तर्जनम् । रामे समनुरागम् च यः च अपि समयः कृतः ॥३॥
एतत् आख्यान्ति ते सर्वे हरयो राम सम्निधौ । वैदेहीम् अक्षताम् श्रुत्वा रामः तु उत्तरम् अब्रवीत् ॥४॥
क्व सीता वर्तते देवी कथम् च मयि वर्तते । एतन् मे सर्वम् आख्यात वैदेहीम् प्रति वानराः ॥५॥
रामस्य गदितम् श्रुत्व हरयो राम सम्निधौ । चोदयन्ति हनूमन्तम् सीता वृत्त अन्त कोविदम् ॥६॥
श्रुत्वा तु वचनम् तेषाम् हनूमान् मारुत आत्मजः । प्रणम्य शिरसा देव्यै सीतायै ताम् दिशम् प्रति ॥७॥
उवाच वाक्यम् वाक्यज्ञः सीताया दर्शनम् यथा । समुद्रम् लन्घयित्वा अहम् शत योजनम् आयतम् ॥८॥
अगच्छम् जानकीम् सीताम् मार्गमाणो दिदृक्षया । तत्र लन्का इति नगरी रावणस्य दुरात्मनः ॥९॥
दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे । तत्र दृष्टा मया सीता रावण अन्तः पुरे सती ॥१०॥
सम्न्यस्य त्वयि जीवन्ती रामा राम मनो रथम् । दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुः मुहुः ॥११॥
राक्षसीभिः विरूपाभी रक्षिता प्रमदा वने । दुह्खम् आपद्यते देवी तव अदुह्ख उचिता सती ॥१२॥
रावण अन्तः पुरे रुद्ध्वा राक्षसीभिः सुरक्षिता । एक वेणी धरा दीना त्वयि चिन्ता परायणा ॥१३॥
अधः शय्या विवर्ण अन्गी पद्मिनी इव हिम आगमे । रावणात् विनिवृत्त अर्था मर्तव्य कृत निश्चया ॥१४॥
देवी कथंचित् काकुत्स्थ त्वन् मना मार्गिता मया । इक्ष्वाकु वंश विख्यातिम् शनैः कीर्तयत अनघ ॥१५॥
स मया नर शार्दूल विश्वासम् उपपादिता । ततः सम्भाषिता देवी सर्वम् अर्थम् च दर्शिता ॥१६॥
राम सुग्रीव सख्यम् च श्रुत्वा प्रीतिम् उपागता । नियतः समुदाचारो भक्तिः च अस्याः तथा त्वयि ॥१७॥
एवम् मया महाभागा दृष्टा जनक नन्दिनी । उग्रेण तपसा युक्ता त्वत् भक्त्या पुरुष ऋषभ ॥१८॥
अभिज्ञानम् च मे दत्तम् यथा वृत्तम् तव अन्तिके । चित्र कूटे महाप्राज्ञ वायसम् प्रति राघव ॥१९॥
विज्ञाप्यः च नर व्याघ्रो रामो वायु सुत त्वया । अखिलेन इह यत् दृष्टम् इति माम् आह जानकी ॥२०॥
अयम् च अस्मै प्रदातव्यम् यत्नात् सुपरिरक्षितम् । ब्रुवता वचनानि एवम् सुग्रीवस्य उपशृण्वतः ॥२१॥
एष चूडा मणिः श्रीमान् मया ते यत्न रक्षितः । मनः शिलायाः तिकलः तम् स्मरस्व इति च अब्रवीत् ॥२२॥
त्वया प्राष्टे तिम्के तम् किल स्मर्तुमर्हसि । एष निर्यातितः श्रीमान् मया ते वारि सम्भवः ॥२३॥
एतम् दृष्ट्वा प्रमोदिष्ये व्यसने त्वाम् इव अनघ । जीवितम् धारयिष्यामि मासम् दशरथ आत्मज ॥२४॥
ऊर्ध्वम् मासान् न जीवेयम् रक्षसाम् वशम् आगता । इति माम् अब्रवीत् सीता कृश अन्गी धर्म चारिणी ॥२५॥
रावण अन्तः पुरे रुद्धा मृगी इव उत्फुल्ल लोचना । एतत् एव मया आख्यातम् सर्वम् राघव यत् यथा ॥२६॥
सर्वथा सागर जले सम्तारः प्रविधीयताम् । तौ जात आश्वासौ राज पुत्रौ विदित्वा । तच् च अभिज्ञानम् राघवाय प्रदाय । देव्या च आख्यातम् सर्वम् एव आनुपूर्व्यात् । वाचा सम्पूर्णम् वायु पुत्रः शशंस ॥२७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ॥