एवम् उक्तो हनुमता रामो दशरथ आत्मजः । तम् मणिम् हृदये कृत्वा प्ररुरोद सलक्ष्मणः ॥१॥
षट्षष्टितमः सर्गः 5.66
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तम् तु दृष्ट्वा मणि श्रेष्ठम् राघवः शोक कर्शितः । नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुग्रीवम् इदम् अब्रवीत् ॥२॥
यथैव धेनुः स्रवति स्नेहात् वत्सस्य वत्सला । तथा मम अपि हृदयम् मणि रत्नस्य दर्शनात् ॥३॥
मणि रत्नम् इदम् दत्तम् वैदेह्याः श्वशुरेण मे । वधू काले यथा बद्धम् अधिकम् मूर्ध्नि शोभते ॥४॥
अयम् हि जल सम्भूतो मणिः प्रवर पूजितः । यज्ञे परम तुष्टेन दत्तः शक्रेण धीमता ॥५॥
इमम् दृष्ट्वा मणि श्रेष्ठम् तथा तातस्य दर्शनम् । अद्य अस्मि अवगतः सौम्य वैदेहस्य तथा विभोः ॥६॥
अयम् हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः । अस्य दर्शनेन अहम् प्राप्ताम् ताम् इव चिन्तये ॥७॥
किम् आह सीता वैदेही ब्रूहि सौम्य पुनः पुनः । पिपासुम् इव तोयेन सिन्चन्ती वाक्य वारिणा ॥८॥
इतः तु किम् दुह्खतरम् यत् इमम् वारि सम्भवम् । मणिम् पश्यामि सौमित्रे वैदेहीम् आगतम् विना ॥९॥
चिरम् जीवति वैदेही यदि मासम् धरिष्यति । क्षणम् सौम्य न जीवेयम् विना ताम् असित ईक्षणाम् ॥१०॥
नय माम् अपि तम् देशम् यत्र दृष्टा मम प्रिया । न तिष्ठेयम् क्षणम् अपि प्रवृत्तिम् उपलभ्य च ॥११॥
कथम् सा मम सुश्रोणि भीरु भीरुः सती तदा । भय आवहानाम् घोराणाम् मध्ये तिष्ठति रक्षसाम् ॥१२॥
शारदः तिमिर उन्मुखो नूनम् चन्द्र इव अम्बुदैः । आवृतम् वदनम् तस्या न विराजति राक्षसैः ॥१३॥
किम् आह सीता हनुमन् तत्त्वतः कथयस्व मे । एतेन खलु जीविष्ये भेषजेन आतुरो यथा ॥१४॥
मधुरा मधुर आलापा किम् आह मम भामिनी । मत् विहीना वराअरोहा हनुमन् कथयस्व मे ॥१५॥
त्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे षट्षष्टितमः सर्गः ॥