एवम् उक्तः तु हनुमान् राघवेण महात्मना । सीताया भाषितम् सर्वम् न्यवेदयत राघवे ॥१॥
स्प्तषष्टितमः सर्गः 5.67
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
एवम् उक्तवती देवी जानकी पुरुष ऋषभ । पूर्व वृत्तम् अभिज्ञानम् चित्र कूटे यथा तथम् ॥२॥
सुख सुप्ता त्वया सार्धम् जानकी पूर्वम् उत्थिता । वायसः सहसा उत्पत्य विरराद स्तन अन्तरे ॥३॥
पर्यायेण च सुप्तः त्वम् देवि अन्के भरत अग्रज । पुनः च किल पक्षी स देव्या जनयति व्यथाम् ॥४॥
पुनः पुनरुपागम्य विरराद भृशम् किल । ततः त्वम् बोधितः तस्याः शोणितेन समुक्षितः ॥५॥
वायसेन च तेन एव सततम् बाध्यमानया । बोधितः किल देव्याः त्वम् सुख सुप्तः परम् तप ॥६॥
ताम् तु दृष्ट्वा महाबाहो रादिताम् च स्तन अन्तरे । आशी विष इव क्रुद्धो निह्श्वसन्न् अभ्यभाषथाः ॥७॥
नख अग्रैः केन ते भीरु दारितम् तु स्तन अन्तरम् । कः क्रीडति सरोषेण पन्च वक्त्रेण भोगिना ॥८॥
निरीक्षमाणः सहसा वायसम् समवैक्षताः । नखैः सरुधिरैः तीक्ष्णैः माम् एव अभिमुखम् स्थितम् ॥९॥
सुतः किल स शक्रस्य वायसः पतताम् वरः । धरा अन्तर चरः शीघ्रम् पवनस्य गतौ समः ॥१०॥
ततः तस्मिन् महाबाहो कोप सम्वर्तित ईक्षणः । वायसे त्वम् कृत्वाः क्रूराम् मतिम् मतिमताम् वर ॥११॥
स दर्भम् संस्तरात् गृह्य ब्रह्म अस्त्रेण न्ययोजयः । प्रदीप्त इव काल अग्निः जज्वाल अभिमुखः खगम् ॥१२॥
क्षिप्तवांस्त्वम् प्रदीप्तम् दर्भम् तम् वायसम् प्रति । ततः तु वायसम् दीप्तः स दर्भो अनुजगाम ह ॥१३॥
स पित्रा च परित्यक्तः सुरैः सर्वैः महर्षिभिः । त्रीन् लोकान् सम्परिक्रम्य त्रातारम् न अधिगच्छति ॥१४॥
पुनरेवागतस्त्रस्तस्त्वत्सकाशमरिंदम । स तम् निपतितम् भूमौ शरण्यः शरणा गतम् ॥१५॥
वध अर्हम् अपि काकुत्स्थ कृपया परिपालयः । मोघम् अस्त्रम् न शक्यम् तु कर्तुम् इति एव राघव ॥१६॥
भवांस्तस्यक्षि काकस्य हिनस्ति स्म स दक्षिणम् । राम त्वाम् स नमः कृत्वा राज्ञो दशरथस्य च ॥१७॥
विसृष्टः तु तदा काकः प्रतिपेदे खम् आलयम् । एवम् अस्त्रविदाम् श्रेष्ठः सत्त्ववान् शीलवान् अपि ॥१८॥
किम् अर्थम् अस्त्रम् रक्षह्सु न योजयसि राघव । न नागा न अपि गन्धर्वा न असुरा न मरुत् गणाः ॥१९॥
न च सर्वे रणे शक्ता रामम् प्रतिसमासितुम् । तस्य वीर्यवतः कच्चिन् मयि यदि अस्ति सम्भ्रमः ॥२०॥
क्षिप्रम् सुनिशितैः बाणैः हन्यताम् युधि रावणः । भ्रातुः आदेशम् आदाय लक्ष्मणो वा परम् तपः ॥२१॥
स किम् अर्थम् नर वरो न माम् रक्षति राघवः । शक्तौ तौ पुरुष व्याघ्रौ वाय्व् अग्नि सम तेजसौ ॥२२॥
सुराणाम् अपि दुर्धर्षौ किम् अर्थम् माम् उपेक्षतः । मम एव दुष्कृतम् किंचिन् महत् अस्ति न संशयः ॥२३॥
समर्थौ सहितौ यन् माम् न अपेक्षेते परम् तपौ । वैदेह्या वचनम् श्रुत्वा करुणम् साश्रु भाषितम् ॥२४॥
पुनः अपि अहम् आर्याम् ताम् इदम् वचनम् अब्रुवम् । त्वत् शोक विमुखो रामो देवि सत्येन ते शपे ॥२५॥
रामे दुह्ख अभिभूते च लक्ष्मणः परितप्यते । कथंचित् भवती दृष्टा न कालः परिशोचितुम् ॥२६॥
अस्मिन्मुहूर्तम् दुह्खानाम् अन्तम् द्रक्ष्यसि भामिनि । ताव् उभौ नर शार्दूलौ राज पुत्राव् अरिम् दमौ ॥२७॥
त्वत् दर्शन कृत उत्साहौ लन्काम् भस्मी करिष्यतः । हत्वा च समरे रौद्रम् रावणम् सह बान्धवम् ॥२८॥
राघवः त्वाम् महाबाहुः स्वाम् पुरीम् नयते ध्रुवम् । यत् तु रामो विजानीयात् अभिज्ञानम् अनिन्दिते ॥२९॥
प्रीति सम्जननम् तस्य प्रदातुम् तत्त्वम् अर्हसि । सा अभिवीक्ष्य दिशः सर्वा वेणि उद्ग्रथनम् उत्तमम् ॥३०॥
मुक्त्वा वस्त्रात् ददौ मह्यम् मणिम् एतम् महाबल । प्रतिगृह्य मणिम् दिव्यम् तव हेतो रघु उत्तम ॥३१॥
शिरसा सम्प्रणम्य एनाम् अहम् आगमने त्वरे । गमने च कृत उत्साहम् अवेक्ष्य वर वर्णिनी ॥३२॥
विवर्धमानम् च हि माम् उवाच जनक आत्मजा । अश्रु पूर्ण मुखी दीना बाष्प संदिग्ध भाषिणी ॥३३॥
ममोत्पतनसम्ब्रान्ता शोकवेगसमाहता । हनुमन् सिम्ह सम्काशौ ताव् उभौ राम लक्ष्मणौ ॥३४॥
सुग्रीवम् च सह अमात्यम् सर्वान् ब्रूया अनामयम् । यथा च स महाबाहुः माम् तारयति राघवः । अस्मात् दुह्ख अम्बु सम्रोधात् तत् समाधातुम् अर्हसि ॥३५॥
इमम् च तीव्रम् मम शोक वेगम् । रक्षोभिः एभिः परिभर्त्सनम् च । ब्रूयाः तु रामस्य गतः समीपम् । शिवः च ते अध्वा अस्तु हरि प्रवीर ॥३६॥
एतत् तव आर्या नृप राज सिम्ह । सीता वचः प्राह विषाद पूर्वम् । एतच् च बुद्ध्वा गदितम् मया त्वम् । श्रद्धत्स्व सीताम् कुशलाम् समग्राम् ॥३७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुंदरकाण्डे स्प्तषष्टितमः सर्गः ॥