रामायणम्

अष्टषष्टितमः सर्गः 5.68

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ अहम् उत्तरम् देव्या पुनः उक्तः ससम्भ्रमम् । तव स्नेहान् नर व्याघ्र सौहार्यात् अनुमान्य च ॥१॥

एवम् बहु विधम् वाच्यो रामो दाशरथिः त्वया । यथा माम् आप्नुयात् शीघ्रम् हत्वा रावणम् आहवे ॥२॥

यदि वा मन्यसे वीर वस एका अहम् अरिम् दम । कस्मिंश्चित् सम्वृते देशे विश्रान्तः श्वो गमिष्यसि ॥३॥

मम च अपि अल्प भाग्यायाः साम्निध्यात् तव वानर । अस्य शोक विपाकस्य मुहूर्तम् स्यात् विमोक्षणम् ॥४॥

गते हि त्वयि विक्रान्ते पुनः आगमनाय वै । प्राणानाम् अपि संदेहो मम स्यान् न अत्र संशयः ॥५॥

तव अदर्शनजः शोको भूयो माम् परितापयेत् । दुह्खात् दुह्ख पराभूताम् दुर्गताम् दुह्ख भागिनीम् ॥६॥

अयम् तु वीर संदेहः तिष्ठति इव मम अग्रतः । सुमहान् त्वत् सहायेषु हरि ऋक्षेषु असंशयः ॥७॥

कथम् नु खलु दुष्पारम् तरिष्यन्ति महाउदधिम् । तानि हरि ऋक्ष सैन्यानि तौ वा नर वर आत्मजौ ॥८॥

त्रयाणाम् एव भूतानाम् सागरस्य अस्य लन्घने । शक्तिः स्यात् वैनतेयस्य वायोः वा तव वा अनघ ॥९॥

तत् अस्मिन् कार्य नियोगे वीर एवम् दुरतिक्रमे । किम् पश्यसि समाधानम् ब्रूहि कार्यविदाम् वर ॥१०॥

कामम् अस्य त्वम् एव एकः कार्यस्य परिसाधने || पर्याप्तः पर वीरघ्न यशस्यः ते बल उदयः ॥११॥

बलैः समग्रैः यदि माम् हत्वा रावणम् आहवे । विजयी स्वाम् पुरीम् रामो नयेत् तत् स्यात् यशः करम् ॥१२॥

यथा अहम् तस्य वीरस्य वनात् उपधिना हृता । रक्षसा तत् भयात् एव तथा न अर्हति राघवः ॥१३॥

बलैः तु सम्कुलाम् कृत्वा लन्काम् पर बल अर्दनः । माम् नयेत् यदि काकुत्स्थः तत् तस्य सदृशम् भवेत् ॥१४॥

तत् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः । भवति आहव शूरस्य तथा त्वम् उपपादय ॥१५॥

तत् अर्थ उपहितम् वाक्यम् प्रश्रितम् हेतु सम्हितम् । निशम्य अहम् ततः शेषम् वाक्यम् उत्तरम् अब्रुवम् ॥१६॥

देवि हरि ऋक्ष सैन्यानाम् ईश्वरः प्लवताम् वरः । सुग्रीवः सत्त्व सम्पन्नः तव अर्थे कृत निश्चयः ॥१७॥

तस्य विक्रम सम्पन्नाः सत्त्ववन्तो महाबलाः । मनः सम्कल्प सम्पाता निदेशे हरयः स्थिताः ॥१८॥

येषाम् न उपरि न अधस्तान् न तिर्यक् सज्जते गतिः । न च कर्मसु सीदन्ति महत्स्व् अमित तेजसः ॥१९॥

असकृत् तैः महाभागैः वानरैः बल सम्युतैः । प्रदक्षिणी कृता भूमिः वायु मार्ग अनुसारिभिः ॥२०॥

मत् विशिष्टाः च तुल्याः च सन्ति तत्र वन ओकसः । मत्तः प्रत्यवरः कश्चिन् न अस्ति सुग्रीव सम्निधौ ॥२१॥

अहम् तावत् इह प्राप्तः किम् पुनः ते महाबलाः । न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हि इतरे जनाः ॥२२॥

तत् अलम् परितापेन देवि मन्युः व्यपैतु ते । एक उत्पातेन ते लन्काम् एष्यन्ति हरि यूथपाः ॥२३॥

मम पृष्ठ गतौ तौ च चन्द्र सूर्याव् इव उदितौ । त्वत् सकाशम् महाभागे नृ सिम्हाव् आगमिष्यतः ॥२४॥

अरिघ्नम् सिम्ह सम्काशम् क्षिप्रम् द्रक्ष्यसि राघवम् । लक्ष्मणम् च धनुष् पाणिम् लन्का द्वारम् उपस्थितम् ॥२५॥

नख दम्ष्ट्र आयुधान् वीरान् सिम्ह शार्दूल विक्रमान् । वानरान् वानर इन्द्र आभान् क्षिप्रम् द्रक्ष्यसि सम्गतान् ॥२६॥

शैल अम्बुदन् निकाशानाम् लन्का मलय सानुषु । नर्दताम् कपि मुख्यानाम् अचिरात् शोष्यसे स्वनम् ॥२७॥

निवृत्त वन वासम् च त्वया सार्धम् अरिम् दमम् । अभिषिक्तम् अयोध्यायाम् क्षिप्रम् द्रक्ष्यसि राघवम् ॥२८॥

ततो मया वाग्भिः अदीन भाषिणी । शिवाभिः इष्टाभिः अभिप्रसादिता । जगाम शान्तिम् मम मैथिल आत्मजा । तव अपि शोकेन तथा अभिपीडिता ॥२९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सुन्दरकाण्डे अष्टषष्टितमः सर्गः ॥

Listen to the sarga
0:00