स तस्य मध्ये भवनस्य संस्थितम् । महद्विमानम् मणिवज्रचित्रितम् । प्रतप्तजाम्बूनदजालकृत्रिमम् । ददर्श वीरः पवनात्मजः कपिः ॥१॥
अष्टमः सर्गः 5.8
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तदप्रमेयाप्रतिकारकृत्रिमम् । कृतम् स्वयम् साध्विति विश्वकर्मणाः । दिवम् गतम् वायुपथप्रतिष्ठितम् । व्यराजतादित्यपथस्य लक्ष्मिवत् ॥२॥
न तत्र किंचिन्न कृतम् प्रयत्नतो । न तत्र किंचिन्न महर्हरत्नवत् । न ते विशेषा नियताः सुरेष्वपि । न तत्र किंचिन्न महाविशेषवत् ॥३॥
तपह्समाधानपराक्रमार्जितम् । मनःसमाधानविचारचारिणम् । अनेकसंस्थानविषेषनिर्मितम् । ततस्ततस्तुल्यविशेषदर्शनम् ॥४॥
विशेषमालम्ब्य विशेषसंस्थितम् । विचित्रकूटम् बहुकूटमण्डितम् । मनोऽभिरामम् शरद्न्दुनिर्मलम् । विचित्रकूटम् शिखरम् गिरेर्यथा ॥५॥
वहन्ति यम् कुण्डशोभितानना । महाशना व्योमचरा निशाचराः । विवृत्तविध्वस्तविशाललोचना । महाजवा भूतगणाः सहस्रशः ॥६॥
वसन्तपुष्पोत्करचारुदर्शनम् । वसन्तमासदपि कान्तदर्शनम् । स पुष्पकम् तत्र विमानमुत्तमम् । ददर्श तद्वानरवीरसत्तमः ॥७॥
इति वाल्मीकि रामायणे आदि काव्ये सुन्दर काण्डे अष्टमः सर्गः ॥