ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ॥१॥
दशमः सर्गः 6.10
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
शैलाग्रचयसम्काशम् शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्षम् महाजनपरिग्रहम् ॥२॥
मतिमद्भिर्महामात्रैरनुरकैरधिष्ठितम् । राक्षसैराप्तपर्याप्तैह् सर्वतः परिरक्षितम् ॥३॥
मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम् । शङ्खघोषमहाघोषम् तूर्यसम्बाधनादितम् ॥४॥
प्रमदाजनसम्बाधम् प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहम् भूषणोत्तमभूषितम् ॥५॥
गन्धर्वाणामिवावासमालयम् मरुतामिव । रत्नसंचयसम्बाधम् भवनम् भोगिनामिव ॥६॥
तम् महाभ्रमिवादित्य स्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयम् वीरः प्रविवेश महाद्युतिः ॥७॥
पुण्यान् पुण्याहघोषांश्च वेदिविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ॥८॥
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः । मन्त्रवेदविदो विप्रान् ददर्श स महाबलः ॥९॥
स पूज्यमानो रक्षोभिद्दीप्यमानम् स्वतेजसा । असवस्थम् महाबाहुर्ववन्दे धनदानुजम् ॥१०॥
स राजदृष्टिसम्पन्नमासनम् हेमभूषितम् । जगाम समुदाचारम् प्रयुज्याचारकोविदः ॥११॥
स रावणम् महात्मानम् विजने मन्त्रिसम्निधौ । उवाच हितमत्यर्थम् वचनम् हेतुनिश्चितम् ॥१२॥
प्रसाद्य भ्रातरम् ज्येष्ठम् सान्त्वेनोपस्थितक्रमः । देशकालार्थसम्वादि दृष्टलोकपरावः ॥१३॥
यदा प्रभृति वैदेही सम्प्राप्तेह परतप । तदा प्रभृति दृश्यन्ते निमित्तान्यशुभानि नः ॥१४॥
सस्फुलिङ्गः सधूमार्चिः सधूमकलुषोदयः । मन्त्रसम्घहुतोऽप्यग्निर्न सम्यगभिवर्धते ॥१५॥
अग्निष्ठेष्वग्निशालासु तथा ब्रह्मस्थलीषु च । परीपृपाणि दृश्यन्ते हव्येषु च पिपीलिकाः ॥१६॥
गवाम् पयांसि स्कन्नानि विमदा वरकुञ्जराः । दीनमश्वाः प्रहेषन्ते न च ग्रासाभिनन्दिनः ॥१७॥
खरोष्ट्राश्वतरा राजन्भिन्न्रोमाः स्रवन्ति च । न स्वभावेऽवतिष्ठन्ते विधानैरपि चिन्तताः ॥१८॥
वायसाः सघशः क्रूरा व्याहरन्ति समन्ततः । समवेताश्च दृश्यन्ते विमानाग्रेषु सम्घशः ॥१९॥
गृध्राश्च परिलीयन्ते पुरीमुपरि पिण्डिताः । उपपन्नाश्च संध्ये द्वे व्याहरन्त्यशिवम् शिवाः ॥२०॥
क्रव्यादानाम् मृगाणाम् च पुरीद्वारेषु सङ्घशः । श्रूयन्ते विपुला घोषाः सविस्फूर्जितनिःस्वनाः ॥२१॥
तदेवम् प्रस्तुते कार्ते प्रायश्चित्तमिदम् क्षमम् । रोचये वीर वैदेही राघवाय प्रदीयताम् ॥२२॥
इदम् च यदि वामोहाल्लोभाद्वा व्याहृतम् मया । तत्राप् च महाराज न दोषम् कर्तुमर्हसि ॥२३॥
अयम् हि दोषः सर्वस्य जनस्याप्योपलक्ष्यते । रक्षसाम् राक्षसीनाम् च पुरस्यान्तः पुरस्य च ॥२४॥
प्रापणे चास्य मन्त्रस्य निवृत्ताः सर्वमन्त्रिणः । अवश्यम् च मया वाच्यम् यद्दृष्टमथवा श्रुतम् ॥२५॥
सम्विधाय यथान्यायम् तद्भवान् कर्तुमर्हति । इति स्वमन्त्रिणाम् मध्ये भ्राता भ्रातरमूचिवान् ॥२६॥
रावणम् रक्षसाम् श्रेष्ठम् पथ्यमेतद्विभीषणः । हितम् महार्थम् मृदु हेतुसम्हितम् । व्यतीतकालायतिसम्प्रतिक्षमम् । निशम्य तद्वाक्यमुपस्थितज्वरः । प्रसङ्गवानुत्तरमेत दब्रवीत् ॥२७॥
भयम् न पश्यामि कुतश्चिदप्यहम् । न राघवः प्राप्स्यति जातु मैथिलीम् । सुरैः सहेन्द्रैरपि सम्गरे कथम् । ममाग्रतः स्थास्यति लक्ष्मणाग्रजः ॥२८॥
इत्येवमुक्र्वा सुरसैन्यनाशनो । महाबलः सम्यति चण्डविक्रमः । दशाननो भ्रातरमाप्तवादिनम् । विसर्जयामास तदा विभीषणम् ॥२९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे दशमः सर्गः ॥