रामायणम्

एकादशः सर्गः 6.11

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स बभुव कृशो राजा मैथिलीकाममोहितः । असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥१॥

अतीतसमये काले तस्मिन्वे युधि रावणः । अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥२॥

स हेमजालविततम् मणिविद्रुमभूषितम् । उपगम्य विनीताश्वमारुरोह महार्थम् ॥३॥

तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् । प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥४॥

असिचर्मधरा योधाः सर्वायुधधरास्ततः । राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥५॥

नानाविकृतवेषाश्च नानाभूषणभूषिताः । पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६॥

रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः । अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥७॥

गदापरिघहस्ताश्च शक्तितोमरपाणयः । परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥८॥

ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् । तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥९॥

स नेमिघोषेण महान्सहसाभिनिनादयन् । राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥१०॥

विमलम् चातपत्रम् च पगृहीतमशोभत । पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥११॥

हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे । चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥१२॥

ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः । राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥१३॥

राक्षनैः स्तूयमानः सन् जयाशीर्भिररिंदमः । अससाद महातेजाः सभाम् विरचिताम् तदा ॥१४॥

सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् । विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥१५॥

ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् । प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥१६॥

तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् । महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥१७॥

ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् । समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥१८॥

कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः । राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥१९॥

अनुगेहमवस्थय विहारशयनेषु च । उद्यानेषु च रक्क्षंसि चोदयन्तो ह्यभीतवत् ॥२०॥

ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् । नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥२१॥

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः । सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥२२॥

ते वाहनान्यवस्थाप्य यानानि विविधानि च । सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥२३॥

राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः । पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥२४॥

ते समेत्य सभायाम् वै राक्षसा राजशासनात् । यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥२५॥

मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः । अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥२६॥

समीयुस्तत्र शतशः शूराश्च बहवस्तथा । सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥२७॥

ततो महात्मा विपुलम् सुयुग्यम् । रथम् वरम् हेमविचित्रिताङ्गम् । शुभम् समास्थाय ययौ यशस्वी । विभीषणः संसदमग्रजस्य ॥२८॥

स पूर्वजायावरजः शशंस । ना माथ पश्चाच्चरणौ ववन्दे । शुकः प्रहस्तश्च तथैव तेभ्यो । ददौ यथार्हम् पृथगासनानि ॥२९॥

सुवर्णनानामणिभुषणानाम् । सुवाससाम् संसदि राक्षसानाम् । तेषाम् परार्थ्यगुरुचन्दनानाम् । स्रजाम् च गन्धाः प्रववुः समन्तात् ॥३०॥

न चुक्रुशुर्नानृतमाह कश्चि । त्सभासदो नापि जजल्पुरुच्चैः । संसिद्धार्थः सर्व एवोग्रवीर्या । भर्तुः सर्वे ददृशुश्चाननम् ते ॥३१॥

स रावणः शस्त्रभृताम् मनस्विनाम् । महाबलानाम् समितौ मनस्वी । तप्याम् सभायाम् प्रभया चकाशे । मध्ये वसूनामिव वज्रहस्तः ॥३२॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकादशः सर्गः ॥

Listen to the sarga
0:00