स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः । प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥१॥
द्वादशः सर्गः 6.12
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः । योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥२॥
स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् । विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥३॥
ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥४॥
विहितम् बहिरन्तश्च बलम् बलवतस्तव । कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥५॥
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः । सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६॥
प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते । धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥७॥
सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा । मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥८॥
ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥९॥
अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः । कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥१०॥
अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः । सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥११॥
इयम् च दण्डकारण्य़ाद्रामस्य महिषी प्रिया । रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥१२॥
सा मे न शय्यामारोढुमिच्चत्यलसगामिनी । त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥१३॥
तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना । हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥१४॥
सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ । दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥१५॥
हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् । उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥१६॥
पश्यंस्तदवशस्तस्याः कामस्य वशमेयिवान् । क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥१७॥
शोकसम्तापनित्येन कामेन कलुषीकृतः । सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥१८॥
प्रतीक्षमाणा भर्तारम् राममायतलोचना । तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥१९॥
श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि । कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥२०॥
बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ । अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥२१॥
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति । मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥२२॥
तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् । ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥२३॥
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ । सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥२४॥
अदेया च यथा सीता वध्यौ दशरथात्मजौ । भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥२५॥
न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् । सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥२६॥
तस्य कामपरीतस्य निशम्य परिदेवितम् । कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥२७॥
यदा तु रामस्य सलक्ष्मणस्य । प्रसह्य सीता खलु पा इहाऽहृता । सकृत्समीक्षैव सुनिश्चितम् तदा । भजेत चित्तम् यमुनेव यामुनम् ॥२८॥
सर्वमेतन्महाराज कृतमप्रतिमम् तव । विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥२९॥
न्यायेन राजकार्याणि यः करोति दशानन । न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥३०॥
अनुपायेन कर्माणि विपरीतानि यानि च । क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥३१॥
यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति । पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥३२॥
चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् । चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥३३॥
त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् । दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥३४॥
तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः । अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥३५॥
अहमुत्सादयिष्यामि शत्रूंस्तव निशाचर । यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥३६॥
तावहम् योधयिष्यामि कुबेरवरुणावपि । गिरिमात्रशरीरस्य महापरिघयोधिनः ॥३७॥
नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः । पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥३८॥
ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस । वधेव वै दाशरथेह् सुखावहम् । जयम् तवाहर्तुमहम् तयिष्ये । हत्वा च रामम् सह लक्ष्मणेन । खादामि सर्वान् हरियूथमुख्यान् ॥३९॥
रमस्व कामम् पिब चाग्र्यवारुणीम् । कुरुष्व कार्वाणि हितानि विज्वरः । मया तु रामे गमिते यमक्षयम् । चिराय सीता वशगा भविष्यति ॥४०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्वादशः सर्गः ॥