स तु मोहात्सुसङ्क्रुद्धः कृतान्तबलचोदितः । क्रोधसन्रक्तनयनो रावणो सूतमब्रवीत् ॥१॥
चतुरधिकशततमः सर्गः 6.104
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् । भीरुन् लघुमिवासत्त्वं विहीनमिव तेजसा ॥२॥
विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् । मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥३॥
किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च । त्वया शत्रुसमक्षं मे रथोअयमपवाहितः ॥४॥
त्वयाद्य हि ममानार्य चिरकालसमार्जितम् । यशो वीर्यन् च तेजश्च प्रत्ययश्च विनाशिथ ॥५॥
शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः । पश्यतो युद्धलुब्धोअहन् कृतः कापुरुषस्त्वया ॥६॥
यस्त्वन् रथमिमं मोहान्न चोद्वहसि दुर्मते । सत्योअयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥७॥
न हीदन् विद्यते कर्म सुहृदो हितकाङ्क्षिणः । रिपूणान् सदृशन् चैतन्न त्वयैतत्स्वनुष्ठितम् ॥८॥
निवर्तय रथन् शीघ्रं यावन्नापैति मे रिपुः । यदि वाप्युषितोअसि त्वन् स्मर्यन्ते यदि वा गुणाः ॥९॥
एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना । अब्रवीद्रावणन् सूतो हितं सानुनयं वचः ॥१०॥
न भीतोअस्मि न मूढोअस्मि नोपजप्तोअस्मि शत्रुभिः । न प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥११॥
मया तु हितकामेन यशश्च परिरक्षता । स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियन् कृतम् ॥१२॥
नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् । कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥१३॥
श्रूयतामभिधास्यामि यन्निमित्तं मया रथः । नदीवेग इवाम्भोभिः सन्युगे विनिवर्तितः ॥१४॥
श्रमन् तवावगच्छामि महता रणकर्मणा । न हि ते वीर सौमुख्यं प्रहर्षन् वोपधारये ॥१५॥
रथोद्वहनखिन्नाश्च त इमे रथवाजिनः । दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥१६॥
निमित्तानि च भूयिष्ठन् यानि प्रादुर्भवन्ति नः । तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥१७॥
देशकालौ च विज्ञेयौ लक्ष्मणानीङ्गितानि च । दैन्यन् हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥१८॥
स्थलनिम्नानि भूमेश्च समानि विषमाणि च । युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥१९॥
उपयानापयाने च स्थानं प्रत्यपसर्पणम् । सर्वमेतद्रथस्थेन ज्ञेयन् रथकुटुम्बिना ॥२०॥
तव विश्रामहेतोस्तु तथैषान् रथवाजिनाम् । रौद्रन् वर्जयता खेदन् क्षमं कृतमिदं मया ॥२१॥
न मया स्वेच्छया वीर रथोअयमपवाहितः । भर्तृस्नेहपरीतेन मयेदन् यत्कृतं विभो ॥२२॥
आज्ञापय यथातत्त्वन् वक्ष्यस्यरिनिषूदन । तत्करिष्याम्यहन् वीरन् गतानृण्येन चेतसा ॥२३॥
सन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः । प्रशस्यैनं बहुविधन् युद्धलुब्धोअब्रवीदिदम् ॥२४॥
रथन् शीघ्रमिमं सूत राघवाभिमुखन् कुरु । नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ॥२५॥
एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः । ददौ तस्य शुभन् ह्येकं हस्ताभरणमुत्तमम् ॥२६॥
ततो द्रुतन् रावणवाक्यचोदितः । प्रचोदयामास हयान्स सारथिः । स राक्षसेन्द्रस्य ततो महारथः । क्षणेन रामस्य रणाग्रतोअभवत् ॥२७॥
इत्यर्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुरधिकशततमः सर्गः ॥