स तु तेन तदा क्रोधात्काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महाक्रोधमुपागमत् ॥१॥
त्र्यधिकशततमः सर्गः 6.103
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् । अभ्यर्दयत्सुसङ्क्रुद्धो राघवं परमाहवे ॥२॥
बाणधारा सहस्रैस्तु स तोयद इवाम्बरात् । राघवन् रावणो बाणैस्तटाकमिव पूरयत् ॥३॥
पूरितः शरजालेन धनुर्मुक्तेन सन्युगे । महागिरिरिवाकम्प्यः काकुस्थो न प्रकम्पते ॥४॥
स शरैः शरजालानि वारयन्समरे स्थितः । गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥५॥
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः । निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥६॥
स शोणित समादिग्धः समरे लक्ष्मणाग्रजः । दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ॥७॥
शराभिघातसन्रब्धः सोअपि जग्राह सायकान् । काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः ॥८॥
ततोअन्योन्यन् सुसन्रब्धावुभौ तौ रामरावणौ । शरान्धकारे समरे नोपालक्षयतान् तदा ॥९॥
ततः क्रोधसमाविष्टो रामो दशरथात्मजः । उवाच रावणन् वीरः प्रहस्य परुषं वचः ॥१०॥
मम भार्या जनस्थानादज्ञानाद्राक्षसाधम । हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥११॥
मया विरहितान् दीनान् वर्तमानां महावने । वैदेहीं प्रसभन् हृत्वा शूरोअहमिति मन्यसे ॥१२॥
स्त्रीषु शूर विनाथासु परदाराभिमर्शके । कृत्वा कापुरुषन् कर्म शूरोअहमिति मन्यसे ॥१३॥
भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित । दर्पान्मृत्युमुपादाय शूरोअहमिति मन्यसे ॥१४॥
शूरेण धनदभ्रात्रा बलैः समुदितेन च । श्लाघनीयन् यशस्यन् च कृतं कर्म महत्त्वया ॥१५॥
उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च । कर्मणः प्राप्नुहीदानीन् तस्याद्य सुमहत्फलम् ॥१६॥
शूरोऽहमिति चात्मानमवगच्छसि दुर्मते । नैव लज्जास्ति ते सीतान् चोरवद्व्यपकर्षतः ॥१७॥
यदि मत्संनिधौ सीता धर्षिता स्यात्त्वया बलात् । भ्रातरन् तु खरं पश्येस्तदा मत्सायकैर्हतः ॥१८॥
दिष्ट्यासि मम दुष्टात्मंश्चक्षुर्विषयमागतः । अद्य त्वान् सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥१९॥
अद्य ते मच्छरैश्छिन्नन् शिरो ज्वलितकुण्डलम् । क्रव्यादा व्यपकर्षन्तु विकीर्णन् रणपान्सुषु ॥२०॥
निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण । पिबन्तु रुधिरन् तर्षाद्बाणशल्यान्तरोथितम् ॥२१॥
अद्य मद्बाणाभिन्नस्य गतासोः पतितस्य ते । कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥२२॥
इत्येवन् स वदन्वीरो रामः शत्रुनिबर्हणः । राक्षसेन्द्रन् समीपस्थं शरवर्षैरवाकिरत् ॥२३॥
बभूव द्विगुणन् वीर्यं बलं हर्षश्च सन्युगे । रामस्यास्त्रबलन् चैव शत्रोर्निधनकाङ्क्षिणः ॥२४॥
प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः । प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोअभवत् ॥२५॥
शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः । भूय एवार्दयद्रामो रावणन् राक्षसान्तकृत् ॥२६॥
हरीणान् चाश्मनिकरैः शरवर्षैश्च राघवात् । हन्यमानो दशग्रीवो विघूर्णहृदयोअभवत् ॥२७॥
यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् । नास्य प्रत्यकरोद्वीर्यन् विक्लवेनान्तरात्मना ॥२८॥
क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च । न रणार्थाय वर्तन्ते मृत्युकालेअभिवर्ततः ॥२९॥
सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम् । शनैर्युद्धादसम्भान्तो रथन् तस्यापवाहयत् ॥३०॥
रथं च तस्याथ जवेन सारथि । र्निवार्य भीमं जलदस्वनं तदा । जगाम भीत्या समरान्महीपतिं । निरस्तवीर्यं पतितं समीख्य ॥३१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्र्यधिकशततमः सर्गः ॥