रामायणम्

द्व्यधिकशततमः सर्गः 6.102

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

लक्ष्मणेन तु तद्वाक्यमुक्तन् श्रुत्वा स राघवः । संदधे परवीरघ्नो धनुरादाय वीर्यवान् ॥१॥

रावणाय शरान्घोरान्विससर्ज चमूमुखे । अथान्यं रथमास्थाय रावणो राक्षसाधिपः ॥२॥

अभ्यधावा काकुत्स्थं स्वर्भानुरिव भास्करम् । दशग्रीवो रथस्थस्तु रामन् वज्रोपमैः शरैः ॥३॥

आजघान महाघोरैर्धाराभिरिव तोयदः । दीप्तपावकसङ्काशैः शरैः काञ्चनभूषणैः ॥४॥

निर्बिभेद रणे रामो दशग्रीवन् समाहितः । भूमिस्थितस्य रामस्य रथस्थस्य च रक्षसः ॥५॥

न समन् युद्धमित्याहुर्देवगन्धर्वदानवाः । ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम् ॥६॥

आहूय मातलिं शक्रो वचनं चेदमब्रवीत् । रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम् ॥७॥

आयूय भूतलं यातः कुरु देवहितं महत् । इत्युक्तो देवराजेन मातलिर्द्वसारथिः ॥८॥

प्रणम्य शिरसा देवं ततो वचनमब्रवीत् । शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम् ॥९॥

ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम् । ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः ॥१०॥

तरुणादित्यसङ्काशो वैदूर्यमयकूबरः । सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ॥११॥

हरिभिः सूर्यसङ्काशैर्हेमजालविभूषितैः । रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ॥१२॥

देवराजेन संदिष्टो रथमारुह्य मातलिः । अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥१३॥

अब्रवीच्च तदा रामन् सप्रतोदो रथे स्थितः । प्राञ्जलिर्मातलिर्वाक्यन् सहस्राक्षस्य सारथिः ॥१४॥

सहस्राक्षेण काकुत्स्थ रथोअयन् विजयाय ते । दत्तस्तव महासत्त्व श्रीमाञ्शत्रुनिबर्हणः ॥१५॥

इदमैन्द्रं महच्चापन् कवचं चाग्निसंनिभम् । शराश्चादित्यसङ्काशाः शक्तिश्च विमला शिताः ॥१६॥

आरुह्येमन् रथं वीर राक्षसन् जहि रावणम् । मया सारथिना राम महेन्द्र इव दानवान् ॥१७॥

इत्युक्तः स परिक्रम्य रथन् तमभिवाद्य च । आरुरोह तदा रामो लोकाण्ल्लक्ष्म्या विराजयन् ॥१८॥

बभूव च महायुद्धं तुमुलं रोमहर्षणम् । रामस्य च महाबाहो रावणस्य च रक्षसः ॥१९॥

स गान्धर्वेण गान्धर्वन् दैवं दैवेन राघवः । अस्त्रन् राक्षसराजस्य जघान परमास्त्रवित् ॥२०॥

अस्त्रन् तु परमं घोरन् राक्षसं राकसाधिप । ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥२१॥

ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः । अभ्यवर्तन्त काकुत्स्थन् सर्पा भूत्वा महाविषाः ॥२२॥

ते दीप्तवदना दीप्तन् वमन्तो ज्वलनं मुखैः । राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥२३॥

तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः । दिशश्च सन्तताः सर्वाः प्रदिशश्च समावृताः ॥२४॥

तान्दृष्ट्वा पन्नगान्रामः समापतत आहवे । अस्त्रन् गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥२५॥

ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः । सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः ॥२६॥

ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् । सुपर्णरूपा रामस्य विशिखाः कामरूपिणः ॥२७॥

अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः । अभ्यवर्षत्तदा रामन् घोराभिः शरवृष्टिभिः ॥२८॥

ततः शरसहस्रेण राममक्लिष्टकारिणम् । अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥२९॥

चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः । पातयित्वा रथोपस्थे रथात्केतुन् च काञ्चनम् ॥३०॥

ऐन्द्रानभिजघानाश्वाञ्शरजालेन रावणः । विषेदुर्देवगन्धर्वा दानवाश्चारणैः सह ॥३१॥

राममार्तन् तदा दृष्ट्वा सिद्धाश्च परमर्षयः । व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः ॥३२॥

रामचन्द्रमसन् दृष्ट्वा ग्रस्तन् रावणराहुणा । प्राजापत्यन् च नक्षत्रन् रोहिणीं शशिनः प्रियाम् ॥३३॥

समाक्रम्य बुधस्तस्थौ प्रजानामशुभावहः । सधूमपरिवृत्तोर्मिः प्रज्वलन्निव सागरः ॥३४॥

उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम् । शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः ॥३५॥

अदृश्यत कबन्धाङ्गः सन्सक्तो धूमकेतुना । कोसलानान् च नक्षत्रन् व्यक्तमिन्द्राग्निदैवतम् ॥३६॥

आक्रम्याङ्गारकस्तस्थौ विशाखामपि चाम्बरे । दशास्यो विंशतिभुजः प्रगृहीतशरासनः ॥३७॥

अदृश्यत दशग्रीवो मैनाक इव पर्वतः । निरस्यमानो रामस्तु दशग्रीवेण रक्षसा ॥३८॥

नाशकदभिसन्धातुन् सायकान्रणमूर्धनि । स कृत्वा भ्रुकुटीन् क्रुद्धः किं चित्सन्रक्तलोचनः ॥३९॥

जगाम सुमहाक्रोधं निर्दहन्निव रक्षसान् । तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ॥४०॥

सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी । सिंहशार्दूलवान् शैलः संचचाल चलद्द्रुमः । बभूव चापि क्षुभितः समुद्रः सरितां पतिः ॥४१॥

खराश्च खरनिर्घोषा गगने परुषा घनाः । औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः ॥४२॥

रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांशैव दारुणान् । वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम् ॥४३॥

विमानस्थास्थदा देवा गन्धर्वाश्च महोरगाः । ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥४४॥

ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम् नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥४५॥

ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः । प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥४६॥

दशग्रीवं जयेत्याहुरसुराः समवस्थिताः । देवा राममवोचंस्ते त्वं जयेति पुनः पुनः ॥४७॥

एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः । प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ॥४८॥

वज्रसारं महानादं सर्वशत्रुनिबर्हणम् । शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम् ॥४९॥

सधूममिव तीक्षणग्रं युगान्ताग्निचयोपमम् । अतिरौद्रमनासाद्यं कालेनापि दुरासद्म् ॥५०॥

त्रासनं सर्वभूतानां दारणं भेदनं तथा । प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ॥५१॥

तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् । अनीकैः समरे शूरै राक्षसैः परिवारितः ॥५२॥

समुद्यम्य महाकायो ननाद युधि भैरवम् । संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ॥५३॥

पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा । प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥५४॥

अतिकायस्य नादेन तेन तस्य दुरात्मनः । सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ॥५५॥

स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् । विनद्य सुमहानादं रामं परुषमब्रवीत् ॥५६॥

शूलोऽयं वज्रसारस्ते राम रोषन्मयोद्यतः । तव भ्रातृसहायस्य सम्यक् प्राणान् हरिष्यति ॥५७॥

रक्षसामद्य शूराणां निहतानां चमूमुखे । त्वां निहत्य रणश्लाघी करोमि तरसा समम् ॥५८॥

तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव । एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥५९॥

तद्रावणकरान्मुक्तं विद्युन्मालासमावृतम् । अष्टघण्टं महानादं वियद्गतमशोभत ॥६०॥

तच्छूलां रागवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् । ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ॥६१॥

आपतन्तं शरौघेण वारयामास राघवः । उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥६२॥

निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान् । रावणस्य महान् शूलः पतङ्गानिव पावकः ॥६३॥

तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णतान् । सायकानन्तरिक्षस्थान् रागवः क्रोधमाहरत् ॥६४॥

स तां मातलिनानीतां शक्तिं वासवसंमताम् । जग्राह परमक्रुद्धो राघवो रघवनन्दनः ॥६५॥

सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना । नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥६६॥

सा क्षिप्ता राक्षसेन्द्रस्य तस्मिन् शूले पपात ह । भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः ॥६७॥

निर्भभेद ततो बाणैर्हयानस्य महाजवान् । रामस्त्रीक्षणैर्महावेगैर्बाणवद्भिरजिह्मगैः ॥६८॥

निर्बधेदोरसि तदा रावणं निशितैः शरैः । राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः ॥६९॥

स शरैर्भिन्नसर्वाङ्गो गात्रप्रसृतशोणितः । राक्षसेन्द्रः समूहस्थः पुल्लाशोक इवाबभौ ॥७०॥

स रामबाणैरतिविद्धगात्रो । निशाचरेन्द्रः क्षतजार्द्रगात्रः । जगाम खेदं च समाजमध्ये । क्रोधं च चक्रे सुभृशं तदानीम् ॥७१॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्व्यधिकशततमः सर्गः ॥

Listen to the sarga
0:00