शक्त्या निपातितं दृष्ट्वा रावणेन बलीयसा । लक्ष्मणं समर् शूरं शोणितौघपरिप्लुतम् ॥१॥
एकाधिकशततमः सर्गः 6.101
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स दत्त्वा तुमुलन् युद्धं रावणस्य दुरात्मनः । विसृजनेव बाणौघान्सुषेणन् वाक्यमब्रवीत् ॥२॥
एष रावणवेगेन लक्ष्मणः पतितः क्षितौ । सर्पवद्वेष्टते वीरो मम शोकमुदीरयन् ॥३॥
शोणितार्द्रमिमन् वीरं प्राणैरिष्टतरं मम । पश्यतो मम का शक्तिर्योद्धुं पर्याकुलात्मनः ॥४॥
अयन् स समरश्लाघी भ्राता मे शुभलक्षणः । यदि पञ्चत्वमापन्नः प्राणैर्मे किन् सुखेन वा ॥५॥
लज्जतीव हि मे वीर्यं भ्रश्यतीव कराद्धनुः । सायका व्यवसीदन्ति दृष्टिर्बाष्पवशन् गता ॥६॥
अवसीदन्ति गात्राणि स्वप्नयाने नृणामिव । चिन्ता मे वर्धते तीव्रा मुमूर्षापि च जायते ॥७॥
भ्रातरं निहतन् दृष्ट्वा रावणेन दुरात्मना । विष्टन्न्तं तु दुःखार्तं मर्मण्यभिहतं भृशम् ॥८॥
राघवो भ्रातरं दृष्ट्य प्रियं प्राणं बहिश्चरम् । दुःखेन महताविष्टो ध्यानशोकपरायणः ॥९॥
परन् विषादमापन्नो विललापाकुलेन्द्रियः । न हि युद्धेन मे कार्यं नैव प्राणैर्न सीतया ॥१०॥
विजयोऽपि हि मे शूर न प्रियायोपकल्पते । अचक्षुर्विषयश्चन्द्रः कां प्रीतिं जनयिष्यति ॥११॥
किं मे युद्धेन किं प्राणैर्युद्धकार्यं न विद्यते । यत्रायं निहतः शेते रणमूर्धनि लक्ष्मणः ॥१२॥
यथैव मां वनं यान्तमनुयाति महाद्युतिः । अहमप्युपयास्यामि तथैवैनं यमक्षयम् ॥१३॥
इष्टबन्दुजनो नित्यं मां स नित्यमनुव्रतः । इमामवस्थां गमितो राक्षसैः कूटयोधिभिः ॥१४॥
देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ॥१५॥
इत्येवं विलपन्तं तं शोकविह्वलितेन्द्रियम् । विवेष्टमानं करुणमुच्छ्वसन्तं पुनः पुनः ॥१६॥
किं नु राज्ये दुर्धर्षलक्ष्मणेन विना मम । कथं वक्ष्याम्यहं त्वम्बां सुमित्रां पुत्रवत्सलाम् ॥१७॥
उपालम्भं न शक्ष्यामि सोढुं दत्तं सुमित्रया । किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम् ॥१८॥
भरतं किं नु वक्ष्यामि शत्रुघ्नं च महाबलम् । सह तेन वनं यातो विना तेनागतः कथम् ॥१९॥
इहैव मरणं श्रेयो न तु बन्धुविगर्हणम् । किं मया दुष्कृतं कर्म कृतमन्यत्र जन्मनि ॥२०॥
येन मे धार्मिको भ्राता निहतश्चाग्रतः स्थितः । हा भ्रातर्मनुजश्रेष्ठ शूराणाम् प्रवर प्रभो ॥२१॥
एकाकी किं नु मां त्यक्त्वा परलोकाय गच्छसि । विलपन्तं च मां भ्रातः किमर्थं नावभाषसे ॥२२॥
उत्तिष्ठ पश्य किं शेषे दीनं मां पश्य चक्षुषा । शोकार्तस्य प्रमत्तस्य पर्वतेषु वनेषु च ॥२३॥
विषण्णस्य महाबाहो समाश्वासयिता मम । राममेवं ब्रुवाणं तु शोकव्याकुलितेन्द्रियम् ॥२४॥
आश्वासयन्नुवाचेदं सुषेणः परमं वचः । त्यजेमां नरशार्दूल बुद्धिं वैक्लब्यकारिणीम् ॥२५॥
शोकसंजननीं चिन्तां तुल्यां बाणैश्चमूमुखे । नैव पञ्चत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ॥२६॥
न ह्य्स्य विकृतं वक्त्रं न च श्यामत्वमागतम् । सुप्रभन् च प्रसन्नं च मुखमस्याभिलक्ष्यते ॥२७॥
पद्मरक्ततलौ हस्तौ सुप्रसन्ने च लोचने । नेदृशं दृश्यते रूपं गतासूनां विशां पते ॥२८॥
विषादं मा कृथा वीर सप्राणोऽयमरिंदम । आख्याति तु प्रसुप्तस्य स्रस्तगात्रस्य भूतले ॥२९॥
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः । एवं न विद्यते रूपन् गतासूनान् विशां पते ॥३०॥
समीपस्थमुवाचेदं हनूमन्तं महाकपिम् । सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ॥३१॥
पूर्वन् हि कथितो योअसौ वीर जाम्बवता शुभः । दक्षिणे शिखरे तस्य जातामोषधिमानय ॥३२॥
विशल्यकरणी नाम विशल्यकरणीन् शुभाम् । संजीवकरणीं वीर संधानीं च महौषधीम् ॥३३॥
संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः । इत्येवमुक्तो हनुमान्गत्वा चौषदिपर्वतम् ॥३४॥
चिन्तामभ्यगमच्छ्रीमानजानंस्ता महौषधीः । तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः ॥३५॥
इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः । अस्मिंस्तु शिखरे जातामोषधिं तां सुखावहाम् ॥३६॥
प्रतर्केणावगच्छामि सुषेणो ह्येवमब्रवीत् । अगृह्य यदि गच्छमि विशल्यकरणीमहम् ॥३७॥
कालात्ययेन दोषः स्याद्वैक्लब्यं च महद्भवेत् । इति सञ्चिन्त्य हनुमान्गत्वा क्षिप्रं महाबलः ॥३८॥
आसाद्य पर्वतश्रेष्ठं त्रिः प्रक्रम्य गिरेः शिरः । प्लुल्लनानातरुगणं समुत्पाट्य महाबलः ॥३९॥
गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् । स नीलमिव जीमूतं तोयपूर्णम् नभस्तलात् ॥४०॥
उत्पपात गृहीत्वा तु हनूमाञ्शिखरन् गिरेः । समागम्य महावेगः संन्यस्य शिखरं गिरेः ॥४१॥
विश्रम्यकिंचिद्धनुमान् सुषेणमिदमब्रवीत् । ओषधीर्नावगछामि ता अहन् हरिपुङ्गव ॥४२॥
तदिदन् शिखरन् कृत्स्नं गिरेस्तस्याहृतं मया । एवम् कथयमानं तं प्रशस्य पवनात्मजम् ॥४३॥
सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीः । विस्मितास्तु बभूवुस्ते सर्वे वानरपुंगवाः ॥४४॥
दृष्ट्वा हनूमतः कर्म सुरैरपि सुदुष्करम् । ततः सङ्क्षोदयित्वा तामोषधिन् वानरोत्तमः ॥४५॥
लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतिः । सशल्यः स समाघ्राय लक्ष्मणः परवीरहा ॥४६॥
विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् । तमुत्थितं तु हरयो भूतलात्प्रेक्ष्य लक्ष्मणम् ॥४७॥
साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् । एह्येहीत्यब्रवीद्रामो लाक्ष्मणं परवीरहा ॥४८॥
सस्वजे स्नेहगाढन् च बाष्पपर्याकुलेक्षणः । अब्रवीच्च परिष्वज्य सौमित्रिन् राघवस्तदा ॥४९॥
दिष्ट्या त्वान् वीर पश्यामि मरणात्पुनरागतम् । न हि मे जीवितेनार्थः सीतया च जयेन वा ॥५०॥
को हि मे जीवितेनार्थस्त्वयि पञ्चत्वमागते । इत्येवन् वदतस्तस्य राघवस्य महात्मनः ॥५१॥
खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् । तां प्रतिज्ञां प्रतिज्ञाय पुरा सत्यपराक्रम ॥५२॥
लघुः कश्चिदिवासत्त्वो नैवन् वक्तुमिहार्हसि । न प्रतिज्ञान् हि कुर्वन्ति वितथां साधवोअनघ ॥५३॥
लक्ष्मणन् हि महत्त्वस्य प्रतिज्ञापरिपालनम् । नैराश्यमुपगन्तुन् ते तदलं मत्कृतेअनघ ॥५४॥
वधेन रावणस्याद्य प्रतिज्ञामनुपालय । न जीवन्यास्यते शत्रुस्तव बाणपथन् गतः ॥५५॥
नर्दतस्तीक्ष्णदंष्ट्रस्य सिन्हस्येव महागजः । अहन् तु वधमिच्छामि शीघ्रमस्य दुरात्मनः ॥५६॥
यावदस्तं न यात्येष कृतकर्मा दिवाकरः । यदि वधमिच्छसि रावणस्य संख्ये । यदि च कृतां हि तवेच्छसि प्रतिज्ञाम् । यदि तव राजसुताभिलाष आर्य । कुरु च वचो मम शीग्रमद्य वीर ॥५७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकाधिकशततमः सर्गः ॥