रामायणम्

शततमः सर्गः 6.100

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्मिन्प्रतिहतेअस्त्रे तु रावणो राक्षसाधिपः । क्रोधन् च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥१॥

मयेन विहितन् रौद्रमन्यदस्त्रं महाद्युतिः । उत्स्रष्टुन् रावणो घोरं राघवाय प्रचक्रमे ॥२॥

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥३॥

मुद्गरः कूटपाशाश्च दीप्ताश्चाशनयस्तथा । निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥४॥

तदस्त्रन् राघवः श्रीमानुत्तमास्त्रविदां वरः । जघान परमास्त्रेण गन्धर्वेण महाद्युतिः ॥५॥

तस्मिन्प्रतिहतेअस्त्रे तु राघवेण महात्मना । रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥६॥

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥७॥

तैरासीद्गगनन् दीप्तन् सम्पतद्भिरितस्ततः । पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव ॥८॥

तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः । आयुधानि विचित्राणि रावणस्य चमूमुखे ॥९॥

तदस्त्रन् तु हतं दृष्ट्वा रावणो राक्षसाधिपः । विव्याध दशभिर्बाणै रामन् सर्वेषु मर्मसु ॥१०॥

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः । रावणेन महातेजा न प्राकम्पत राघवः ॥११॥

ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः । राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥१२॥

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । लक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥१३॥

तैः सायकैर्महावेगै रावणस्य महाद्युतिः । ध्वजं मनुष्यशीर्षन् तु तस्य चिच्छेद नैकधा ॥१४॥

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः ॥१५॥

तस्य बाणैश् च चिच्छेद धनुर्गजकरोपमम् । लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥१६॥

नीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् । जघानाप्लुत्य गदया रावणस्य विभीषणः ॥१७॥

हताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् । क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥१८॥

ततः शक्तिं महाशक्तिर्दीप्तान् दीप्ताशनीम् इव । विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥१९॥

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । अथोदतिष्ठत्संनादो वानराणान् तदा रणे ॥२०॥

संपपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी । सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥२१॥

ततः सम्भाविततरान् कालेनापि दुरासदाम् । जग्राह विपुलान् शक्तिन् दीप्यमानां स्वतेजसा ॥२२॥

सा वेगिना बलवता रावणेन दुरात्मना । जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥२३॥

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तन् विभीषणम् । प्राणसंशयमापन्नन् तूर्णमेवाभ्यपद्यत ॥२४॥

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः । रावणन् शक्तिहस्तन् तं शरवर्षैरवाकिरत् ॥२५॥

कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना । न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥२६॥

मोक्षितं भ्रातरन् दृष्ट्वा लक्ष्मणेन स रावणः । लक्ष्मणाभिमुखस्तिष्ठन्निदन् वचनमब्रवीत् ॥२७॥

मोक्षितस्ते बलश्लाघिन्यस्मादेवन् विभीषणः । विमुच्य राक्षसन् शक्तिस्त्वयीयं विनिपात्यते ॥२८॥

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥२९॥

इत्येवमुक्त्वा तान् शक्तिमष्टघण्टां महास्वनाम् । मयेन मायाविहिताममोघान् शत्रुघातिनीम् ॥३०॥

लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥३१॥

सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना । शक्तिरभ्यपतद्वेगाल्लक्ष्मणन् रणमूर्धनि ॥३२॥

तामनुव्याहरच्छक्तिमापतन्तीन् स राघवः । स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥३३॥

तावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । मुक्ताशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥३४॥

न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि । जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥३५॥

ततो रावणवेगेन सुदूरमवगाढया । शक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥३६॥

तदवस्थन् समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । भ्रातृस्नेहान्महातेजा विषण्णहृदयोअभवत् ॥३७॥

स मुहूर्तमनुध्याय बाष्पव्याकुललोचनः । बभूव सन्रब्धतरो युगान्त इव पावकः ॥३८॥

न विषादस्य कालोअयमिति सञ्चिन्त्य राघवः । चक्रे सुतुमुलन् युद्धं रावणस्य वधे धृतः ॥३९॥

सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च । स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ॥४०॥

लक्ष्मणन् रुधिरादिग्धं सपन्नगमिवाचलम् । तामपि प्रहितान् शक्तिं रावणेन बलीयसा ॥४१॥

यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् । अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥४२॥

सौमित्रिन् सा विनिर्भिद्य प्रविष्टा धरणीतलम् । तान् कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ॥४३॥

बभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च । तस्य निष्कर्षतः शक्तिन् रावणेन बलीयसा ॥४४॥

शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः । अचिन्तयित्वा तान्बाणान्समाश्लिष्या च लक्ष्मणम् ॥४५॥

अब्रवीच्च हनूमन्तन् सुग्रीवन् चैव राघवः । लक्ष्मणं परिवार्येह तिष्ठध्वन् वानरोत्तमाः ॥४६॥

पराक्रमस्य कालोअयन् सम्प्राप्तो मे चिरेप्सितः । पापात्मायन् दशग्रीवो वध्यतां पापनिश्चयः ॥४७॥

काङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् । अस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः ॥४८॥

अरावणमरामन् वा जगद्द्रक्ष्यथ वानराः । राज्यनाशन् वने वासन् दण्डके परिधावनम् ॥४९॥

वैदेह्याश्च परामर्शन् रक्षोभिश्च समागमम् । प्राप्तन् दुःखं महद्घोरं क्लेशं च निरयोपमम् ॥५०॥

अद्य सर्वमहन् त्यक्ष्ये हत्वा तन् रावणं रणे । यदर्थन् वानरं सैन्यं समानीतमिदं मया ॥५१॥

सुग्रीवश्च कृतो राज्ये निहत्वा वालिनन् रणे । सोअयमद्य रणे पापश्चक्षुर्विषयमागतः ॥५२॥

चक्षुर्विषयमागम्य नायन् जीवितुमर्हति ॥५३॥

दृष्टिन् दृष्टिविषस्येव सर्पस्य मम रावणः । यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजंगमः ॥५४॥

स्वस्थाः पश्यत दुर्धर्षा युद्धन् वानरपुङ्गवाः । आसीनाः पर्वताग्रेषु ममेदन् रावणस्य च ॥५५॥

अद्य रामस्य रामत्वं पश्यन्तु मम सन्युगे । त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥५६॥

अद्य कर्म करिष्यामि यल्लोकाः सचराचराः । सदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ॥५७॥

समागम्य सदा लोके यथा युद्धं प्रवर्तितम् । एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः । आजघान दशग्रीवन् रणे रामः समाहितः ॥५८॥

अथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ॥५९॥

अभ्यवर्षत्तदा रामन् धाराभिरिव तोयदः । रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ॥६०॥

शराणान् च शराणां च बभूव तुमुलः स्वनः । ते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ॥६१॥

अन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले । तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ॥६२॥

त्रासनः सर्वबूतानान् स बभूवाद्भुतोपमः । विकीर्यमाणः शरजालवृष्टिभिर् । र्महात्मना दीप्तधनुष्मतार्दितः । भयात्प्रदुद्राव समेत्य रावणो । यथानिलेनाभिहतो बलाहकः ॥६३॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥

Listen to the sarga
0:00