महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ । तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥१॥
एकोनशततमः सर्गः 6.99
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
आविवेश महान्क्रोधो रावणन् तु महामृधे । सूतन् सञ्चोदयामास वाक्यन् चेदमुवाच ह ॥२॥
निहतानाममात्यानान् रुद्धस्य नगरस्य च । दुःखमेषोअपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥३॥
रामवृक्षन् रणे हन्मि सीतापुष्पफलप्रदम् । प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥४॥
स दिशो दश घोषेण रथस्यातिरथो महान् । नादयन्प्रययौ तूर्णन् राघवन् चाभ्यवर्तत ॥५॥
पूरिता तेन शब्देन सनदीगिरिकानना । सञ्चचाल मही सर्वा सवराहमृगद्विपा ॥६॥
तामसन् सुमहाघोरन् चकारास्त्रं सुदारुणम् । निर्ददाह कपीन्सर्वान्स्ते प्रपेतुः समन्ततः ॥७॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥८॥
उत्पपात रजो भूमौ तैर्भग्नै संप्रधावितैः । न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥९॥
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृषःट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥१०॥
ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् । स ददर्श ततो रामन् तिष्ठन्तमपराजितम् ॥११॥
लक्ष्मणेन सह भ्रात्रा विष्णुना वासवन् यथा । आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥१२॥
पद्मपत्रविशालाक्षन् दीर्घबाहुमरिन्दमम् । ततो रामो महातेजाः सौमित्रिसहितो बली ॥१३॥
वानरांश्च रणे भग्नानापतन्तन् च रावणम् । समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥१४॥
विस्फारयितुमारेभे ततः स धनुरुत्तमम् । महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥१५॥
रावणस्य च बाणौघै रामविस्फारितेन च । शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ॥१६॥
तयोः शरपथं प्राप्य रावणो राजपुत्रयोः । स बभूव यथा राहुः समीपे शशिसूर्ययोः ॥१७॥
तमिच्छन्प्रथमन् योद्धुं लक्ष्मणो निशितैः शरैः । मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥१८॥
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता । बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥१९॥
एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश । लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥२०॥
अभ्यतिक्रम्य सौमित्रिन् रावणः समितिञ्जयः । आससाद ततो रामन् स्थितं शैलमिवाचलम् ॥२१॥
स सङ्ख्ये राममासाद्य क्रोधसन्रक्तलोचनः । व्यसृजच्छरवर्णानि रावणो राघवोपरि ॥२२॥
शरधारास्ततो रामो रावणस्य धनुश्च्युताः । दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥२३॥
ताञ्शरौघान्स्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः । दीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव ॥२४॥
राघवो रावणन् तूर्णन् रावणो राघवं तथा । अन्योन्यन् विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥२५॥
चेरतुश्च चिरन् चित्रं मण्डलन् सव्यदक्षिणम् । बाणवेगान्समुदीक्ष्य समरेष्वपराजितौ ॥२६॥
तयोर्भूतानि वित्रेषुर्युगपत्सम्प्रयुध्यतोः । रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥२७॥
सन्ततन् विविधैर्बाणैर्बभूव गगनन् तदा । घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥२८॥
गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः । महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥२९॥
शरान्धकारन् तौ भीमं चक्रतुः परमं तदा । गतेअस्तन् तपने चापि महामेघाविवोत्थितौ ॥३०॥
तयोरभून्महद्युद्धमन्योन्यवधकाङ्क्षिणोः । अनासाद्यमचिन्त्यन् च वृत्रवासवयोरिव ॥३१॥
उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ । उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥३२॥
उभौ हि येन व्रजतस्तेन तेन शरोर्मयः । ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥३३॥
ततः सन्सक्तहस्तस्तु रावणो लोकरावणः । नाराचमालान् रामस्य ललाटे प्रत्यमुञ्चत ॥३४॥
रौद्रचापप्रयुक्तान् तां नीलोत्पलदलप्रभाम् । शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥३५॥
अथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन् । शरान्भूयः समादाय रामः क्रोधसमन्वितः ॥३६॥
मुमोच च महातेजाश्चापमायम्य वीर्यवान् । ते महामेघसङ्काशे कवचे पतिताः शराः ॥३७॥
अवध्ये राक्षसेन्द्रस्य न व्यथान् जनयन्स्तदा । पुनरेवाथ तन् रामो रथस्थं राक्षसाधिपम् ॥३८॥
ललाटे परमास्त्रेण सर्वास्त्रकुशलोअभिनत् । ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ॥३९॥
श्वसन्तो विविशुर्भूमिन् रावणप्रतिकूलताः । निहत्य राघवस्यास्त्रन् रावणः क्रोधमूर्छितः ॥४०॥
आसुरन् सुमहाघोरमन्यदस्त्रं समाददे । सिन्हव्याघ्रमुखांश्चान्यान्कङ्ककाक मुखानपि ॥४१॥
गृध्रश्येनमुखांश्चापि सृगालवदनान्स्तथा । ईहामृगमुहांश्चान्यान्व्यादितास्यान्भयावहान् ॥४२॥
पञ्चास्याण्ल्लेलिहानांश्च ससर्ज निशिताञ्शरान् । शरान्खरमुखांश्चान्यान्वराहमुखसन्स्थितान् ॥४३॥
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् । एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् ॥४४॥
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् । आसुरेण समाविष्टः सोअस्त्रेण रघुनन्दनः ॥४५॥
ससर्जास्त्रं महोत्साहः पावकं पावकोपमः । अग्निदीप्तमुखान्बाणान्स्तथा सूर्यमुखानपि ॥४६॥
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि । ग्रहनक्षत्रवर्णांश्च महोल्का मुखसन्स्थितान् ॥४७॥
विद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् । ते रावणशरा घोरा राघवास्त्रसमाहताः ॥४८॥
विलयन् जग्मुराकाशे जग्मुश्चैव सहस्रशः । तदस्त्रं निहतन् दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥४९॥
हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः । सुग्रीवाभिमुखा वीराः संपरिक्षिप्य रागवम् ॥५०॥
ततस्तदस्त्रं विनिहत्य राघवः । प्रसह्य तद्रावणबाहुनिःसृतम् । मुदान्वितो दाशरथिर्महात्मा । विनेदुरुच्चैर्मुदिताः कपीश्वरा ॥५१॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः ॥