रामायणम्

अष्टनवतितमः सर्गः 6.98

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

महोदरे तु निहते महापार्श्वो महाबलः । सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः ॥१॥

अङ्गदस्य चमूं भीमान् क्षोभयामास सायकैः । स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ॥२॥

पातयामास कायेभ्यः फलन् वृन्तादिवानिलः । केषान् चिदिषुभिर्बाहून्स्कन्धांश्चिछेद राक्षसः ॥३॥

वानराणान् सुसङ्क्रुद्धः पार्श्वन् केषां व्यदारयत् । तेअर्दिता बाणवर्षेण महापार्श्वेन वानराः ॥४॥

विषादविमुखाः सर्वे बभूवुर्गतचेतसः । निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥५॥

वेगन् चक्रे महाबाहुः समुद्र इव पर्वणि । आयसं परिघन् गृह्य सूर्यरश्मिसमप्रभम् ॥६॥

समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् । स तु तेन प्रहारेण महापार्श्वो विचेतनः ॥७॥

ससूतः स्यन्दनात्तस्माद्विसन्ज्ञः प्रापतद्भुवि । यस्यर्क्षराजस्तु तेजस्वी नीलाज्ञनचयोपमः ॥८॥

निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात् । प्रगृह्य गिरिशृङ्गाभान् क्रुद्धः स विपुलान् शिलाम् ॥९॥

अश्वाञ्जघान तरसा स्यन्दनन् च बभञ्ज तम् । मुहूर्ताल्लब्धसन्ज्ञस्तु महापार्श्वो महाबलः ॥१०॥

अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत । जाम्बवन्तन् त्रिभिर्बाणैराजघान स्तनान्तरे ॥११॥

ऋक्षराजन् गवाक्षं च जघान बहुभिः शरैः । गवाक्षन् जाम्बवन्तं च स दृष्ट्वा शरपीडितौ ॥१२॥

जग्राह परिघन् घोरमङ्गदः क्रोधमूर्छितः । तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं ॥१३॥

दूरस्थितस्य परिघन् रविरश्मिसमप्रभम् । द्वाभ्यां भुजाभ्यान् सङ्गृह्य भ्रामयित्वा च वेगवान् ॥१४॥

महापार्श्वाय चिक्षेप वधार्थन् वालिनः सुतः । स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ॥१५॥

धनुश्च सशरन् हस्ताच्छिरस्त्रन् चाप्यपातयत् । तन् समासाद्य वेगेन वालिपुत्रः प्रतापवान् ॥१६॥

तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले । स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ॥१७॥

करेणैकेन जग्राह सुमहान्तं परश्वधम् । तन् तैलधौतन् विमलं शैलसारमयं दृढम् ॥१८॥

राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् । तेन वामान्सफलके भृशं प्रत्यवपातितम् ॥१९॥

अङ्गदो मोक्षयामास सरोषः स परश्वधम् । स वीरो वज्रसङ्काशमङ्गदो मुष्टिमात्मनः ॥२०॥

सन्वर्तयन्सुसङ्क्रुद्धः पितुस्तुल्यपराक्रमः । राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति ॥२१॥

इन्द्राशनिसमस्पर्शन् स मुष्टिं विन्यपातयत् । तेन तस्य निपातेन राक्षसस्य महामृधे ॥२२॥

पफाल हृदयन् चाशु स पपात हतो भुवि । तस्मिन्निपतिते भूमौ तत्सैन्यन् सम्प्रचुक्षुभे ॥२३॥

अभवच्च महान्क्रोधः समरे रावणस्य तु । वानराणां प्रहृष्टानां सिंहनादः सुपुष्कलः ॥२४॥

स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् । सहेन्द्रेणेव देवानां नादः समभवन्महान् ॥२५॥

अथेन्द्रशत्रुस्त्रिदशालयानां । वनौकसां चव महाप्रणादम् । श्रुत्वा सरोषं युद्दि राक्षसेन्द्रः । पुनश्च युद्धाभिमुखोऽवतस्थे ॥२६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥

Listen to the sarga
0:00