हन्यमाने बले तूर्णमन्योन्यन् ते महामृधे । सरसीव महाघर्मे सूपक्षीणे बभूवतुः ॥१॥
सप्तनवतितमः सर्गः 6.97
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स्वबलस्य विघातेन विरूपाक्षवधेन च । बभूव द्विगुणन् क्रुद्धो रावणो राक्षसाधिपः ॥२॥
प्रक्षीणन् तु बलं दृष्ट्वा वध्यमानन् वलीमुखैः । बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ॥३॥
उवाच च समीपस्थं महोदरमरिन्दमम् । अस्मिन्काले महाबाहो जयाशा त्वयि मे स्थिता ॥४॥
जहि शत्रुचमून् वीर दर्शयाद्य पराक्रमम् । भर्तृपिण्डस्य कालोअयं निर्वेष्टुन् साधु युध्यताम् ॥५॥
एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः । प्रविवेशारिसेनान् स पतङ्ग इव पावकम् ॥६॥
ततः स कदनन् चक्रे वानराणां महाबलः । भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥७॥
वानराश्च महासत्त्वः प्रगृह्य विपुलाः शिलाः । प्रविश्यारिबलं भीमं जघ्नस्ते सर्वराक्षसान् ॥८॥
महोदरः सुसंक्रुद्धः शरैः काज्ञ्चनभूषणैः । चिच्चेद पाणिपादोरु वानराणां महाहवे ॥९॥
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् । दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः ॥१०॥
प्रभग्नान् समरे दृष्ट्वा वानराणां महाचमूम् । अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥११॥
प्रगृह्य विपुलान् घोरां महीधर समान् शिलाम् । चिक्षेप च महातेजास्तद्वधाय हरीश्वरः ॥१२॥
तामापतन्तीन् सहसा शिलान् दृष्ट्वा महोदरः । असम्भ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम् ॥१३॥
रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा । निपपात शिलाभूमौ गृध्रचक्रमिवाकुलम् ॥१४॥
तान् तु भिन्नान् शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः । सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि ॥१५॥
शरैश्च विददारैनन् शूरः परपुरञ्जयः । स ददर्श ततः क्रुद्धः परिघं पतितं भुवि ॥१६॥
आविध्य तु स तन् दीप्तं परिघं तस्य दर्शयन् । परिघाग्रेण वेगेन जघानास्य हयोत्तमान् ॥१७॥
तस्माद्धतहयाद्वीरः सोअवप्लुत्य महारथात् । गदान् जग्राह सङ्क्रुद्धो राक्षसोअथ महोदरः ॥१८॥
गदापरिघहस्तौ तौ युधि वीरौ समीयतुः । नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ ॥१९॥
ततः क्रुद्धो गदां तस्य चिक्षेप रजनीचरः । ज्वलन्तीं भास्कराभासां सुग्रीवाय महोदरः ॥२०॥
गदां तां सुमहाघोरामापतन्तीं महाबलः । सुग्रीवो रोषताम्राक्षः समुद्यम्य महाहवे ॥२१॥
आजघान गदान् तस्य परिघेण हरीश्वरः । पपात स गदोद्भिन्नः परिघस्तस्य भूतले ॥२२॥
ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात् । आयसं मुसलन् घोरन् सर्वतो हेमभूषितम् ॥२३॥
स तमुद्यम्य चिक्षेप सोऽप्यस्य प्राक्षिपद्गदाम् । भिन्नावन्योन्यमासाद्य पेततुस्तौ महीतले ॥२४॥
ततो भिन्नप्रहरणौ मुष्टिभ्यान् तौ समीयतुः । तेजो बलसमाविष्टौ दीप्ताविव हुताशनौ ॥२५॥
जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः । तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले ॥२६॥
उत्पेततुस्ततस्तूर्णन् जघ्नतुश् च परस्परम् । भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ ॥२७॥
जग्मुतुस्तौ श्रमं वीरौ बाहुयुद्धे पांतपौ । जहार च तदा खग्डमदूरपरिवर्तिनम् ॥२८॥
राक्षसश्चर्मणा सार्धं महावेगो महोदरः । तथैव च महाखड्गन् चर्मणा पतितन् सह ॥२९॥
जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः । तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम् ॥३०॥
उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ । दक्षिणं मण्डलन् चोभौ तौ तूर्णन् सम्परीयतुः ॥३१॥
अन्योन्यमभिसङ्क्रुद्धौ जये प्रणिहितावुभौ । स तु शूरो महावेगो वीर्यश्लाघी महोदरः ॥३२॥
महाचर्मणि तन् खड्गं पातयामास दुर्मतिः । लग्नमुत्कर्षतः खड्गन् खड्गेन कपिकुञ्जरः ॥३३॥
जहार सशिरस्त्राणन् कुण्डलोपहितन् शिरः । निकृत्तशिरसस्तस्य पतितस्य महीतले ॥३४॥
तद्बलन् राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति । हत्वा तन् वानरैः सार्धं ननाद मुदितो हरिः ॥३५॥
चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः । विषण्णवदनाः सर्वे राक्षसा दीनचेतसः ॥३६॥
विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः । महोदरं तं विनिपात्य भूमौ । महागिरेः कीर्णमिवैकदेशम् । सूर्यात्मजस्तत्र रराज लक्ष्म्या । सूर्यः स्वतेजोभिरिवाप्रधृष्यः ॥३७॥
अथ विजयमवाप्य वानरेन्द्रः । समरमुखे सुरसिद्धयक्षसंघैः । अवनितलगतैश्च भूतसंघै । र्हरुषसमाकुलितैर्निरीक्ष्यमाणः ॥३८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये सप्तनवतितमः सर्गः ॥