तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः । बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता ॥१॥
षण्णवतितमः सर्गः 6.96
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
रावणस्याप्रसह्यन् तन् शरसम्पातमेकतः । न शेकुः सहितुन् दीप्तं पतङ्गा इव पावकम् ॥२॥
तेअर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः । पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ॥३॥
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः । स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥४॥
कदनन् तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् । आससाद ततो युद्धे राघवन् त्वरितस्तदा ॥५॥
सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे । गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः ॥६॥
आत्मनः सदृशन् वीरं स तं निक्षिप्य वानरम् । सुग्रीवोअभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥७॥
पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् । अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् ॥८॥
स नदन्युधि सुग्रीवः स्वरेण महता महान् । पातयन्विविधांश्चान्याञ्जघानोत्तमराक्षसान् ॥९॥
ममर्द च महाकायो राक्षसान्वानरेश्वरः । युगान्तसमये वायुः प्रवृद्धानगमानिव ॥१०॥
राक्षसानामनीकेषु शैलवर्षन् ववर्ष ह । अश्ववर्षन् यथा मेघः पक्षिसङ्घेषु कानने ॥११॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः । विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥१२॥
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः । सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च ॥१३॥
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः । रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥१४॥
स तन् द्विरदमारुह्य विरूपाक्षो महारथः । विनदन्भीमनिर्ह्रालन् वानरानभ्यधावत ॥१५॥
सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे । स्थापयामासा चोद्विग्नान्राक्षसान्सम्प्रहर्षयन् ॥१६॥
सोअतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा । चुक्रोध च महाक्रोधो वधे चास्य मनो दधे ॥१७॥
ततः पादपमुद्धृत्य शूरः सम्प्रधने हरिः । अभिपत्य जघानास्य प्रमुखे तं महागजम् ॥१८॥
स तु प्रहाराभिहतः सुग्रीवेण महागजः । अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥१९॥
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् । राक्षसोअभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥२०॥
आर्षभन् चर्मखड्गं च प्रगृह्य लघुविक्रमः । भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥२१॥
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य महतीन् शिलाम् । विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥२२॥
स तान् शिलामापतन्तीन् दृष्ट्वा राक्षसपुङ्गवः । अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥२३॥
तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे । कवचं पातयामास स खड्गाभिहतोअपतत् ॥२४॥
सहसा स तदोत्पत्य राक्षसस्य महाहवे । मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥२५॥
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः । तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे ॥२६॥
कवचम् पातयामास पद्भ्यामभिहतोऽपतत् । स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ॥२७॥
तलप्रहारमशनेः समानं भीमनिस्वनम् । तलप्रहारन् तद्रक्षः सुग्रीवेण समुद्यतम् ॥२८॥
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् । ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः ॥२९॥
मोक्षितन् चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा । स ददर्शान्तरन् तस्य विरूपाक्षस्य वानरः ॥३०॥
ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम् । महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥३१॥
पपात रुधिरक्लिन्नः शोणितन् स समुद्वमन् । स्रोतोभ्यस्तु विरूपाक्षो जलं रस्रवणादिव ॥३२॥
विवृत्तनयनन् क्रोधात्सफेन रुधिराप्लुतम् । ददृशुस्ते विरूपाक्षन् विरूपाक्षतरन् कृतम् ॥३३॥
स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम् । करुणन् च विनर्दान्तं ददृशुः कपयो रिपुम् ॥३४॥
तथा तु तौ सन्यति सम्प्रयुक्तौ । तरस्विनौ वानरराक्षसानाम् । बलार्णवौ सस्वनतुः सभीमं । महार्णवौ द्वाविव भिन्नवेलौ ॥३५॥
विनाशितं प्रेक्ष्य विरूपनेत्रं । महाबलन् तन् हरिपार्थिवेन । बलन् समस्तन् कपिराक्षसानाम् । उन्मत्तगङ्गाप्रतिमं बभूव ॥३६॥
इत्यार्षे स्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षण्णवतितमः सर्गः ॥