आर्तानान् राक्षसीनान् तु लङ्कायां वै कुले कुले रावणः करुणन् शब्दं शुश्राव परिवेदितम् ॥१॥
पज्ञ्चनवतितमः सर्गः 6.95
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स तु दीर्घन् विनिश्वस्य मुहूर्तन् ध्यानमास्थितः । बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥२॥
सन्दश्य दशनैरोष्ठन् क्रोधसन्रक्तलोचनः । राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः ॥३॥
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः । भयाव्यक्तकथान्स्तत्र निर्दहन्निव चक्षुषा ॥४॥
महोदरं महापार्श्वन् विरूपाक्षन् च राक्षसं । शीघ्रन् वदत सैन्यानि निर्यातेति ममाज्ञया ॥५॥
तस्य तद्वचनन् श्रुत्वा राक्षसास्ते भयार्दिताः । चोदयामासुरव्यग्रान्राक्षसान्स्तान्नृपाज्ञया ॥६॥
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः । कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः ॥७॥
प्रतिपूज्य यथान्यायन् रावणन् ते महारथाः । तस्थुः प्रांजलयः सर्वे भर्तुर्विजयकांक्षिणः ॥८॥
अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्छितः । महोदरमहापार्श्वौ विरूपाक्षन् च राक्षसं ॥९॥
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः । राघवन् लक्ष्मणन् चैव नेष्यामि यमसाधनम् ॥१०॥
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा । करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥११॥
नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः । प्रकाशत्वन् गमिष्यामि मद्बाणजलदावृताः ॥१२॥
अद्य वानरयूथानान् तानि यूथानि भागशः । धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥१३॥
अद्य वानरसैन्यानि रथेन पवनौजसा । धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥१४॥
व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम् । अद्य यूथतटाकानि गजवत्प्रमथाम्यहम् ॥१५॥
सशरैरद्य वदनैः संख्ये वानरयूथपाः । मण्डयिष्यन्ति वसुधान् सनालैरिव पंकलैः ॥१६॥
अद्य युद्धप्रचण्डानान् हरीणान् द्रुमयोधिनाम् । मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम् ॥१७॥
हतो भर्ता हतो भ्राता यासान् च तनया हताः । वधेनाद्य रिपोस्तासान् कर्मोम्यस्रप्रमार्जनम् ॥१८॥
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः । करोमि वानरैर्युद्धे यत्नावेक्ष्य तलां महीम् ॥१९॥
अद्य काकाश्च गृध्रा ये च मान्साशिनोअपरे । सर्वान्स्तान्स्तर्पयिष्यामि शत्रुमान्सैः शरार्दितैः ॥२०॥
कल्प्यतां मे रथशीघ्रन् क्षिप्रमानीयतां धनुः । अनुप्रयान्तु मान् युद्धे येअवशिष्टा निशाचराः ॥२१॥
तस्य तद्वचनन् श्रुत्वा महापार्श्वोअब्रवीद्वचः । बलाध्यक्षान्स्थितान्स्तत्र बलन् सन्त्वर्यताम् इति ॥२२॥
बलाध्यक्षास्तु सन्रब्धा राक्षसान्स्तान्गृहाद्गृहात् । चोदयन्तः परिययुर्लङ्कान् लघुपराक्रमाः ॥२३॥
ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः । नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥२४॥
असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः । शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥२५॥
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः । भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥२६॥
अथानयन्बलाध्यक्षाश्चत्वारो रावणाज्ञया । आरुरोह रथन् दिव्यं दीप्यमानन् स्वतेजसा ॥२७॥
द्रुतन् सूतसमायुक्तं युक्ताष्टतुरगं रथम् । ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ॥२८॥
रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम् । ततश्चासीन्महानादस्तूर्याणाम् च ततस्ततः ॥२९॥
मृदङ्ग्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम् । आगतो रक्षसां राजा चत्रचामरसंयुतः ॥३०॥
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः । योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ॥३१॥
तेन नादेन महता पृथिवी समकम्पत । तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात् ॥३२॥
रावणस्तु महाबाहुः सचिवैः परिवारितः । आजगाम महातेजा जयाय विजयं प्रति ॥३३॥
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ । विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥३४॥
ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम् । नादन् घोरन् विमुंचन्तो निर्ययुर्जयकांक्षिणः ॥३५॥
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः । निर्ययावुद्यतधनुः कालान्तकयमोमपः ॥३६॥
ततः प्रजवनाश्वेन रथेन स महारथः । द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥३७॥
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः । द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी ॥३८॥
ववर्ष रुधिरन् देवश्चस्खलुश्च तुरंगमाः । ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवन् शिवाः ॥३९॥
नयनन् चास्फुरद्वामन् सव्यो बाहुरकम्पत । विवर्णवदनश्चासीत्किन् चिदभ्रश्यत स्वनः ॥४०॥
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः । रणे निधनशन्सीनि रूपाण्येतानि जज्ञिरे ॥४१॥
अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना । विनेदुरशिवन् गृध्रा वायसैरनुनादिताः ॥४२॥
एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् । निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ॥४३॥
तेषान् तु रथघोषेण राक्षसानां महात्मनाम् । वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥४४॥
तेषान् सुतुमुलं युद्धं बभूव कपिरक्षसाम् । अन्योन्यमाह्वयानानान् क्रुद्धानां जयमिच्छताम् ॥४५॥
ततः क्रुद्धो दशग्रीवः शरैः कांचनभूषणैः । वानराणामनीकेषु चकार कदनं महत् ॥४६॥
निकृत्तशिरसः के चिद्रावणेन वलीमुखाः । केचिद्विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ॥४७॥
निरुच्छ्वासा हताः के चित्के चित्पार्श्वेषु दारिताः । के चिद्विभिन्नशिरसः के चिच्चक्षुर्विवर्जिताः ॥४८॥
दशाननः क्रोधविवृत्तनेत्रो यतो यतोअभ्येति रथेन संख्ये । ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरियूथपास्ते ॥४९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पज्ञ्चनवतितमः सर्गः ॥