रामायणम्

चतुर्नवतितमः सर्गः 6.94

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तानि नागसहस्राणि सारोहाणान् च वाजिनाम् । रथानान् चाग्निवर्णानान् सध्वजानां सहस्रशः ॥१॥

राक्षसानान् सहस्राणि गदापरिघयोधिनाम् । कांचनध्वजचित्राणान् शूराणान् कामरूपिणाम् ॥२॥

निहतानि शरैस्तीक्ष्णैस्तप्तकांचनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ॥३॥

दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः । राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥४॥

विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः । राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥५॥

कथन् शूर्पणखा वृद्धा कराला निर्णतोदरी । आससाद वने रामन् कन्दर्पमिव रूपिणम् ॥६॥

सुकुमारं महासत्त्वन् सर्वभूतहिते रतम् । तन् दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता ॥७॥

कथन् सर्वगुणैर्हीना गुणवन्तं महौजसं । सुमुखन् दुर्मुखी रामं कामयामास राक्षसी ॥८॥

जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा । अकार्यमपहास्यन् च सर्वलोकविगर्हितम् ॥९॥

राक्षसानान् विनाशाय दूषणस्य खरस्य च । चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ॥१०॥

तन्निमित्तमिदन् वैरं रावणेन कृतं महत् । वधाय नीता सा सीता दशग्रीवेण रक्षसा ॥११॥

न च सीतान् दशग्रीवः प्राप्नोति जनकात्मजाम् । बद्धं बलवता वैरमक्षयन् राघवेण ह ॥१२॥

वैदेहीं प्रार्थयानन् तन् विराधं प्रेक्ष्य राक्षसं । हतमेकेन रामेण पर्याप्तन् तन्निदर्शनम् ॥१३॥

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥१४॥

खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा । शरैरादित्यसंकाशैः पर्याप्तन् तन्निदर्शनम् ॥१५॥

हतो योजनबाहुश्च कबन्धो रुधिराशनः । क्रोधार्तो विनदन्सोअथ पर्याप्तन् तन्निदर्शनम् ॥१६॥

जघान बलिनन् रामः सहस्रनयनात्मजम् । बालिनं मेघसंकाशं पर्याप्तन् तन्निदर्शनम् ॥१७॥

ऋश्यमूके वसंशैले दीनो भग्नमनोरथः । सुग्रीवः स्थापितो राज्ये पर्याप्तन् तन्निदर्शनम् ॥१८॥

धर्मार्थसहितन् वाक्यं सर्वेषां रक्षसां हितम् । युक्तन् विभीषणेनोक्तं मोहात्तस्य न रोचते ॥१९॥

विभीषणवचः कुर्याद्यदि स्म धनदानुजः । श्मशानभूता दुःखार्ता नेयन् लंका पुरी भवेत् ॥२०॥

कुम्भकर्णन् हतं श्रुत्वा राघवेण महाबलम् । अतिकायं च दुर्मर्षं लक्ष्मणेन हतं तदा ॥२१॥

प्रियन् चेन्द्रजितं पुत्रन् रावणो नावबुध्यते । मम पुत्रो मम भ्राता मम भर्ता रणे हतः ॥२२॥

इत्येवन् श्रूयते शब्दो राक्षसानान् कुले कुले । रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः ॥२३॥

रणे रामेण शूरेण राक्षसाश्च पदातयः । रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः ॥२४॥

हन्ति नो रामरूपेण यदि वा स्वयमन्तकः । हतप्रवीरा रामेण निराशा जीविते वयम् ॥२५॥

अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे । रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि ॥२६॥

इदं भयं महाघोरमुत्पन्नं नावबुध्यते । न देवा न च गन्धर्वा न पिशाचा न राकसाः ॥२७॥

उपसृष्टं परित्रातुन् शक्ता रामेण सन्युगे । उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे ॥२८॥

कथयिष्यन्ति रामेण रावणस्य निबर्हणम् । पितामहेन प्रीतेन देवदानवराक्षसैः ॥२९॥

रावणस्याभयन् दत्तं मानुषेभ्यो न याचितम् । तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम् ॥३०॥

जीवितान्तकरन् घोरन् रक्षसां रावणस्य च । पीड्यमानास्तु बलिना वरदानेन रक्षसा ॥३१॥

दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन् । देवतानान् हितार्थाय महात्मा वै पितामहः ॥३२॥

उवाच देवताः सर्वा इदन् तुष्टो महद्वचः । अद्य प्रभृति लोकान्स्त्रीन्सर्वे दानवराक्षसाः ॥३३॥

भयेन प्रावृता नित्यन् विचरिष्यन्ति शाश्वतम् । दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः ॥३४॥

वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः । प्रसन्नस्तु महादेवो देवानेतद्वचोअब्रवीत् ॥३५॥

उत्पत्स्यति हितार्थन् वो नारी रक्षःक्षयावहा । एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान्पुरा ॥३६॥

भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान् । रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः ॥३७॥

अयं निष्टानको घोरः शोकेन समभिप्लुतः । तं न पश्यामहे लोके यो नः शरणदो भवेत् ॥३८॥

राघवेणोपसृष्टानान् कालेनेव युगक्षये । नास्ति नः शरणं कश्चिद्भये महति तिष्ठताम् ॥३९॥

दावाग्निवेष्ठितानां हि करेणूनां यथा वने । प्राप्तकालं कृतं तेन पौलस्त्येन महात्मना ॥४०॥

यत एवं भयं दृष्ठं तमेव शरणं गतः । इतीव सर्वा रजनीचरस्त्रियः । परस्परन् सम्परिरभ्य बाहुभिः । विषेदुरार्तातिभयाभिपीडिता । विनेदुरुच्चैश्च तदा सुदारुणम् ॥४१॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुर्नवतितमः सर्गः ॥

Listen to the sarga
0:00