रामायणम्

त्रिनवतितमः सर्गः 6.93

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स प्रविश्य सभान् राजा दीनः परमदुःखितः । निषसादासने मुख्ये सिन्हः क्रुद्ध इव श्वसन् ॥१॥

अब्रवीच्च तदा सर्वान्बलमुख्यान्महाबलः । रावणः प्रांजलीन्वाक्यं पुत्रव्यसनकर्शितः ॥२॥

सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः । निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः ॥३॥

एकन् रामं परिक्षिप्य समरे हन्तुमर्हथ । प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः ॥४॥

अथ वाहन् शरैर्तीष्क्णैर्भिन्नगात्रं महारणे । भवद्भिः श्वो निहन्तास्मि रामन् लोकस्य पश्यतः ॥५॥

इत्येवन् राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः । निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च सन्वृताः ॥६॥

परिघान् पट्टिशांश्चैव शरखड्गपरश्वधान् । शरीरान्तकरान् सर्वे चिक्षिपुर्वानरान् प्रति ॥७॥

वानराश्च द्रुमान् शैलान् राक्षसान् प्रति चिक्षिपुः । स संग्रामो महाभीमः सूर्यस्योदयनं प्रति ॥८॥

रक्षसान् वानराणान् च तुमुलः समपद्यत । ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः ॥९॥

अन्योन्यन् समरे जघ्नुस्तदा वानरराक्षसाः । एवं प्रवृते संग्रामे ह्यदुभुतं सुमहद्रजः ॥१०॥

रक्षसां वानराणां च शान्तं शोणितविस्रवैः । मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः ॥११॥

शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः । ततस्ते वानराः सर्वे शोणितौघपरिप्लुताः ॥१२॥

ध्वजवर्मरथानश्वान्नानाप्रहरणानि च । आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभंजिरे ॥१३॥

केशान्कर्णललाटांश्च नासिकाश्च प्लवंगमाः । रक्षसान् दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन् ॥१४॥

एकैकन् राक्षसं संख्ये शतं वानरपुंगवाः । अभ्यधावन्त फलिनन् वृक्षं शकुनयो यथा ॥१५॥

तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः । निर्जघ्नुर्वानरान्घोरान्राक्षसाः पर्वतोपमाः ॥१६॥

राक्षसैर्वध्यमानानान् वानराणां महाचमूः । शरण्यन् शरणं याता रामन् दशरथात्मजम् ॥१७॥

ततो रामो महातेजा धनुरादाय वीर्यवान् । प्रविश्य राक्षसन् सैन्यं शरवर्षं ववर्ष ह ॥१८॥

प्रविष्टन् तु तदा रामं मेघाः सूर्यमिवाम्बरे । नाभिजग्मुर्महाघोरं निर्दहन्तन् शराग्निना ॥१९॥

कृतान्येव सुघोराणि रामेण रजनीचराः । रणे रामस्य ददृशुः कर्माण्यसुकराणि च ॥२०॥

चालयन्तं महानीकन् विधमन्तं महारथान् । ददृशुस्ते न वै रामन् वातं वनगतं यथा ॥२१॥

छिन्नं भिन्नन् शरैर्दग्धं प्रभग्नं शस्त्रपीडितम् । बलन् रामेण ददृशुर्न रमं शीघ्रकारिणम् ॥२२॥

प्रहरन्तन् शरीरेषु न ते पश्यन्ति राभवम् । इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः ॥२३॥

एष हन्ति गजानीकमेष हन्ति महारथान् । एष हन्ति शरैस्तीक्ष्णैः पदातीन्वाजिभिः सह ॥२४॥

इति ते राक्षसाः सर्वे रामस्य सदृशान्रणे । अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य तु ॥२५॥

स ते ददृशिरे रामन् दहन्तमरिवाहिनीम् । मोहिताः परमास्त्रेण गान्धर्वेण महात्मना ॥२६॥

ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः । पुनः पश्यन्ति काकुत्स्थमेकमेव महात्मना ॥२७॥

भ्रमन्तीन् कांचनीं कोटिं कार्मुकस्य महात्मनः । अलातचक्रप्रतिमान् ददृशुस्ते न राघवम् ॥२८॥

शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम् । ज्याघोषतलनिर्घोषन् तेजोबुद्धिगुणप्रभम् ॥२९॥

दिव्यास्त्रगुणपर्यन्तं निघ्नन्तन् युधि राक्षसान् । ददृशू रामचक्रन् तत्कालचक्रमिव प्रजाः ॥३०॥

अनीकन् दशसाहस्रन् रथानां वातरन्हसाम् । अष्टादशसहस्राणि कुंजराणान् तरस्विनाम् ॥३१॥

चतुर्दशसहस्राणि सारोहाणान् च वाजिनाम् । पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम् ॥३२॥

दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः । हतान्येकेन रामेण रक्षसान् कामरूपिणाम् ॥३३॥

ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः । अभिपेतुः पुरीन् लंकां हतशेषा निशाचराः ॥३४॥

हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम् । आक्रीडभूमी क्रुद्रस्य रुद्रस्येव महात्मनः ॥३५॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । साधु साध्विति रामस्य तत्कर्म समपूजयन् ॥३६॥

अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम् । विभीषणं च धर्मात्मा हनूमन्तं च वानरम् ॥३७॥

जाम्बवन्तं हरिश्रेष्ठं मैन्दं द्विविदमेव च । एतदस्त्रबलन् दिव्यं मम वा त्र्यम्बकस्य वा ॥३८॥

निहत्य तान् राक्षसवाहिनीन् तु । रामस्तदा शक्रसमो महात्मा । अस्त्रेषु शस्त्रेषु जितक्लमश् च । सन्स्तूयते देवगणैः प्रहृष्टैः ॥३९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः ॥

Listen to the sarga
0:00