ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥१॥
द्विनवतितमः सर्गः 6.92
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
युद्धे हतो महाराज लक्ष्मणेन तवात्मजः । विभीषणसहायेन मिषतां नो महाद्युते ॥२॥
शूरः शूरेण संगम्य संयुगेष्वपराजितः । लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित् ॥३॥
गतः स परमान् लोकान् शरैः संताप्य् लक्ष्मणम् । स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ॥४॥
घोरमिन्द्रजितः सङ्ख्ये कश्मलं प्राविशन्महत् । उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः ॥५॥
पुत्रशोकाकुलो दीनो विललापाकुलेन्द्रियः । हा राक्षसचमूमुख्य मम वत्स महारथ ॥६॥
जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः । ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ॥७॥
मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे । अद्य वैवस्वतो राजा भूयो बहुमतो मम ॥८॥
येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा । एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥९॥
यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति । अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ॥१०॥
हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः । अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना ॥११॥
एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे । अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम् ॥१२॥
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे । यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ॥१३॥
मातरं मां च भार्यां च क्व गतोऽसि विहाय नः । मम नाम त्वया वीर गतस्य यमसादनम् ॥१४॥
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे । स त्वं जीवति सुग्रीवे लक्ष्मणे च राघवे ॥१५॥
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः । एवमादिविलापार्तं रावणं राक्षसाधिपम् ॥१६॥
आविवेश महान्कोपः पुत्रव्यसनसम्भवः । प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ॥१७॥
दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः । ललाटे भुकुटीभिश्च संगताभिर्व्यरोचत ॥१८॥
यगान्ते सहनक्त्रस्तु महोर्मिभिरिवोदधिः । कोपाद्विजृम्भमाणस्य वक्त्रद्व्यक्तमिव ज्वलन् ॥१९॥
उत्पपात सधूमाग्निर्वृत्रस्य वदनादिव । स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ॥२०॥
समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् । तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनापि च ॥२१॥
रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः । घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् ॥२२॥
बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम् । तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः ॥२३॥
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः । दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः ॥२४॥
यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव । कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ॥२५॥
तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे । तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ॥२६॥
वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः । ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ॥२७॥
अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे । मया वर्षसहस्राणि चरित्वा परमं तपः ॥२८॥
तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः । तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः ॥२९॥
नासुरेभ्यो न देवेभ्यो भयं मम कदा चन । कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ॥३०॥
देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः । तेन मामद्य संयुक्तं रथस्थमिह संयुगे ॥३१॥
प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरन्दरः । यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत् ॥३२॥
देवासुरविमर्देषु मम दत्तं स्वयम्भुवा । अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ॥३३॥
रामलक्ष्मणयोरेव वधाय परमाहवे । स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ॥३४॥
समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत । प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान् ॥३५॥
दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् । मायया मम वत्सेन वंचनार्थं वनौकसाम् ॥३६॥
किं चिदेव हतं तत्र सीतेयमिति दर्शितम् । तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ॥३७॥
वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् । इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् ॥३८॥
उत्प्लुत्य गुणसम्पन्नं विमलाम्बरवर्चसं । निष्पपात स वेगेन सभायाः सचिवैर्वृतः ॥३९॥
रावणः पुत्रशोकेन भृशमाकुलचेतनः । संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥४०॥
व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं विचुक्रुशुः । ऊचुश्चान्योन्यमालिङ्ग्य संक्रुद्धं प्रेक्ष्य राक्षसाः ॥४१॥
अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः । लोकपाला हि चत्वारः क्रुद्धेनानेन तर्जिताः ॥४२॥
बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः । त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥४३॥
विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि । तेषां संजल्पमानानामशोकवनिकां गताम् ॥४४॥
अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः । वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ॥४५॥
अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीम् इव । मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ॥४६॥
ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् । तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ॥४७॥
निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम् । सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥४८॥
यथायं मामभिक्रुद्धः समभिद्रवति स्वयम् । वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥४९॥
बहुशश्चोदयामास भर्तारं मामनुव्रताम् । भार्या भव रमस्येति प्रत्याख्यातो ध्रुवं मया ॥५०॥
सोऽयं मामनुपस्थानाद् व्यक्तं नैराश्यमागतः । क्रोधमोहसमाविष्टो व्यक्तं मां हन्तुमुद्यतः ॥५१॥
अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ । मन्निमित्तमनार्येण समरेऽद्य निपातितौ ॥५२॥
भैरवो हि महान्नादो राक्षसानां श्रुतो मया । बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम् ॥५३॥
अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः । अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ॥५४॥
विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः । हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया ॥५५॥
यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता । नाद्यैवमनुशोचेयं भर्तुरंकगता सती ॥५६॥
मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति । एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥५७॥
सा हि जन्म च बाल्यं च यौवनं च महात्मनः । धर्मकार्याणि रूपं च रुदती संस्रमिष्यति ॥५८॥
निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना । अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति ॥५९॥
धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् । यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥६०॥
इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् । रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥६१॥
एतस्मिन्नन्तरे तस्य अमात्यः शीलवान् शुचिः । सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम् ॥६२॥
निवार्यमाणं सचिवैरिदं वचनमब्रवीत् । कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ॥६३॥
हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि । वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा ॥६४॥
स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर । मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव ॥६५॥
तस्मिन्नेव सहास्माभी राघवे क्रोधमुत्सृज । अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ॥६६॥
कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः । शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः ॥६७॥
हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् । स तद्दुरात्मा सुहृदा निवेदितं । वचः सुधर्म्यं प्रतिगृह्य रावणः । गृहं जगामाथ ततश्च वीर्यवान् । पुनः सभां च प्रययौ सुहृद्वृतः ॥६८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्विनवतितमः सर्गः ॥