रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः । बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे ॥१॥
एकनवतितमः सर्गः 6.91
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान् । संनिवर्त्य महातेजास्तांश्च सर्वान्वनौकसः ॥२॥
आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ । विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः ॥३॥
ततो राममभिक्रम्य सौमित्रिरभिवाद्य च । तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा ॥४॥
निष्ठनन्निव चागत्य राघवाय महात्मने । आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम् ॥५॥
रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना । न्यवेदयत रामाय तदा हृष्टो विभीषणः ॥६॥
श्रुत्वैव तु महावीर्यो लक्ष्मणेनेन्द्रजिद्वधम् । प्रहर्षमतुलं लेभे वाक्यं चेदमुवाच ह ॥७॥
साधु लक्ष्मण तुष्टोऽस्मि कर्म चासुकरं कृतम् । रावणेर्हि विनाशेन जितमित्युपधारय ॥८॥
स तं शिरस्युपाघ्राय लक्ष्मणं कीर्तिवर्धनम् । लज्जमानं बलात्स्नेहादङ्कमारोप्य वीर्यवान् ॥९॥
उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम् । भ्रातरं लक्ष्मणं स्निग्धं पुनः पुनरुदैक्षत ॥१०॥
शल्यसंपीडितं शस्तं निःश्वसन्तं तु लक्ष्मणम् । रामस्तु दुःखसंतप्तं तं तु निःश्वासपीडितम् ॥११॥
मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन् । उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः ॥१२॥
कृतं परमकल्याणं कर्म दुष्करकारिणा । अद्य मन्ये हते पुत्रे रावणम् निहतं युधि ॥१३॥
अद्याहं विजया शत्रौ हते तस्मिन् दुरात्मनि । रावणस्य नृशंसस्य दिष्ट्या वीर त्वया रणे ॥१४॥
चिन्नो हि दक्षिणो बाहुः स हि तस्य व्यपाश्रयः । विभीषणहनूमद्भ्यां कृतं कर्म महद्रणे ॥१५॥
अहोरात्रैस्त्रिभिर्वीरः कथंचिद्विनिपातितः । निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः ॥१६॥
बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम् । तं पुत्रवधसन्तप्तं निर्यान्तं राक्षसाधिपम् ॥१७॥
बलेनावृत्य महता निहनिष्यामि दुर्जयम् । त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे ॥१८॥
न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे । स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः ॥१९॥
रामः सुषेणं मुदितः समाभाष्येदमब्रवीत् । सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः ॥२०॥
यथा भवति सुस्वस्थस्तथा त्वं समुपाचर । विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः ॥२१॥
कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम् । ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा ॥२२॥
तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया । एवमुक्तः स रामेण महात्मा हरियूथपः ॥२३॥
लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम् । स तस्य गन्धमाघ्राय विशल्यः समपद्यत ॥२४॥
तदा निर्वेदनश्चैव संरूढव्रण एव च । विभीषण मुखानां च सुहृदां राघवाज्ञया ॥२५॥
सर्ववानरमुख्यानां चिकित्सां स तदाकरोत् । ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः ॥२६॥
सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः । तथैव रामः प्लवगाधिपस्तदा । विभीषणश्चर्क्षपतिश्च जाम्बवान् । अवेक्ष्य सौमित्रिमरोगमुत्थितं । मुदा ससैन्यः सुचिरं जहर्षिरे ॥२७॥
अपूजयत्कर्म स लक्ष्मणस्य । सुदुष्करं दाशरथिर्महात्मा । बभूव हृष्टा युधि वानरेन्द्रो । निशम्य तं शक्रजितं निपातितम् ॥२८॥
इत्यार्षे श्र्रिमद्रामायणे आदिकाव्ये युद्धकाण्डे एकनवतितमः सर्गः ॥