स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः । इन्द्रजित्परमक्रुद्धः सम्प्रजज्वाल तेजसा ॥१॥
नवतितमः सर्गः 6.90
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् । विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥२॥
निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः । भर्तारं न जहुर्युद्धे सम्पतन्तस्ततस्ततः ॥३॥
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः । स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥४॥
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः । नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥५॥
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै । अहं तु रथमास्थाय आगमिष्यामि संयुगे ॥६॥
तथा भवन्तः कुर्वन्तु यथेमे हि वनौकसः । न युध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥७॥
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः । प्रविवेश पुरीं लङ्काम् रथहेतोरमित्रह ॥८॥
स रथं भूषयित्वाथ रुचिरं हे मभूषितम् । प्रासासिशरसंयुक्तं युक्तं परमवाजिभिः ॥९॥
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना । आरुरोह महातेजा रावणिः समितिंजयः ॥१०॥
स राक्षस्गणैर्मुख्यैर्वृतो मन्दोदरीसुतः । निर्ययौ नगराद्वीरः कृतान्तबलचोदितः ॥११॥
सोऽभिनिष्क्रम्य नगरादिन्द्रजित्परवीरह । अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥१२॥
ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । नानराश्च महावीर्या राक्षसश्च विभीषणः ॥१३॥
विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः । रावणिश्चापि संक्रुद्धो रणे वानरयूथपान् ॥१४॥
पातयामास बाणौघैः शतशोऽथ् सहस्रशः । स मण्डलीकृतधनू रावणिः समितिंजयः ॥१५॥
हरीनभ्यहनत्क्रुद्धः परं लाघवमास्थितः । ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ॥१६॥
सौमित्रिं शरणम् प्राप्तः प्रजापतिमिव प्रजाः । ततः समरकोपेन ज्वलितो रघुनन्दनः ॥१७॥
चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् । सोऽन्य्त्कार्मुकमादाय सज्जं चक्रे त्वरन्निव ॥१८॥
तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत । अथनं चिन्नधन्वानमाशीविषविषोपमैः ॥१९॥
विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः । ते तस्य कायं इर्भिद्य महाकार्मुकनिःसृताः ॥२०॥
निपेतुर्धरणीं बाणा रक्ता इव महोरगाः । स च्छिन्नधन्वा रुधिरं वमन् वक्त्रेण रावणिः ॥२१॥
जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् । स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः । ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः ॥२२॥
मुक्तमिन्द्रजिता तत्तु शरवर्षमरिन्दमः । अवारयदसम्भ्रान्तो लक्ष्मणः सुदुरासदम् ॥२३॥
संदर्शयामास तदा रावणिं रघुनन्दनः ॥२४॥
असंभ्रान्तो महातेजास्तदद्भुतमिवाभवत् । ततस्तान् राक्षसान् सर्वांस्त्रिभिरेकैक महावे ॥२५॥
अविध्यत्परमक्रुद्धः शीघ्रास्त्रं सम्प्रदर्शयन् । राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥२६॥
सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना । असक्तं प्रेषयामास लक्ष्मणाय बहून् शरान् ॥२७॥
तानप्राप्तान् शितैर्बाणैश्चिच्छेद परवीरह । सारथेरस्य च रणे रथिनो रघुसत्तमः ॥२८॥
शोरो जहार धर्मात्मा भल्लेनानतपर्वणा । असूतास्ते हयास्तत्र रथमूहुरविक्लबाः ॥२९॥
मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् । अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः ॥३०॥
प्रत्यविद्ध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे । अमर्षमाणस्तत्कर्म रावणस्य सुतो रणे ॥३१॥
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् । ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः ॥३२॥
विलयं जग्मुरागत्य कवचं काञ्चनप्रभम् । अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः ॥३३॥
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् । अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन् ॥३४॥
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः । रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥३५॥
स तथाप्यर्दितो बाणै राक्षसेन महामृधे । तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः ॥३६॥
विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले । लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ॥३७॥
अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ । ततह् शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ ॥३८॥
रणे तौ राजतुर्वीरौ पुष्पिताविव किंशुकौ । तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ ॥३९॥
घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये । ततः समरकोपेन संवृतो रावणात्मजः ॥४०॥
विभीषणं त्रिभिर्बाणैर्विव्याध वदने शुभे । अयोमुखस्त्रिभिर्विद्ध्वा राक्षसेन्द्रं विभीषणम् ॥४१॥
एकैकेनाभिविव्याध तान्सर्वान् हरियूथपान् । तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः ॥४२॥
विभीषणो महातेजा रावणेः स दुरात्मनः । स हताश्वात्समाप्लुत्य रथान्मथिरसारथिः ॥४३॥
अथ शक्तिं महातेजाः पितृव्याय मुमोच ह । तामापतन्तीं संप्रेक्ष्य सुमित्रानन्दवर्धनः ॥४४॥
चिच्छेद निशितै र्बाणैर्दशधापातयद्भुवि । तस्मै दृढतनुः क्रुद्धो हताश्वाय विभीषणः ॥४५॥
वज्रस्पर्शसमान्पञ्च ससर्जोरसि मार्गणान् । ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः ॥४६॥
बभूवुर्लोहितादिग्धा रक्टा इव महोरगाः । स पितृव्यस्य सङ्क्रुद्ध इन्द्रजिच्छरमाददे ॥४७॥
उत्तमं रक्षसां मध्ये यमदत्तं महाबलः । तं समीक्ष्य महातेजा महेषुं तेन संहितम् ॥४८॥
लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः । कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना ॥४९॥
दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः । तयोस्तु धनुषी श्रेष्ठे बाहुभिः परिघोपमैः ॥५०॥
विकृष्यमाणे बलवत् क्रौञ्चविव चुकूजतुः । ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ ॥५१॥
विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया । तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ ॥५२॥
मुखेन मुखमाहत्य संनिपेततुरोजसा । संनिपातस्तयोश्चासीच्छरयोर्घोररूपयोः ॥५३॥
सधूमविस्फुलिङ्गश्च तज्जोऽग्निर्दारुणोऽभवत् । तौ महाग्रहसङ्काशावन्योन्यं संनिपत्य च ॥५४॥
सङ्ग्रामे शतधा यातौ मेदिन्यां विनिपेततुः । शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि ॥५५॥
व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितौ तदा । स संरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे ॥५६॥
रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः । तेन तद्विहतं शस्त्रं वारुणम् परमाद्भुतम् ॥५७॥
ततः क्रुद्धो महातेजा इन्द्रजित्समितिंजयः । अग्नेयं संदधे दीप्तं स लोकं संक्षिपन्निव ॥५८॥
सौरेणास्त्रेण तद्वीरो लक्ष्मणः पर्यवारयत् । अस्त्रं निवारितं दृष्ट्वा रावणिः क्रोधमूर्चितः ॥५९॥
आददे निशितं बाणमासुरं शत्रुदारणम् । तस्माच्चापाद्विनिष्पेतुर्भास्वराः कूटमुद्गराः ॥६०॥
शूलानि च भुशुण्ड्यश्च गदाः खड्गाः परश्वधाः । तद्दृष्ट्वा लक्ष्मणः संख्ये घोरमस्त्रं सुदारुणम् ॥६१॥
अवार्यं सर्वभूतानां सर्वशस्त्रविदारणम् । माहेश्वरेण द्युतिमांस्तदस्त्रं प्रत्यवारयत् ॥६२॥
तयोः समभवद्युद्धमद्भुतं रोमहर्षणम् । गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन् ॥६३॥
भैरवाभिरुते भीमे युद्धे वानरराक्षसाम् । भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ ॥६४॥
ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः । शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे ॥६५॥
अथान्यं मार्गणश्रेष्ठं सन्दधे रावणानुजः । हुताशनसमस्पर्शं रावणात्मजदारुणम् ॥६६॥
सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम् । सुवर्णविकृतं वीरः शरीरान्तकरं शरम् ॥६७॥
दुरावारं दुर्विषहं राक्षसानां भयावहम् । आशीविषविषप्रख्यं देवसङ्घैः समर्चितम् ॥६८॥
येन शक्रो महातेजा दानवानजयत्प्रभुः । पुरा देवासुरे युद्धे वीर्यवान्हरिवाहनः ॥६९॥
तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम् । शरश्रेष्ठं धनुः श्रेष्ठे विकर्षन्निदमिब्रवीत् ॥७०॥
लक्ष्मीवान् लक्ष्मणो वाक्यमर्थसाधकमात्मनः । धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ॥७१॥
पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम् । इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम् ॥७२॥
लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति । ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा ॥७३॥
तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम् । प्रमथ्येन्द्रजितः कायात्पपात धरणीतले ॥७४॥
तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत् । तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम् ॥७५॥
हतस्तु निपपाताशु धरण्यां रावणात्मजः । कवची सशिरस्त्राणो विध्वस्तः सशरासनः ॥७६॥
चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः । हृष्यन्तो निहते तस्मिन्देवा वृत्रवधे यथा ॥७७॥
अथान्तरिक्षे देवानामृषीणां च महात्मनाम् । जज्ञेऽथ जयसंनादो गन्धर्वाप्सरसाम् अपि ॥७८॥
पतितं समभिज्ञाय राक्षसी सा महाचमूः । वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः ॥७९॥
वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः । लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः ॥८०॥
दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः । त्यक्त्वा प्रहरणान्सर्वे पट्टसासिपरश्वधान् ॥८१॥
के चिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः । समुद्रे पतिताः के चित्के चित्पर्वतमाश्रिताः ॥८२॥
हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ । राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत ॥८३॥
यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः । तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः ॥८४॥
शान्तरक्ष्मिरिवादित्यो निर्वाण इव पावकः । स बभूव महातेजा व्यपास्त गतजीवितः ॥८५॥
प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान् । बभूव लोकः पतिते राक्षसेन्द्रसुते तदा ॥८६॥
हर्षं च शक्रो भगवान्सह सर्वैः सुरर्षभैः । जगाम निहते तस्मिन्राक्षसे पापकर्मणि ॥८७॥
आकाशे चापि देवानां शुश्रुवे दुन्दुभिस्वनः । नृत्यद्भिरप्सरोभिश्च गन्धर्वैश्च महात्मभिः ॥८८॥
ववर्षुः पुष्पवर्षाणि तदद्भुतमिवाभवत् । प्रशशंसुर्हते तस्मिन् राक्षसे क्रूरकर्मणि ॥८९॥
शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः । आजग्मुः पतिते तस्मिन्सर्वलोकभयावहे ॥९०॥
ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः । विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति ॥९१॥
ततोऽभ्यनन्दन्संहृष्टाः समरे हरियुथपाः । तमप्रतिबलं दृष्ट्वा हतं नैरृतपुङ्गवम् ॥९२॥
विभीषणो हनुमांश्च जाम्बवांश्चर्क्षयुथपः । विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम् ॥९३॥
क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवङ्गमाः । लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे ॥९४॥
लाङ्गुलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः । लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा ॥९५॥
अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः । चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः ॥९६॥
तदसुकरमथाभिवीक्ष्य हृष्टाः । प्रियसुहृदो युधि लक्ष्मणस्य कर्म । परममुपलभन्मनःप्रहर्षं । विनिहतमिन्द्ररिपुं निशम्य देवाः ॥९७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे नवतितमः सर्गः ॥