रामायणम्

एकोननवतितमः सर्गः 6.89

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

युध्यमानौ ततो दृष्ट्वा प्रसक्तौ नरराक्षसौ । प्रभिन्नाविव मातङ्गौ परस्परजयैषिणौ ॥१॥

तयोर्युद्धं द्रुष्टौकामो वरचापधरो बली । शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥२॥

ततो विस्फारयामास महद्धनुरवस्थितः । उत्ससर्ज च तीक्षणाग्रान् राक्षसेषु महाशरान् ॥३॥

ते शराः शिखिसंस्पर्शा निपतन्तस्समाहिताः । राक्षसान् दारयामासुर्वज्रा इव महागिरीन् ॥४॥

विभीषणस्यानुचरास्तेपि शूलासिपट्टिशैः । चिछिदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः ॥५॥

राक्षसैस्त्रैः परिवृतः स तदा तु विभीषणः । बभौ मध्य प्रधृष्टानाम् कलभानामिव द्विपः ॥६॥

ततप्सं चोदमानो वै हरीन् रक्षोवधप्रियान् । उवाच वचनं काले कालज्ञो रक्षसां वरः ॥७॥

एकोऽयं राक्षसेन्द्रस्य परायणमवस्थितः । एतच्छेषं बलं तस्य किं तिष्ठित हरीश्वराः ॥८॥

अस्मिंश्च निहते पापे राक्षसे रणमूर्धनि । रावणम् वर्जयित्वा तु शेषमस्य बलं हतम् ॥९॥

प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः । कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥१०॥

जम्बुमाली महामाली तीक्षणवेगोऽशनिप्रभः । सुप्तग्नो यज्ञकोपश्च वज्रदंष्ट्रस्च राक्षसः ॥११॥

सिम्ह्रादी विकटोऽरिघ्नस्तपनो मंद एव च । प्रघासः प्रघसश्चैव प्रजङ्घो जङ्घ एव च ॥१२॥

अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् । विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥१३॥

अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः । कम्पनः सत्त्ववनौ तौ देवान्तकनरान्तकौ ॥१४॥

एतान्निहत्यातिबलान् बहून् राक्षससत्तमान् । बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ॥१५॥

एतावदिह शेषं वो जेतव्यमिह वानराः । हताः सर्वे समागम्य राक्षसा बलदर्पिताः ॥१६॥

अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम । घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम् ॥१७॥

हन्तुकामस्य मे बाष्पं चक्षुश् चैव निरुध्यते । तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति ॥१८॥

वानरा घ्नन्तुं सम्भूय भृत्यानस्य समीपगान् । इति तेनातियशसा राक्षसेनाभिचोदिताः ॥१९॥

वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः । ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः ॥२०॥

मुमुचुर्विविधान्नादान्मेघान्दृष्ट्वेव बर्हिणः । जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः ॥२१॥

अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान् । निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः ॥२२॥

परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः । शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः ॥२३॥

जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम् । स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् ॥२४॥

देवासुराणां क्रुद्धानां यथा भीमो महास्वनः । हनूमानपि सङ्क्रुद्धः सालमुत्पाट्य पर्वतात् ॥२५॥

स लक्ष्मणं स्वयं पृष्ठादवरोप्य महामनाः । रक्षसां कदनं चक्रे समासाद्य सहस्रशः ॥२६॥

स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि ॥२७॥

लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत । तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ । शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम् ॥२८॥

अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ । चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ ॥२९॥

न ह्यादानं न सन्धानं धनुषो वा परिग्रहः । न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः ॥३०॥

न मुष्टिप्रतिसन्धानं न लक्ष्यप्रतिपादनम् । अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात् ॥३१॥

चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः । अन्तरिक्षेऽभिसञ्चन्ने न रूपाणि चकाशिरे ॥३२॥

लक्ष्मणो रावणिं प्राप्य रावणिश्चापि लक्ष्मणम् । अव्यवस्था भवत्युग्रा ताभ्यामन्योन्यविग्रहे ॥३३॥

ताभ्यामुभाभ्यां तरसा प्रसृष्टैर्विशिखैः शितैः । निरन्तरमिवाकाशं बभूव तमसा वृतम् ॥३४॥

तैः परद्भिश्च बहुभिस्तयोः शरशतैः शितैः । दिशश्च प्रदिशश्चैव बभूवुः शरसंकुलाः ॥३५॥

तमसा पिहितं सर्वमासीद्भीमतरं महत् । न तदानीइ|म् ववौ वायुर्न जज्वाल च पावकः ॥३६॥

रुधिरौघ महानद्यः प्रावर्तन्त सहस्रशः । क्रव्यादा दारुणा वाग्भिश्चिक्षिपुर्भीमनिःस्वनान् ॥३७॥

न तदानीम् ववौ वायुर्न च जज्वाल पावकः । स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः ॥३८॥

सम्पेतुश्चात्र सम्प्राप्ता गन्धर्वाः सह चारणैः । अथ राक्षससिंहस्य कृष्णान्कनकभूषणान् ॥३९॥

शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान् । ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः ॥४०॥

संपूर्णायतमुक्तेन सुपत्रेण सुवर्चसा । महेन्द्राशनिकल्पेन सूतस्य विचरिष्यतः ॥४१॥

स तेन बाणाशनिना तलशब्दानुनादिना । लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत् ॥४२॥

स यन्तरि महातेजा हते मन्दोदरीसुतः । स्वयं सारथ्यमकरोत्पुनश्च धनुर्स्पृशत् ॥४३॥

तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि । हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः ॥४४॥

धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् । चिद्रेषु तेषु बाणौघैर्विचरन्तमभीतवत् ॥४५॥

अर्दयामास समरे सौमित्रिः शीग्रकृत्तमः । निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ॥४६॥

प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह । विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः ॥४७॥

ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन् । ततः प्रमाथी शरभो रभसो गन्धमादनः ॥४८॥

अमृष्यमाणाश्चात्वारश्चक्रुर्वेगं हरीश्वराः । ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः ॥४९॥

चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः । तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ॥५०॥

मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत । ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् ॥५१॥

पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः । स हताश्वादवप्लुत्य रथान्मथितसारथेः ॥५२॥

स हताश्वादवप्लुत्य रथान्मथितसारथिः । शरवर्षेण सौमित्रिमभ्यधावत रावणि ॥५३॥

6.89.53 #70ecf8b5db78 timing uncertain

ततो महेन्द्रप्रतिमंह्स लक्ष्मणः । पदातिनं तं निशितैः शरोत्तमैः । सृजन्तमादौ निशिताञ्शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ॥५४॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः ॥

Listen to the sarga
0:00