विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्चितः । अब्रवीत् परुषं वाक्यं वेगेनाभ्युत्पपात च ॥१॥
अष्टाशीतितमः सर्गः 6.88
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते । कालाश्वयुक्ते महति स्थितः कालान्तकोपमः ॥२॥
महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम् । धनुर्भीमं परामृश्य शरांश्चामित्रशातनान् ॥३॥
तं ददर्श महेष्वासो रथस्थः समलंकृतः । अलंकृतममित्रघ्नो राघवस्यानुजं बली ॥४॥
हनुमत्पृष्ठमारूढमुदयस्थरविप्रभम् | उवाच ैनं सुसंरब्धः सौमित्रिं सविभीषणम् ॥५॥
तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम् । अद्य मत्कारुमुकोत्सृष्टं शरवर्षं दुरासदम् ॥६॥
मुक्तं वर्षमिवाकाशे धारयिष्यथ संयुगे । अद्य वो मामका बाणा महाकार्मुकनिःसृताः ॥७॥
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः । तीक्षणसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः ॥८॥
अद्य वो गमयिष्यामि सर्वानेन यमक्षयम् । सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे ॥९॥
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः । रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः ॥१०॥
शायितौ स्थो मया भूमौ विसंज्ञौ सपुरस्सरौ । स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम् ॥११॥
आशीविषसमं क्रुद्धं यन्माम् योद्धुमुपस्थितः । तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा ॥१२॥
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत् । उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया ॥१३॥
कार्याणां कर्मणाम् पारं यो गच्छति स बुद्धिमान् । स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित् ॥१४॥
वाचा व्याहृत्य जानीषे कृतार्थोऽस्मिति दुर्मते । अंतर्धानगतेनाजौ यस्त्वया चरितस्तदा ॥१५॥
तस्कराचरितो मार्गः नैष वीरनिषेवितः । यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस ॥१६॥
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे । एवमुक्तो धनुर्भीमं परामृश्य महाबलः ॥१७॥
ससर्ज निशितान् बाणानिंद्रजित् समितिञ्जयः । तेन सृष्टा महावेगाः शराः सर्पविषोपमाः ॥१८॥
संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः । शरैरतिमहावेगै र्वेगवान् रावणात्मजः ॥१९॥
सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम् । स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः ॥२०॥
शुशुभे लक्ष्मणः श्रीमान्विधूम इव पावकः । इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च ॥२१॥
निनद्य सुमहानादमितं वचनमब्रवीत् । पत्रिण शितधारास्ते शरा मत्कार्मुकच्युताः ॥२२॥
आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः । अद्य गोमायुसंघाश्च श्येनसंघाश्च लक्ष्मण ॥२३॥
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया । क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः ॥२४॥
भक्तं भ्रातरमद्यैव त्वां द्रख्यति हतं मया । विस्रस्तकवचं भूमौ व्यपविद्धशरासनम् ॥२५॥
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतम् मया । इति ब्रुवाणम् संक्रुद्धं परुषं रावणात्मजम् ॥२६॥
हेतुमद्वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह । वाग्बलं त्यज दुर्भद्धे क्रूरकर्मासि राक्षस ॥२७॥
अथ कस्माद्वदस्येतत्संपादय सुकर्मणा । अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस ॥२८॥
कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम् । अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् ॥२९॥
अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम । इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान् ॥३०॥
विजघान महावेगाल्लक्ष्मणो राक्षसोरसि । सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः ॥३१॥
नैरृतोरस्यभासन्त सवितू रश्मयो यथा । स शरैराहतस्तेन सरोषो रावणात्मजः ॥३२॥
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् । स बभूव महाभीमो नरराक्षससिंहयोः ॥३३॥
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः । उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ ॥३४॥
उभौ परमदुर्जेयावतुल्यबलतेजसौ । युयुधाते तदा वीरौ ग्रहाविव नभोगतौ ॥३५॥
बलवृत्राविवाभीतौ युधि तौ दुष्पृधर्षणौ । युयुधाते महात्मानौ तदा केसरिणाविव ॥३६॥
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ । नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम् ॥३७॥
ततश्श्रान् दाशरथिः संधायामित्रकर्षणः । ससर्ज राक्षसेन्द्रय कृद्धः सर्प इव श्वसन् ॥३८॥
तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः । विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥३९॥
विषण्णवदनं दृष्ट्वा राक्षसं रावणात्मजम् । सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥४०॥
निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे । त्वर तेन महाबाहो भग्न एष न संशयः ॥४१॥
ततस्संधाय सौमित्रिः शरानाशीविषोपमान् । मुमोच निशितांस्तस्मिन् सर्पानिव विषोल्बणान् ॥४२॥
शक्राशनिसमस्पर्शैर्लक्षमणेनाहतः शरैः । मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥४३॥
उपलभ्य मुहूर्तेन संज्ञाम् प्रत्यागतेन्द्रियः । ददर्शावस्थितं वीरमाजौ दशरथात्मजम् ॥४४॥
सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः । अब्रवीछैनमासाद्य पुनः स परुषं वचः ॥४५॥
किं न स्मरसि तद्युद्धे प्रथमे यत्पराक्रमम् । निबद्धस्त्वं सह भ्रात्रा यदा भुवि विचेष्टसे ॥४६॥
युवां खलु महायुद्धे शक्रानिसमैः शरैः । शायितौ प्रथमम् भूमौ विसंज्ञौ सपुरःसरौ ॥४७॥
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् । गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि ॥४८॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः । अद्य त्वां दर्शयिष्यामि तिषेदानीं व्यवस्थितः ॥४९॥
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् । दशभिस्तु हनूमन्तं तीक्षणधारैः शरोत्तमैः ॥५०॥
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् । क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् ॥५१॥
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा । अचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन् ॥५२॥
मुमोच च शरान् घोरान् संगृह्य नरपुंगवः । अभीतवदनः क्रुद्धो रावनिं लक्ष्मणो युधि ॥५३॥
नैवं रणगताः शूराः प्रहरन्ति निशाचर । लघुवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव ॥५४॥
नैवं शूरास्तु युध्यन्ते समरे जयकांक्षिणः । इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह ॥५५॥
तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत् । व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥५६॥
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः । इन्द्रजित्समरे वीरः प्रत्यूषे भानुमानिव ॥५७॥
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः । बिभेद समरे वीरो लक्ष्मणं भीमविद्रमः ॥५८॥
व्यशीर्यत महद्दिव्यं कवचम् लक्ष्मणस्य तु । कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥५९॥
अभीक्षणम् निःश्वसन्तौ तौ युध्येतां तुमुलं युधि । शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥६०॥
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः । ततक्षतुर्महत्मानौ रणकर्मविशारदौ ॥६१॥
बभूवतुश्चात्मजये यतौ भीमपराक्रमौ । तौ शरौघै स्तथाकीर्णौ निकृत्तकवचध्वजौ ॥६२॥
सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव । शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम् ॥६३॥
सासारयोरिवाकाशे नीलयोः कालेमेघयोः । तयोरथ महान् कालो व्यतीयाद्युध्यमानयोः ॥६४॥
न च तौ युद्धवैमुख्यं श्रमं चाप्युपजग्मतुः । अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्त् पुनः पुनः ॥६५॥
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः । व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च ॥६६॥
उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ । तयोः पृथक् पृथग्भीमः शुश्रुवे तुमुलः स्वनः ॥६७॥
सुघोरयोर्निःस्वनतोर्गगने मेघयोरिव । तयोः स भ्राजते शब्दस्तथा समरयत्तयोः ॥६८॥
सुघोरयोर्निःस्वनतोर्गगने मेघयोरिव । सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ ॥६९॥
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ । ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ॥७०॥
असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम् । अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ॥७१॥
बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः । स बभूव रणे घोरस्तयोर्बाणमयश्चयः ॥७२॥
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः । तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ॥७३॥
सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली । चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः ॥७४॥
इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ । लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ॥७५॥
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम् । बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ॥७६॥
शुशुभाते महाविर्यौ प्ररूढाविव पर्वतौ । ततो रुधिरस्तिक्तानि संवृतानि शरैर्भृशम् ॥७७॥
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः । तयोरथ महान् कालो व्यतीयाद्युध्यमानयोः ॥७८॥
न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः । अथ समरपरिश्रमं निहन्तुं । समरमुखेष्वजितस्य लक्ष्मणस्य । प्रियहितमुपपादयन्महात्मा । समरमु पेत्य विभीषणोऽवतस्थे ॥७९॥
इतार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः ॥