रामायणम्

सप्ताशीरितमः सर्गः 6.87

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः । धनुष्पाणिनमादाय त्वरमाणो जगाम सः ॥१॥

अविदूरं ततो गत्वा प्रविश्य च महद्वनम् । दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥२॥

नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥३॥

इहोपहारं भूतानां बलवान्रावणातजः । उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते ॥४॥

अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ॥५॥

तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम् । विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥६॥

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥७॥

स रथेनाग्निवर्णेन बलवान्रावणात्मजः । इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत ॥८॥

तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥९॥

एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥१०॥

इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम । कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥११॥

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते । प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण ॥१२॥

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः । यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥१३॥

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् । क्व च स्वजनसंवासः क्व च नीचपराश्रयः ॥१४॥

गुणवान्वा परजनः स्वजनो निर्गुणोऽपि वा । निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥१५॥

यः स्वपक्षं परित्यज्य परपक्षं निषेवते । स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥१६॥

निरनुक्रोशता चेयं यादृशी ते निशाचर । स्वजनेन त्वया शक्यं परुषं रावणानुज ॥१७॥

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः । अजानन्निव मच्छीलं किं राक्षस विकत्थसे ॥१८॥

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् । कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ॥१९॥

गुणोऽयं प्रथमो नृइणां तन्मे शीलमराक्षसं । न रमे दारुणेनाहं न चाधर्मेण वै रमे ॥२०॥

भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते । धर्मात्प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ॥२१॥

त्वक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा । परस्वहरणे युक्तं परदाराभिमर्शाम् ॥२२॥

त्याज्यमाहुर्दुरात्मानं वेश्म प्रज्वलितं यथा । परस्वानां च हरणं परदाराभिमर्शनम् ॥२३॥

सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः । महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ॥२४॥

अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता । एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ॥२५॥

गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः । दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ॥२६॥

नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता । अतिमानी च बालश्च दुर्विनीतश्च राक्षस । बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥२७॥

अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि । प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥२८॥

धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया । युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ॥२९॥

हतस्त्वं देवता कार्यं करिष्यसि यमक्षये । निदर्शयस्वात्मबलं समुद्यतं । कुरुष्व सर्वायुधसायकव्ययम् । न लक्ष्मणस्यैत्य हि बाणगोचरं । त्वमद्य जीवन्सबलो गमिष्यसि ॥३०॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्ताशीरितमः सर्गः ॥

Listen to the sarga
0:00