अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥१॥
षड्शीतितमः सर्गः 6.86
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीग्रम्ं कपिभिश्च शिलायुधैः ॥२॥
अस्यानीकस्य महतो भेदने यतलक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥३॥
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥४॥
जहि वीरदुरात्मानं मायापरमधार्मिकम् । रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥५॥
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥६॥
ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥७॥
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । अभ्यवर्तन्त समवरे कपिसैन्यजिघांसवः ॥८॥
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् । शब्देन महता लङ्कां नादयन्वै समन्ततः ॥९॥
शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥१०॥
ते राक्षसा वानरेषु विकृताननबाहवः । निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥११॥
तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः । अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥१२॥
ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः । रक्षसां वध्यमानानां महद्भयमजायत ॥१३॥
स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् । उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥१४॥
वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः । आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥१५॥
स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः । रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः ॥१६॥
दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् । रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥१७॥
तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम् । धरणीधरसङ्काशी महावृक्षमरिन्दमः ॥१८॥
स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् । चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥१९॥
विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् । राक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥२०॥
शितशूलधराः शूलैरसिभिश्चासिपाणयः । शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥२१॥
परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः । शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥२२॥
घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः । मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः ॥२३॥
अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् । तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥२४॥
स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् । सूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥२५॥
स सारथिमुवाचेदं याहि यत्रैष वानरः । क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥२६॥
इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः । वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥२७॥
सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् । अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥२८॥
तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः । रोषेण महताविषो वाक्यं चेदमुवाच ह ॥२९॥
युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते । वायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ॥३०॥
बाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे । वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥३१॥
हनूमन्तं जिघांसन्तं समुद्यतशरासनम् । रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥३२॥
यः स वासवनिर्जेता रावणस्यात्मसम्भवः । स एष रथमास्थाय हनूमन्तं जिघांसति ॥३३॥
तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः । जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥३४॥
इत्येवमुक्तस्तु तदा महात्मा । विभीषणेनारिविभीषणेन । ददर्श तं पर्वतसंनिकाशं । रथस्थितं भीमबलं दुरासदम् ॥३५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षड्शीतितमः सर्गः ॥