तत्तस्य वचनं श्रुत्वा राघवः शोककश्मितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ॥१॥
पञ्चाशीतितमः सर्गः 6.85
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततो धैर्यमवष्टभ्य रामः परपुरंजयः । विभीषणमुपासीनमुवाच कपिसंनिधौ ॥२॥
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥३॥
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिदं वाक्यं बभाषेऽथ विभीषणः ॥४॥
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥५॥
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथपाश्चैव यथाअन्यायं विभागशः ॥६॥
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महाप्रभो । त्वय्यकारणसम्तप्ते सम्तप्तहृदया वयम् ॥७॥
त्यज राजन्निमं शोकं मिथ्यासंतापमागतम् । तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धिनी ॥८॥
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ॥९॥
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥१०॥
निकुम्भिलायां संप्राप्तं हन्तुं रावणिमाहवे । धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः ॥११॥
तेन वीरेण तपसा वरदानात्स्वयंभुवः । अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः ॥१२॥
स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् । यद्युत्तिष्ठेत्कृतं कर्म हतान्सर्वांश्च विद्धि नः ॥१३॥
निकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः । त्वामातायिनं हन्यादिन्द्रशत्रो स ते वधः ॥१४॥
वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै । इत्येवं विहितो राजन्वधस्तस्यैष धीमतः ॥१५॥
वधायेन्द्रजितो राम संदिशस्व महाबल । हते तस्मिन् हतं विद्धि रावणम् ससुहृद्गणं ॥१६॥
विभीषणवचः श्रुत्वा रामो वाक्यमथाब्रवीत् । जानामि तस्य रौद्रस्य मायां सत्यपराक्रम ॥१७॥
स हि ब्रह्मस्त्रवित्प्राज्ञो महामायो महाबलः । करोत्यसम्ज्ञान् संग्रामे देवान्सवरुणानपि ॥१८॥
तस्यान्तरिक्षे चरतः सरथस्य महायशः । न गतिर्ज्ञायते वीर सूर्यस्येवाभ्रसंप्लवे ॥१९॥
राघवस्तु रिपोर्ज्ञत्वा मायावीर्यं दुरात्मनः । लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत् ॥२०॥
यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः । हनूमत्प्रमुखैश्चैव यूथपैः सह लक्ष्मण ॥२१॥
जाम्बवेनार्क्षपतिना सहसैन्येन संवृतः । जहि तं राक्षससुतं मायाबलसमन्वितम् ॥२२॥
अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः । अभिज्ञस्तस्य मायानां पृष्ठतोऽनुगमिष्यति ॥२३॥
राघवस्य वचं श्रुत्वा लक्ष्मणः सविभीषणः । जग्राह कार्मुकश्रेष्ठमत्यद्भुतपराक्रमः ॥२४॥
संनद्धः कवची खड्गी सशरो वामचापभृत् । रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत् ॥२५॥
अद्य मत्कार्मुकोन्मुक्ताः शरा निर्भिद्य रावणिम् । लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव ॥२६॥
अद्येव तस्य रौद्रस्य शरीरं मामकाः शराः । विधमिष्यन्ति भित्त्वा तं महाचापगुणच्युताः ॥२७॥
एवमुक्त्वा तु वचनम् द्युतिमान् भ्रातुरग्रतः । स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितं ययौ ॥२८॥
सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणं । निकुम्भिलामभिययौ चैत्यं रावणिपालितम् ॥२९॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् । कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ ॥३०॥
वानराणाम् सास्रैस्तु हनुमान् बहुभिर्वऋतः । विभीषणश्च सामात्यो तदा लक्ष्मणमन्वगात् ॥३१॥
महता हरिसैन्येन सवेगमभिसंवृतः । ऋक्षराजबलं चैव ददर्श पथि विष्ठितम् ॥३२॥
स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः । राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमाश्रितम् ॥३३॥
स तं प्राप्य धनुष्पाणिर्मायायोगमरिंदमः । तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः ॥३४॥
विभीषणेन सहितो राजपुत्रः प्रतापवान् । अङ्गदेन च वीरेण तथानिलसुतेन च ॥३५॥
विविधममलशस्त्रभास्वरं त । द्ध्वजगहनं गहनं महारथैश्च । प्रतिभयतममम्प्रमेयवेगं । तिमिरमिव द्विषतां बलं विवेश ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चाशीतितमः सर्गः ॥