राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले । निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ॥१॥
चतुरशीतितमः सर्गः 6.84
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः । नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ॥२॥
सोऽभिगम्य महात्मानं राघवं शोकलालसं । वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥३॥
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् । ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ॥४॥
व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः । अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥५॥
विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् । उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः ॥६॥
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः । हनूमद्वचनात्सौम्य ततो मोहमुपागतः ॥७॥
कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः । पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ॥८॥
मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता । तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥९॥
अभिप्रायं तु जानामि रावणस्य दुरात्मनः । सीतां प्रति महाबाहो न च घातं करिष्यति ॥१०॥
याच्यमानः सुबहुशो मया हितचिकीर्षुणा । वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥११॥
नैव साम्ना न भेदेन न दानेन कुतो युधा । सा द्रष्टुमपि शक्येत नैव चान्येन केन चित् ॥१२॥
वानरान्मोहयित्वा तु प्रतियातः स राक्षसः । मायामयीं महाबाहो तां विद्धि जनकात्मजाम् ॥१३॥
चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति । हुतवानुपयातो हि देवैरपि सवासवैः ॥१४॥
दुराधर्षो भवत्येष सङ्ग्रामे रावणात्मजः । तेन मोहयता नूनमेषा माया प्रयोजिता ॥१५॥
विघ्नमन्विच्छता तात वानराणां पराक्रमे । ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ॥१६॥
त्यजेमं नरशार्दूलमिथ्या सन्तापमागतम् । सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥१७॥
इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितः । लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः ॥१८॥
एष तं नरशार्दूलो रावणिं निशितैः शरैः । त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥१९॥
तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः । पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥२०॥
तत्सन्दिश महाबाहो लक्ष्मणं शुभलक्षणम् । राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥२१॥
मनुजवर न कालविप्रकर्षो । रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् । त्वमतिसृज रिपोर्वधाय बाणीम् । असुरपुरोन्मथने यथा महेन्द्रः ॥२२॥
समाप्तकर्मा हि स राक्षसेन्द्रो । भवत्यदृश्यः समरे सुरासुरैः । युयुत्सता तेन समाप्तकर्मणा । भवेत्सुराणामपि संशयो महान् ॥२३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुरशीतितमः सर्गः ॥