राघवश्चापि विपुलं तं राक्षसवनौकसाम् । श्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥१॥
त्र्यशीतितमः सर्गः 6.83
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । श्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥२॥
तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ॥३॥
ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । आगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ॥४॥
अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि । वानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥५॥
दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् । नीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥६॥
स तेन हरिसैन्येन संनिकर्षं महायशाः । शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥७॥
समरे युध्यमानानामस्माकं प्रेक्षतां च सः । जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥८॥
उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥९॥
तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः । निपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥१०॥
तं भूमौ देवसङ्काशं पतितं दृश्य राघवम् । अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥११॥
असिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् ॥१२॥
तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् ॥१३॥
शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् । अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥१४॥
भूतानां स्थावराणां च जङ्गमानां च दर्शनम् । यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥१५॥
यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥१६॥
यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ॥१७॥
तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ॥१८॥
धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । यदि धर्मेण युज्येरन्नाधर्मः प्रतिष्ठतः ॥१९॥
न धर्मेण वियुज्येरन्नधर्मरुचयो जनाः । धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥२०॥
यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥२१॥
वध्यन्ते पापकर्माणो यद्यधर्मेण राघव । वधकर्महतो धर्मः स हतः कं वधिष्यति ॥२२॥
अथ वा विहितेनायं हन्यते हन्ति वा परम् । विधिरालिप्यते तेन न स पापेन कर्मणा ॥२३॥
अदृष्टप्रतिकारेण अव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥२४॥
यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन । त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥२५॥
अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥२६॥
बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥२७॥
अथ चेत्सत्यवचनं धर्मः किल परन्तप । अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥२८॥
यदि धर्मो भवेद्भूत अधर्मो वा परन्तप । न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥२९॥
अधर्मसंश्रितो धर्मो विनाशयति राघव । सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥३०॥
मम चेदं मतं तात धर्मोऽयमिति राघव । धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥३१॥
अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥३२॥
अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः । व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥३३॥
सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । पापमारभते कर्तुं तथा दोषः प्रवर्तते ॥३४॥
यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः । यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः ॥३५॥
यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥३६॥
अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥३७॥
यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥३८॥
हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥३९॥
येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥४०॥
त्वयि प्रव्रजिते वीर गुरोश् च वचने स्थिते । रक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥४१॥
तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥४२॥
उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत । किमात्मानं महात्मानं कृतात्मानं न बुध्यसे ॥४३॥
अयमनघ तवोदितः प्रियार्थं । जनकसुता निधनं निरीक्ष्य रुष्टः । सहयगजरथां सराक्षसेन्द्रां । भृशमिषुभिर्विनिपातयामि लङ्काम् ॥४४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्र्यशीतितमः सर्गः ॥