श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥१॥
द्व्यशीतितमः सर्गः 6.82
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तानुवाच ततः सर्वान्हनूमान्मारुतात्मजः । विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥२॥
कस्माद्विषण्णवदना विद्रवध्वं प्लवङ्गमाः । त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥३॥
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे । शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥४॥
एवमुक्ताः सुसङ्क्रुद्धा वायुपुत्रेण धीमता । शैलशृङ्गान्द्रुमांश्चैव जगृहुर्हृष्टमानसाः ॥५॥
अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः । परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥६॥
स तैर्वानरमुख्यैस्तु हनूमान्सर्वतो वृतः । हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥७॥
स राक्षसानां कदनं चकार सुमहाकपिः । वृतो वानरसैन्येन कालान्तकयमोपमः ॥८॥
स तु शोकेन चाविष्टः क्रोधेन च महाकपिः । हनूमान्रावणि रथे महतीं पातयच्छिलाम् ॥९॥
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा । विधेयाश्व समायुक्तः सुदूरमपवाहितः ॥१०॥
तमिन्द्रजितमप्राप्य रथथं सहसारथिम् । विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता ॥११॥
पतितायां शिलायां तु रक्षसां व्यथिता चमूः । निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥१२॥
तमभ्यधावञ्शतशो नदन्तः काननौकसः । ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः ॥१३॥
चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः । पृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ॥१४॥
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वनैः । वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः ॥१५॥
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ । स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ॥१६॥
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ । स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ॥१७॥
जघान कपिशार्दूलान्सुबहून्दृष्टविक्रमः । शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः ॥१८॥
ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे । सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः ॥१९॥
हनूमान्कदनं चक्रे रक्षसां भीमकर्मणाम् । स निवार्य परानीकमब्रवीत्तान्वनौकसः ॥२०॥
हनूमान्संनिवर्तध्वं न नः साध्यमिदं बलम् । त्यक्त्वा प्राणान्विचेष्टन्तो राम प्रियचिकीर्षवः ॥२१॥
यन्निमित्तं हि युध्यामो हता सा जनकात्मजा । इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ॥२२॥
तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् । इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ॥२३॥
शनैः शनैरसन्त्रस्तः सबलः स न्यवर्तत । ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ॥२४॥
स होतुकामो दुष्टात्मा गतश्चैतं निकुम्भिलाम् । निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित् ॥२५॥
यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा । हूयमानः प्रजज्वाल होमशोणितभुक्तदा ॥२६॥
सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः । सन्ध्यागत इवादित्यः स तीव्राग्निः समुत्थितः ॥२७॥
अथेन्द्रजिद्राक्षसभूतये तु । जुहाव हव्यं विधिना विधानवत् । दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते । महासमूहेषु नयानयज्ञाः ॥२८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीतितमः सर्गः ॥