रामायणम्

एकाशीतितमः सर्गः 6.81

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ॥१॥

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥२॥

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥३॥

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥४॥

इन्द्रजित्तु रथे स्थाप्य सूतां मायामयीं तदा । बलेन महतावृत्य तस्या वधमरोचयत् ॥५॥

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥६॥

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः । उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ॥७॥

हनूमान्पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ॥८॥

स ददर्श हतानन्दां सीताम् इन्द्रजितो रथे । एकवेणीधरां दीनामुपवासकृशाननाम् ॥९॥

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥१०॥

तां निरीक्ष्य मुहूर्तं तु मैथिलीम् अध्यवस्य च । बाष्पपर्याकुलमुखो हनूमान्व्यथितोऽभवत् ॥११॥

अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम् । दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम् ॥१२॥

किं समर्थितमस्येति चिन्तयन्स महाकपिः । सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥१३॥

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः । कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥१४॥

तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः । क्रोशन्तीं राम रामेति मायया योजितां रथे ॥१५॥

गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः । दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ॥१६॥

ताम् दृष्ट्वा चारुसर्वाङ्गीं रामस्य महिषीं प्रियाम् । अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोधिपात्मजम् ॥१७॥

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः । ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ॥१८॥

धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी । नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम ॥१९॥

अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण । च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली ॥२०॥

किं तवैषापराद्धा हि यदेनां हिंसि निर्दय । सीतां च हत्वा न चिरं जीविष्यसि कथं चन ॥२१॥

वधार्हकर्मणानेन मम हस्तगतो ह्यसि । ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः ॥२२॥

इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे । इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः ॥२३॥

अभ्यधावत सङ्क्रुद्धो राक्षसेन्द्रसुतं प्रति । आपतन्तं महावीर्यं तदनीकं वनौकसाम् ॥२४॥

रक्षसां भीमवेगानामनीकेन न्यवारयत् । स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम् ॥२५॥

हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह । सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ॥२६॥

तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः । इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर ॥२७॥

सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम् । न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवङ्गम ॥२८॥

पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत् । तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः ॥२९॥

शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् । यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी ॥३०॥

सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना । तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह ॥३१॥

मया रामस्य पश्येमां कोपेन च निषूदिताम् । एषा विशस्ता वैदेही निष्फलो वः परिश्रमः ॥३२॥

ततः खड्गेन महता हत्वा ताम् इन्द्रजित्स्वयम् । हृष्टः स रथमास्थाय विननाद महास्वनम् ॥३३॥

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः । व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ॥३४॥

तथा तु सीतां विनिहत्य दुर्मतिः । प्रहृष्टचेताः स बभूव रावणिः । तं हृष्टरूपं समुदीक्ष्य वानरा । विषण्णरूपाः समभिप्रदुद्रुवुः ॥३५॥

इत्यार्षे श्रीमद्रामायणे वामीकीये आदिकाव्ये युद्धकाण्डे एकाशीतितमः सर्गः ॥

Listen to the sarga
0:00