मकराक्षंहतं श्रुत्वा रावणः समितिंजयः । रोषेण महताविष्टो दन्तान् कटकटाय्य च ॥१॥
अशीतितमः सर्गः 6.80
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
कोपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ सम्क्रुद्धो रणायेन्द्रजितं सुतम् ॥२॥
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥३॥
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे । किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥४॥
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । यज्ञभूमौ स विधिवत् पावकं जुहवेन्द्रजित् ॥५॥
जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः । आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः ॥६॥
शस्त्राणि शरपत्राणि समिधो|अ अथ विभीतकाः । लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥७॥
सर्वतो|अग्निं समास्तीर्य शरपत्रैः सतोमरैः । चागस्य सर्वकृष्णस्य गलं जग्राह जीवतः ॥८॥
सकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥९॥
प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः । हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥१०॥
हुत्वाग्निम् तर्पयित्वाथ देवदानवराक्षसान् । आरुरोह रथश्रेष्ठमन्तर्धानगरं शुभम् ॥११॥
स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः । आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥१२॥
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः ॥१३॥
जाम्बूनदमहाकम्बुर्दीप्तपावकसन्निभः । बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः ॥१४॥
तेन चादित्यकल्पेन ब्रह्मस्त्रेण च पालितः । स बभूव दुराधर्षो रावणिः सुमहाबलः ॥१५॥
सो|अभिनिर्याय नगरादिन्द्रजित्समितिञ्जयः । हुत्वाग्निं राक्षसैर्मन्रैरन्तर्धानगतो|अब्रवीत् ॥१६॥
अद्य हत्वा रणे यौ तौ मिथ्याप्रव्रजितौ वने । जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥१७॥
अद्य निर्वानरामुर्वीम् हत्वा रामं च लक्ष्मणम् । करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत ॥१८॥
आपपाताथ सम्क्रुद्धो दशग्रीवेण चोदितः । तीक्षणकार्मुकनाराचैस्तीक्षणस्त्विन्द्ररिपू रणे ॥१९॥
स ददर्श महावीर्यौ नागौ त्रिशिरसाविव । सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥२०॥
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् । सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥२१॥
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ । अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥२२॥
तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ । धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥२३॥
प्रच्छादयन्तौ गगनम् शरजालैर्महाबलौ । तमस्त्रैः सुरसङ्काशौ नैव पस्पर्शतुः शरैः ॥२४॥
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः ॥२५॥
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥२६॥
घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् । स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥२७॥
स रामं सूर्यसङ्काशैः शरैर्दत्तवरो भृशम् । विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥२८॥
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥२९॥
अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः । निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥३०॥
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ । तानिषून्पततो भल्लैरनेकैर्निचकर्ततुः ॥३१॥
यतो हि ददृशाते तौ शरान्निपतिताञ्शितान् । ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥३२॥
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् । विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥३३॥
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः । बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥३४॥
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसम्प्लवे ॥३५॥
तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ॥३६॥
लक्ष्मणस्तु सुसङ्क्रुद्धो भ्रातरं वाक्यमब्रवीत् । ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ॥३७॥
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ॥३८॥
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥३९॥
अस्यैव तु वधे यत्नं करिष्यावो महाबल । आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥४०॥
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥४१॥
यद्येष भूमिं विशते दिवं वा । रसातलं वापि नभस्तलं वा । एवं निगूढोऽपि ममास्त्रदग्धः । पतिष्यते भूमितले गतासुः ॥४२॥
इत्येवमुक्त्वा वचनं महात्मा । रघुप्रवीरः प्लवगर्षभैर्वृतः । वधाय रौद्रस्य नृशंसकर्मणस् । तदा महात्मा त्वरितं निरीक्षते ॥४३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः ॥