निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः । आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थ्ताः ॥१॥
नवसप्ततितमः सर्गः 6.79
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततः प्रवृत्तं सुमहत्तद्युद्धं रोमहर्षणम् । निशाचरैः प्लवंगानां देवानां दानवैरिव ॥२॥
वृक्षशूलनिपातैश्च गदापरिघपातनैः । अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ॥३॥
शक्तिखड्गगदाकुनैस्तोमरैश्च निशाचराः । पट्टिशैर्भिन्दिपालैश्च बाणपातैः समन्ततः ॥४॥
पाशमुद्गरदण्डैश्च निर्गातैश्चापरैस्तथा । कदनं कपिसिम्हानाम् चक्रुस्ते रजनीचराः ॥५॥
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः । संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥६॥
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः । नेदुस्ते सिंहवद्दृप्ता राक्षसा जितकाशिनः ॥७॥
विद्रवत्सु तदा तेषे वानरेषु समन्ततः । रामस्तान्वारमायास शरवर्षेण राक्षसान् ॥८॥
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः । कोपानलसमाविष्टो वचनं चेदमब्रवीत् ॥९॥
तिष्ठ राम मया सार्थं द्वन्द्वयुद्धं भविष्यति । त्याजयुष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः ॥१०॥
यत्तदा दण्डकारण्ये पितरं हतवान्मम । तदग्रतः स्वकर्मस्थं दृष्ट्वा रोषोऽभिवर्धते ॥११॥
दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव । यन्मयासि न दृष्टस्त्वं तस्मिन् काले महावने ॥१२॥
दिष्ट्यासि दर्मनं राम मम त्वं प्राप्तवानिह । कांक्षितोऽसि क्षुधार्तस्य सिम्हस्येवेतरो मृगः ॥१३॥
अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः । ये त्वया निहताः शूराः सह तैश्च वसिष्यसि ॥१४॥
बहुनात्र किमुक्तेन शृणु राम वचो मम । पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥१५॥
अस्त्रैर्वा गदया वापि बाहुभ्यां वा रणाजिरे । अभ्यस्तं येन वा राम वर्ततां तेन वा मृधम् ॥१६॥
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः । अब्रवीत्प्रहसम् वाक्यमुत्तरोत्तरवादिनम् ॥१७॥
कत्थसे किं वृथा रक्षो बहून्यसदृशानि ते । न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ॥१८॥
चतुर्दश सहस्राणि रक्षसां त्वत्पिता च यः । त्रिशिरा दूषणश्चापि दण्डके निहता मया ॥१९॥
स्वाशिताश्चापि मांसेन गृध्रगोमायुवायसाः । भविष्यन्त्यद्य वै पाप तीक्षणतुण्डनखाङ्कुराः ॥२०॥
राघवेणैवमुक्तस्तु मकराक्षो महाबलः । बाणौघानमुचत्तस्मै राघवाय रणाजिरे ॥२१॥
रान् शरान् शरवर्षेण रामश्चिच्छेद नैअधा । निपेतुर्भुवि ते चिन्ना रुक्मपुङ्खाः सहस्रशः ॥२२॥
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा । खरराक्षसपुत्रस्य सूनोर्दशरथस्य च ॥२३॥
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा । धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥२४॥
देवदानवगन्धर्वाः किम्नराश्च महोरगाः । अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥२५॥
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम् । कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ॥२६॥
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे । रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ॥२७॥
बाणौघवितताः सर्वा दिशश्च प्रदिशस्तथा । संचन्ना वसुधा चव समन्तान्न प्रकाशते ॥२८॥
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद संयुगे । अष्टाभिरथ नाराचैः सूतं विव्याध राघवः ॥२९॥
भित्त्वा रथं शरै रामो हत्वा अश्वानपातयत् । विरथो वसुधास्थः स मकराक्षो निशाचरः ॥३०॥
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना । त्रासनम् सर्वभूतानां युगान्ताग्निसमप्रभम् ॥३१॥
दुरवापं महच्छूलं रुद्रदत्तं भयंकरम् । जाज्वल्यमानमाकाशे संहारास्त्रमिवापरम् ॥३२॥
यं दृष्ट्वा देवताः सर्वा भयार्ता विद्रुता दिशः । विभ्राम्य च महच्चूलं प्रज्वलन्तं निशाचरः ॥३३॥
स क्रोधात्प्राहिणोत्तस्मै राघवाय महात्मने । तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् ॥३४॥
बाणैश्चतुर्भिराकाशे शूलं च्छेद राघवः । स भिन्नो नैकधा शूलो दिव्यहाटकमण्डितः ॥३५॥
व्यशीर्यत महोल्केव रामबाणार्दितो भुवि । तच्छूलं निहतम् दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥३६॥
साधुसाध्विति भूतानि व्याहरन्ति नभोगताः । तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः ॥३७॥
मुष्टिमुद्यम्य काकुत्थ्सं तिष्ठ तिष्ठेति चाब्रवीत् । स तं दृष्ट्वापतन्तं तु प्रहस्य रघुनन्दनः ॥३८॥
पावकास्त्रं ततो रामः संदधे तु शरासने । तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे ॥३९॥
सच्छिन्नहृदयं तत्र पपात च ममार च । दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् ॥४०॥
लङ्कामेव प्रधावन्त रामबाणभयार्दिताः । दशरथनृपसूनुबाणवेगै । रजनिचरं निहतम् खरात्मजं तम् । प्रददृशुरथ देवताः प्रहृष्टा । गिरिमिव वज्रहतं यथा विकीर्णम् ॥४१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवसप्ततितमः सर्गः ॥