रामायणम्

अष्टसप्ततितमः सर्गः 6.78

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

निकुम्भं निहतं श्रुत्वा कुम्भम् च विनिपातितम् । रावणः परमामर्षी प्रजज्वालानलो यथा ॥१॥

नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्चितः । खरपुत्र विशालाक्षं मकराक्षमचोदयत् ॥२॥

गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणम् चैव जहि तौ सवनौकसौ ॥३॥

तावणस्य वचः श्रुत्वा शूरमानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचारम् ॥४॥

सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥५॥

समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीद्वचः । रथमानीयतां तूर्णम् सैन्यं त्वानीयतां त्वरात् ॥६॥

तस्य तद्वचनम् श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥७॥

प्रदक्षिणं रथं कृत्वा समाहूय निशाचरः । सूतं संचोदयामास शीग्रं वै रथ मावह ॥८॥

अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥९॥

अहं राक्षसराजेन रावणेन महात्मना । आज्ञ्प्तः समरे हन्तुं रावुभौ रामल्क्ष्मणौ ॥१०॥

अद्य रामं वधिष्यामि लक्ष्मणम् च निशाचराः । शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥११॥

अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि संप्राप्तां शुष्केन्धनमिवानलः ॥१२॥

मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः । सर्वे नानायुधोपेता बलवन्तः समाहिताः ॥१३॥

ते कामरूपिणः क्रूरा दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्ग इव नर्दन्तो ध्वस्तकेशा भयावहाः ॥१४॥

परिवार्य महाकाया महाकायं खरात्मजम् । अभिजघ्नस्ततो हृष्टाश्चलयन्तो नभस्तलम् ॥१५॥

शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेलितास्फोटितानां च तत्र महानभूत् ॥१६॥

प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा । पपात सहसा दैवाद्ध्वजस्तस्य तु रक्षसः ॥१७॥

तस्य ते रथसम्युक्ता हया विक्रमवर्जिताः । चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥१८॥

प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥१९॥

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥२०॥

घनगजमहिषाङ्गतुल्यवर्णाः । समरमुखेष्वसकृद्गदासिभिन्नाः । अहमहमिति युद्धकौशलास्ते । रजनिचराः परिबभ्रामुर्नदन्तः ॥२१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकांडे अष्टसप्ततितमः सर्गः ॥

Listen to the sarga
0:00