निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम् । प्रदहन्निव कोपेन वानरेन्द्रमुदैक्षत ॥१॥
सप्तसप्ततितमः सर्गः 6.77
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलम् शुभम् । आददे परिघं धीरो महेन्द्रशिखरोपमम् ॥२॥
हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम् । यमदण्डोपमं भीमं रक्षसां भयनाशनम् ॥३॥
तमाविध्य महातेजाः शक्रध्वजसमौजसम् । निननाद विवृत्तास्यो निकुम्भो भीमविक्रमः ॥४॥
उरोगतेन निष्केण भुजस्थैरङ्गदैरपि । कुण्डलाभ्यां च चित्राभ्यां मालया च स चित्रया ॥५॥
निकुम्भो भूषणैर्भाति तेन स्म परिघेण च । यथेन्द्रधनुषा मेघः स विद्युत्स्तनयित्नुमान् ॥६॥
परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः । प्रजज्वाल सघोषश्च विधूम इव पावकः ॥७॥
नगर्या विटपावत्या गन्धर्वभवनोत्तमैः । सताराग्रहनक्षत्रं सचन्द्रं समहाग्रहम् ॥८॥
निकुम्भपरिघाघूर्णं भ्रमतीव नभःस्थलम् । दुरासदश्च संजज्ञे परिघाभरणप्रभः ॥९॥
क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः । राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् ॥१०॥
हनुमांस्तु विवृत्योरस्तस्थौ प्रमुखतो बली । परिघोपमबाहुस्तु परिघं भास्करप्रभम् ॥११॥
बली बलवतस्तस्य पातयामास वक्षसि । स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः ॥१२॥
विकीर्यमाणः सहसा उल्काशतमिवाम्बरे । स तु तेन प्रहारेण विचचाल महाकपिः ॥१३॥
परिघेण समाधूतो यथा भूमिचलेऽचलः । स तथाभिहतस्तेन हनुमान् पवगोत्तमः ॥१४॥
मुष्टिं सम्वर्तयामास बलेनातिमहाबलः । तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् ॥१५॥
अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः । तत्र पुस्फोट वर्मास्य प्रसुस्राव च शोणितम् । मुष्टिना तेन संजज्ञे मेघे विद्युदिवोत्थिता ॥१६॥
स तु तेन प्रहारेण निकुम्भो विचचाल ह । स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम् ॥१७॥
चुक्रुशुश्च तदा संख्ये भीमं लङ्कानिवासिनः । निकुम्भेनोद्यतं दृष्ट्वा हनूमन्तं महाबलम् ॥१८॥
स तथा ह्रियमाणोऽपि हनुमांस्तेन रक्षसा । आजघानानिलसुतो वज्रकल्पेन मुष्टिना ॥१९॥
आत्मानं मोक्षयित्वाथ क्षितावभ्यवपद्यत । हनूमानुन्ममाथाशु निकुम्भं मारुतात्मजः ॥२०॥
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च । उत्पत्य चास्य वेगेन पपातोरसि वेगवान् ॥२१॥
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् । उत्पाटयामास शिरो भैरवं नदतो महत् ॥२२॥
अथ निनदति सादिते निकुम्भे । पवनसुतेन रणे बभूव युद्धम् । दशरथसुतराक्षसेन्द्रसून्वो । र्भृशतरमागतरोषयोः सुभीमम् ॥२३॥
व्यपेते तु जीवे निकुम्भस्य हृष्टा । विनेदुः प्लवंगा दिशः सस्वनुश्च । चचालेव चोर्वी पपातेव सा द्वौ । र्बलं राक्षसानां भयम् चाविवेश ॥२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकांडे सप्तसप्ततितमः सर्गः ॥