रामायणम्

षट्सप्ततितमः सर्गः 6.76

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

प्रवृत्ते सङ्कुले तस्मिन्घोरे वीरजनक्षये । अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ॥१॥

आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः । गदया कम्पनः पूर्वं स चचाल भृशाहतः ॥२॥

स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः । अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ॥३॥

ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे । रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ॥४॥

सोऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः । शरीरदारणैस्तीक्षणैः कालाग्निसमविग्रहैः ॥५॥

क्षुरक्षुरप्रनाराचैर्वत्सदनैः शिलीमुखैः । कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ॥६॥

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् । धनुरुग्रं रथं बाणान् ममर्द तरसा बली ॥७॥

शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे । उत्पपात तदा क्रुद्धो वेगवानविचारयन् ॥८॥

तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली । करेण तस्य तं खड्गं समाच्चिद्य ननाद च ॥९॥

तस्यांसफलके खड्गं निचखान ततोऽङ्गदः । यज्ञोपवीतवच्चैनं चिच्चेद कपिकुञ्जरः ॥१०॥

तं प्रगृह्य महाखड्गं विनद्य च पुनः पुनः । वालिपुत्रोऽभिदुद्राव रणशीर्षं परानरीन् ॥११॥

प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली । रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥१२॥

आयसीम् तु गदाम् गृह्य स वीरः कनकाङ्गदः । शोणिताक्षः समाश्वस्य तमेवानुपपात ह ॥१३॥

प्रजङ्घस्तु महावीरो यूपाक्षसहितो बली । गदयाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ॥१४॥

तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः । विशाखयोर्मध्यगतः पूर्णचन्द्र इवाबभौ ॥१५॥

अङ्गदं परिरक्षनौ मैन्दो द्विविद एव च । तस्य तस्थतुरभ्याशे परस्परदिदृक्षया ॥१६॥

अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः । राक्षसा वानरान् रोषादसिबाणगदाधराः ॥१७॥

त्रयाणां वानरेन्द्राणाम् त्रिभिराक्षसपुम्गवैः । संसक्तानाम् महद्युद्धमभवद्रोमहर्षणम् ॥१८॥

ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे । खड्गेन प्रतिचिक्षेप तान् प्रजङ्ग महाबलः ॥१९॥

रथानश्वान् द्रुमान् शैलान् प्रतिचिक्षिपुराहवे । शरौघैः प्रतिचिच्छेद तान्यूपाक्षो महाबलः ॥२०॥

सृष्टान् द्विवदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्य्वान् । बभञ्ज गदया मद्य शोणिताक्षः प्रतापवान् ॥२१॥

उद्यम्य विपुलं खड्गं परमर्मविदारणम् । प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ॥२२॥

तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः । आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ॥२३॥

बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना । वालिपुत्रस्य घातेन स पपात क्षितावसिः ॥२४॥

तं दृष्ट्वा पतितं भूमौ खड्गम् मुसलसंनिभम् । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥२५॥

स ललाटे महावीर्यमङ्गदं वानरर्षभम् । आजघान महातेजाः स मुहूर्तं च्चाल ह ॥२६॥

स संज्ञाम् प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् । प्रजङ्घस्य शिरः कायात्पातयामास मुष्टिना ॥२७॥

स यूपाक्षोऽश्रुपूर्णाक्षः पितृव्ये निहते रणे । अवरुह्य रथान् क्षिप्रं क्षीणेषुः खड्गमाददे ॥२८॥

तमापतन्तं संप्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् । आजघानोरसि क्रुद्धो जग्राह च बलाद्बली ॥२९॥

गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलम् । आजघान महातेजा वक्षसि द्विविदं ततः ॥३०॥

स ततोऽभिहतस्तेन चचाल च महाबलः । उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ॥३१॥

एतस्मिन्नन्तरे मैन्दो द्विविदाभ्याशमागमत् । यूपाक्षं ताडमामास तलेनोरसि वीर्यवान् ॥३२॥

तौ शोणिताक्षयूपाक्षौ प्लवम्गाभ्यां तरस्विनौ । चक्रतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ॥३३॥

द्विविदः शोणिताक्षं तु विददार नखैर्मुखे । निष्पिपेष च वीर्येण क्षितावाविध्य वीर्यवान् ॥३४॥

यूपाक्षमभिसंक्रुद्धो मैन्दो वानरपुंगवः । पीडयामास बाहुभ्यां पपात स हतः क्षितौ ॥३५॥

हतप्रप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा । जगामाभिमुखी सा तु कुम्भकर्णात्मजो यतः ॥३६॥

आपतन्तीम् च वेगेन कुम्भस्तां सान्त्वयच्चमूम् । अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवम्गमैः ॥३७॥

निपातितमहावीरां दृष्ट्वा रक्षश्चमूं तदा । कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ॥३८॥

स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः । मुमोचाशीविषप्रख्याञ्शरान्देहविदारणान् ॥३९॥

तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् । विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा ॥४०॥

आकर्णकृष्टमुक्तेन जघान द्विविदं तदा । तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ॥४१॥

सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन् । निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ॥४२॥

मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे । अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ॥४३॥

तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः । बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ॥४४॥

सन्धाय चान्यं सुमुखं शरमाशीविषोपमम् । आजघान महातेजा वक्षसि द्विविदाग्रजम् ॥४५॥

स तु तेन प्रहारेण मैन्दो वानरयूथपः । मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः ॥४६॥

अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ । अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम् ॥४७॥

तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः । त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ॥४८॥

सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् । अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ॥४९॥

अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते । शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ॥५०॥

स प्रचिच्छेद तान्सर्वान्बिभेद च पुनः शिलाः । कुम्भकर्णात्मजः श्रीमान्वालिपुत्रसमीरितान् ॥५१॥

आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् । भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ॥५२॥

तस्य सुस्राव रुधिरं पिहिते चास्य लोचने । अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ॥५३॥

सालमासन्नमेकेन परिजग्राह पाणिना । सम्पीड्योरसि सस्कन्धम् करेणाभिनिवेश्य च ॥५४॥

किञ्चिदभ्यवनम्यैनमुन्ममाथ महारणे । तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम् ॥५५॥

समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् । स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः ॥५६॥

अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च । अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ॥५७॥

दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन् । रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे ॥५८॥

व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः । ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ॥५९॥

अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् । ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ॥६०॥

रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः । जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥६१॥

कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः । समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान् ॥६२॥

आववार शरौघेण नगेनेव जलाशयम् । तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम् ॥६३॥

वानरेन्द्रा महात्मानो वेलामिव महोदधिः । तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान् ॥६४॥

अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः । अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ॥६५॥

शैलसानु चरं नागं वेगवानिव केसरी । उत्पाट्य च महाशैलानश्वकर्णान्धवान्बहून् ॥६६॥

अन्यांश्च विविधान्वृक्षांश्चिक्षेप च महाकपिः । तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् ॥६७॥

कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः । अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः ॥६८॥

निर्भिद्यमानास्ते रेजुर्यथा घोरशतघ्नयः । द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ॥६९॥

वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे । स विध्यमानः सहसा सहमानश्च ताञ्शरान् ॥७०॥

कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम् । अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ॥७१॥

अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् । निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम् ॥७२॥

संनतिश्च प्रभावश्च तव वा रावणस्य वा । प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम ॥७३॥

एकस्त्वमनुजातोऽसि पितरं बलवत्तरः । त्वामेवैकं महाबाहुं शूलहस्तमरिन्दमम् ॥७४॥

त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः । विक्रमस्व महाबुद्धे कर्माणि मम पश्य च ॥७५॥

वरदानात्पितृव्यस्ते सहते देवदानवान् । कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ॥७६॥

धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च । त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः ॥७७॥

महाविमर्दं समरे मया सह तवाद्भुतम् । अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ॥७८॥

कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् । पातिता हरिवीराश्च त्वयैते भीमविक्रमाः ॥७९॥

उपालम्भभयाच्चापि नासि वीर मया हतः । कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ॥८०॥

तेन सुग्रीववाक्येन सावमानेन मानितः । अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत ॥८१॥

ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा । गजाविवातमदौ निःश्वसन्तौ मुहुर्मुहुः ॥८२॥

अन्योन्यगात्रग्रथितौ घर्षन्तावितरेतरम् । सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ॥८३॥

तयोः पादाभिघाताच्च निमग्ना चाभवन्मही । व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ॥८४॥

ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्ब्भसि । पातयामास वेगेन दर्शयन्नुदधेस्तलम् ॥८५॥

ततः कुम्भनिपातेन जलराशिः समुत्थितः । विन्ध्यमन्दरसंकाशो विससर्प समन्ततः ॥८६॥

तस्य चर्म च पुस्फोट सञ्जज्ञे चास्य शोणितम् । स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले ॥८७॥

तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः । वज्रनिष्पेषसञ्जातज्वाला मेरौ यथा गिरौ ॥८८॥

स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः । मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ॥८९॥

अर्चिःसहस्रविकचं रविमण्डलसप्रभम् । स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ॥९०॥

स तु तेन प्रहरेण विह्वलो भृशपीडितः । निपपात तदा कुम्भो गतार्चिरिव पावकः ॥९१॥

मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः । लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥९२॥

कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना । बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः ॥९३॥

तस्मिन्हते भीमपराक्रमेण । प्लवङ्गमानामृषभेण युद्धे । मही सशैला सवना चचाल । भयं च रक्षांस्यधिकं विवेश ॥९४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकांडे षट्सप्ततितमः सर्गः ॥

Listen to the sarga
0:00