रामायणम्

पञ्चसप्ततितमः सर्गः 6.75

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततोऽब्रवीन्महातेजाः सुग्रीवो वानरेश्वरः । अर्थ्यम् विज्ञापयंश्चापि हनूमन्तमिदं वचः ॥१॥

यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः । नेदानीमुपनिर्हारम् रावनो दातुमर्हति ॥२॥

ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः । लङ्कामभिपतन्त्वाशु गृह्योल्काः प्लवगर्षभाः ॥३॥

हरयो हरिसंकाशाः प्रदग्धुम् रावणालयम् । ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे ॥४॥

6.75.4 #0b59eb144380 timing uncertain

लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः । उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः ॥५॥

आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः । गोपुराट्टप्रतोलीषु चर्यासु विविधासु च ॥६॥

प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम् । तेषां गृहसहस्राणि ददाह हुतभुक्तदा ॥७॥

प्रासादाः पर्वताकाराः पतन्ति धरणीतले । अगुरुर्दह्यते तत्र परं चैव सुचन्दनम् ॥८॥

मौक्तिका मणयः स्निग्धा वज्रं चापि प्रवालकम् । क्षौमम् च दह्यते तत्र करुशेयं चापि शोभनम् ॥९॥

आविकं विविधं चौर्णं काञ्चनं भाण्डमायुधम् । नानाविकृतसंस्थानम् वाजिभाण्डपरिच्छदम् ॥१०॥

गजग्रैवेयकक्ष्याश्च रथभाण्डाश्च संस्कृताः । तनुत्राणि च योधानां हस्त्यश्वानाम् च चर्म च ॥११॥

खड्गा धनूंषि ज्याबाणास्तोमराङ्कुशशक्तयः । रोओमजं वालजं चर्म व्याघ्रजं चाण्डजं बहु ॥१२॥

मुक्तामणिविचित्रांश्च प्रासादांश्च समन्ततः । विविधानस्त्रसंघातानग्निर्दहति तत्र वै ॥१३॥

नानाविधान् गृहांश्चित्रान् ददाह हुतभुक्तदा । आवासान् राक्षसानां च सर्वेषां गृहगृद्नुनाम् ॥१४॥

हेमचित्रतनुत्राणाम् स्रग्भाण्डाम्बरधारिणाम् । सीधुपानचलाक्षाणां मदविह्वलगामिनाम् ॥१५॥

कान्तालम्बितवस्त्राणाम् शत्रुसंजातमन्युनाम् । गदाशूलासिहस्तानां खादतां पिबतामपि ॥१६॥

शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह । त्रस्तानां गच्छतां तूर्णम् पुत्रानादाय सर्वतः ॥१७॥

तेषां शतसहस्राणि तदा लङ्कानिवासिनाम् । अदहत्पावकस्तत्र जज्वाल च पुनः पुनः ॥१८॥

सारवन्ति महार्हाणि गम्भीरगुणवन्ति च । हेमचन्द्रार्धचन्द्राणि चन्द्रशालोत्तमानि च ॥१९॥

तत्र चित्रगवाक्षाणि साधिष्टानानि सर्वशः । मणिविद्रुमचित्रानि स्पृशन्तीव दिवाकरम् ॥२०॥

क्रौञ्चबर्हिणानां भूषणानां च निःस्वनैः । नादितान्यचलाभानि वेश्मान्यग्निर्ददाह ह ॥२१॥

ज्वलनेन परीतानि तोरणानि चकाशिरे । विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ॥२२॥

ज्वलनेन परीतानि गृहाणि प्रचकाशिरे । दावाग्निदीप्तानि यथा शिखराणि महागिरेः ॥२३॥

विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः । त्यक्ताभरणसर्वाङ्ग हा हेत्युच्चैर्विचुक्रुशुः ॥२४॥

तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि । वज्रिवज्रहतानीव शिखराणि महागिरेः ॥२५॥

तानि निर्दह्यमानानि दूरतः प्रचकाशिरे । हिमवच्छिखराणीव दह्यमानानि सर्वशः ॥२६॥

हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि । रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥२७॥

हस्त्यध्यक्षैर्गजैर्मुकैर्मुकैश्च तुरगैरपि । बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः ॥२८॥

अश्वं मुक्तं गजो दृष्ट्वा क्वचिद्भीतोऽपसर्पति । भीतो भीतं गजं दृष्ट्वा क्वचिदश्वो निवर्तते ॥२९॥

लङ्कायाम् दह्यमानायाम् शुशुभे च महोदधिः । चायासंसक्तसलिलो लोहितोद इवार्णवः ॥३०॥

सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा ॥३१॥

नारीजनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः । स्वनो ज्वलनतप्तस्य शुश्रुवे शतयोजनम् ॥३२॥

प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः । सहसा ह्युत्पतन्ति स्म हरयोऽथ युयुत्सवः ॥३३॥

उद्घुष्टं वानराणां च राक्षसानां च निःस्वनः । दिशो दश समुद्रं च पृथिवीम् च व्यनादयत् ॥३४॥

विशल्यौ च महात्मानौ तावुभौ रामलक्ष्मणौ । असम्भ्रान्तौ जगृहतुस्ते उभे धनुषी वरे ॥३५॥

ततो विस्फारयामास रामश्च धनुरुत्तमम् । बभूव तुमुलः शब्दो राक्षसानाम् भयावहः ॥३६॥

अशोभत तदा रामो धनुर्विस्फारयन् महत् । भगवानिव सम्क्रुद्धो भवो वेदमयं धनुः ॥३७॥

उद्गुष्टं वानराणां च राक्षसानां च निःस्वनम् । ज्याशब्दस्तावुभौ शब्दावति रामस्य शुश्रुवे ॥३८॥

वानरोद्घुष्टशब्दश्च राक्षसानां च निःस्वनः । ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दसः ॥३९॥

तस्य कार्मुकनिर्मुक्तैः शरैस्तत्पुरगोपुरम् । कैलासशृङ्गप्रतिमं विशीर्णमपतद्भुवि ॥४०॥

ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च । संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत ॥४१॥

तेषां सम्नह्यमानानाम् सिम्हनादं च कुर्वताम् । शर्वरी राक्षसेन्द्राणाम् द्रौद्रीव समपद्यत ॥४२॥

आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना । असन्नम् द्वारमासाद्य युध्यध्वं च प्लवंगमाः ॥४३॥

यश्च वो वितथं कुर्यात्तत्र तत्राप्युपस्थितः । स हन्तव्योऽभिसम्प्लुत्य राजशासनदूषकः ॥४४॥

तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु । स्थितेषु द्वारमाश्रित्य रावणं क्रोध आविशत् ॥४५॥

तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश । रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत ॥४६॥

स कुम्भं च निकुम्भं च कुम्भकर्णात्मजावुभौ । प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह ॥४७॥

यूपाक्षः शोणिताक्षश्च प्रजङ्घः कम्पनस्तथा । निर्ययुः कौम्भकर्णिभ्यां सह रावणशासनात् ॥४८॥

शशास चैव तान् सर्वान् राक्षसान् स महाबलान् । राक्षसा गच्छताद्यैव सिम्हनादं च नादयन् ॥४९॥

ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः । लङ्काया निर्ययूर्वीराः प्रणदन्तः पुनः पुनः ॥५०॥

रक्षसां भूषणस्थाभिर्भाभिः स्वाभिश्च सर्वशः । चक्रुस्ते सप्रभं व्योम हरयश्चाग्निभिः सह ॥५१॥

तत्र ताराधिपस्याभा ताराणाम् भा तथैव च । तयोराभरणाभा च ज्वलिता द्यामभासयत् ॥५२॥

चन्द्राभा भूषणाभा च ग्रहाणाम् ज्वलिता च भा । हरिराक्षससैन्यानि भ्राजयामास सर्वतः ॥५३॥

तत्र चार्धप्रदीप्तानां गृहाणाम् सागरः पुनः । भाभिः संसक्तसलिलश्चलोर्मिः शुशुभेऽधिकम् ॥५४॥

पताकाध्वजसम्युक्तमुत्तमासिपरश्वधम् । भीमाश्वरथमातङ्गं नानापत्तिसमाकुलम् ॥५५॥

दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम् । तद्राक्षसं बलं भीमम् घोरविक्रमपौरुषम् ॥५६॥

ददृशे ज्वलितप्रसं किङ्किणीशतनादितम् । हेमजालाचितभुजं व्यावेष्टितपरश्वधम् ॥५७॥

व्याघूर्णितमहाशस्त्रं बाणसंयुक्तकार्मुकम् । गन्धमाल्यमधूत्सेकसंमोदितमहानिलम् ॥५८॥

घोरं शूरजनाकीर्णम् महाम्बुधरनिःस्वनम् । तद्दृष्ट्वा बलमायातं राक्षसानां दुरासदम् ॥५९॥

संचचाल प्लवंगानां बलमुच्चैर्ननाद च । जवेनाप्लुत्य च पुनस्तद्बलं रक्षसां महत् ॥६०॥

अभ्ययात्प्रत्यरिबलं पतम्गा इव पावकम् । तेषां भुजपरामर्शव्यामृष्टपरिघाशनि ॥६१॥

राक्षसानां बलम् श्रेष्ठं भूयः परमशोभत । तत्रोन्मत्ता इवोत्पेतुर्हरयोऽथ युयुत्सवः ॥६२॥

तरुशैलैरभिघ्नन्तो मुष्टिभिश्च निशाचरान् । तथैवापततां तेषां हरीणाम् निशितैः शरैः ॥६३॥

शिरांसि सहसा जह्रू राक्षसा भीमविक्रमाः । दशनैर्हतकर्णाश्च मुष्टिभिर्भिन्नमस्तकाः ॥६४॥

शिलाप्रहारभग्नाङ्ग विचेरुस्तत्र राक्षसाः । तथैवाप्यपरे तेषां कपीनामसिभिः शितैः ॥६५॥

प्रवरानभितो जघ्नुर्घोररूपा निशाचराः । घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत् ॥६६॥

गर्हमाणम् जगर्हन्यो दशन्तमपरोऽदशत् । देहीत्यन्यो ददात्यन्यो ददामीत्यपरः पुनः ॥६७॥

किं क्लेशयसि तिष्ठेति तत्रान्योन्यम् बभाषिरे । विप्रलम्भित शस्त्रं च विमुक्तकवचायुधम् ॥६८॥

समुद्यतमहाप्रासं यष्टिशूलासिंसम्कुलम् । प्रावर्त महा रौद्रं युद्धम् वानररक्षसाम् ॥६९॥

वानरान् दश सप्तेति राक्षसा जघ्नराहवे । राक्षसान् दश सप्तेति वानराश्चाभ्यपातयन् ॥७०॥

विस्रस्तकेशवसनम् विमुक्तकवचध्वजम् । बलम् राक्षसमालम्ब्य वानराः पर्यवारयन् ॥७१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकांडे पञ्चसप्ततितमः सर्गः ॥

Listen to the sarga
0:00