रामायणम्

चतुःसप्ततितमः सर्गः 6.74

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तयोस्तदा सादितयो रणाग्रे । मुमोह सैन्यं हरियूथपानाम् । सुग्रीवनीलाङ्गदजाम्बवन्तो । न चापि किं चित्प्रतिपेदिरे ते ॥१॥

ततो विषण्णं समवेक्ष्य सैन्यं । विभीषणो बुद्धिमतां वरिष्ठः । उवाच शाखामृगराजवीरान् । नाश्वासयन्नप्रतिमैर्वचोभिः ॥२॥

मा भैष्ट नास्त्यत्र विषादकालो । यदार्यपुत्राववशौ विषण्णौ । स्वयम्भुवो वाक्यमथोद्वहन्तौ । यत्सादिताविन्द्रजिदस्त्रजालैः ॥३॥

तस्मै तु दत्तं परमास्त्रमेतत् । त्स्वयम्भुवा ब्राह्मममोघवेगम् । तन्मानयन्तौ यदि राजपुत्रौ । निपातितौ को अत्र विषादकालः ॥४॥

ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः । विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ॥५॥

अस्मिन्निहते सैन्ये वानराणां तरस्विनाम् । यो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥६॥

तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ । उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥७॥

भिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः । स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥८॥

पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् । शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥९॥

सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । गवाक्षम् च सिष्जेंणम् च वेगदर्शनमाहुकम् ॥१०॥

मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा । विभीषणो हनूमांश्च ददृशाते हतान्रणे ॥११॥

सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् । अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥१२॥

सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् । मार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः ॥१३॥

स्वभावजरया युक्तं वृद्धं शरशतैश् चितम् । प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥१४॥

दृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत् । कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव ॥१५॥

विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः । कृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥१६॥

नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये । विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥१७॥

अञ्जना सुप्रजा येन मातरिश्वा च नैरृत । हनूमान्वानरश्रेष्ठः प्राणान्धारयते क्व चित् ॥१८॥

श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः । आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥१९॥

नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे । आर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥२०॥

विभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् । शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥२१॥

अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् । हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥२२॥

ध्रियते मारुतिस्तात मारुतप्रतिमो यदि । वैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥२३॥

ततो वृद्धमुपागम्य नियमेनाभ्यवादयत् । गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ॥२४॥

श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः । पुनर्जातमिवात्मानं स मेने ऋक्षपुङ्गवः ॥२५॥

ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् । आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि ॥२६॥

नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा । त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ् चन ॥२७॥

ऋक्षवानरवीराणामनीकानि प्रहर्षय । विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥२८॥

गत्वा परममध्वानमुपर्युपरि सागरम् । हिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि ॥२९॥

ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् । कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥३०॥

तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् । सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ॥३१॥

तस्य वानरशार्दूलचतस्रो मूर्ध्नि सम्भवाः । द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥३२॥

मृतसञ्जीवनीं चैव विशल्यकरणीम् अपि । सौवर्णकरणीं चैव सन्धानीं च महौषधीम् ॥३३॥

ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि । आश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः ॥३४॥

श्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुङ्गवः । आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥३५॥

स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् । हनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥३६॥

हरिपादविनिर्भिन्नो निषसाद स पर्वतः । न शशाक तदात्मानं सोढुं भृशनिपीडितः ॥३७॥

तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः । शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥३८॥

तस्मिन्सम्पीड्यमाने तु भग्नद्रुमशिलातले । न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥३९॥

स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥४०॥

पृथिवीधरसङ्काशो निपीड्य धरणीधरम् । पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥४१॥

आरुरोह तदा तस्माद्धरिर्मलयपर्वतम् । मेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम् ॥४२॥

नानाद्रुमलताकीर्णम् विकासिकमलोत्पलम् । सेवितम् देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥४३॥

विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् । नानामृगगणाकीर्णम् बहुकन्दरशोभितम् ॥४४॥

सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिम्नरान् । हनुमान् मेघसम्काशो ववृधे मारुतात्मजः ॥४५॥

पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् । विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥४६॥

तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥४७॥

नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः । राघवार्थे परं कर्म समैहत परन्तपः ॥४८॥

स पुच्छमुद्यम्य भुजङ्गकल्पं । विनम्य पृष्ठं श्रवणे निकुञ्च्य । विवृत्य वक्त्रं वडवामुखाभम् । आपुप्लुवे व्योम्नि स चण्डवेगः ॥४९॥

स वृक्षषण्डांस्तरसा जहार । शैलाञ्शिलाः प्राकृतवानरांश् च । बाहूरुवेगोद्धतसम्प्रणुन्नास् । स्ते क्षीणवेगाः सलिले निपेतुः ॥५०॥

स तौ प्रसार्योरगभोगकल्पौ । भुजौ भुजङ्गारिनिकाशवीर्यः । जगाम मेरुं नगराजमग्र्यं । दिशः प्रकर्षन्निव वायुसूनुः ॥५१॥

स सागरं घूर्णितवीचिमालं तथा भृशं भ्रामितसर्वसत्त्वम् । समीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥५२॥

स पर्वतान्वृक्षगणान्सरांसि । नदीस्तटाकानि पुरोत्तमानि । स्फीताञ्जनांस्तानपि सम्प्रपश्यञ् । जगाम वेगात्पितृतुल्यवेगः ॥५३॥

आदित्यपथमाश्रित्य जगाम स गतश्रमः । हनुमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः ॥५४॥

जवेन महता युक्तो मारुतिर्मारुतो यथा । जगाम हरिशार्दूलो दिशः शब्देन नादयन् ॥५५॥

स्मर्न् जाम्बवतो वाक्यम् मारुतिर्भीमविक्रमः । ददर्श सहसा चापि हिमवन्तं महाकपिः ॥५६॥

नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् । श्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः ॥५७॥

शोभितं विविधैर्वृक्तैरगमत्पर्वतोत्तमम् । स तम् समासाद्य महानगेन्द्रम् । मतिप्रवृद्धोत्तमघोरशृङ्गम् । ददर्श पुण्यानि महाश्रमाणि । सुरर्षिसङ्घोत्तमसेवितानि ॥५८॥

स ब्रह्मकोशं रजतालयं च । शक्रालयं रुद्रशरप्रमोक्षम् । हयाननं ब्रह्मशिरश्च दीप्तं । ददर्श वैवस्वत किङ्करांश् च ॥५९॥

वज्रालयं वैश्वरणालयं च । सूर्यप्रभं सूर्यनिबन्धनं च । ब्रह्मासनं शङ्करकार्मुकं च । ददर्श नाभिं च वसुन्धरायाः ॥६०॥

कैलासमग्र्यं हिमवच्छिलां च । तथर्षभं काञ्चनशैलमग्र्यम् । स दीप्तसर्वौषधिसम्प्रदीप्तं । ददर्श सर्वौषधिपर्वतेन्द्रम् ॥६१॥

स तं समीक्ष्यानलरश्मिदीप्तं । विसिष्मिये वासवदूतसूनुः । आप्लुत्य तं चौषधिपर्वतेन्द्रं । तत्रौषधीनां विचयं चकार ॥६२॥

स योजनसहस्राणि समतीत्य महाकपिः । दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥६३॥

महौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे । विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥६४॥

स ता महात्मा हनुमान पश्यं । शुकोप कोपाच्च भृशं ननाद । अमृष्यमाणोऽग्निनिकाशचक्षुर् । र्महीधरेन्द्रं तमुवाच वाक्यम् ॥६५॥

किमेतदेवं सुविनिश्चितं ते । यद्राघवे नासि कृतानुकम्पः । पश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥६६॥

स तस्य शृङ्गं सनगं सनागं । सकाञ्चनं धातुसहस्रजुष्टम् । विकीर्णकूटं चलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥६७॥

स तं समुत्पाट्य खमुत्पपात । वित्रास्य लोकान्ससुरान्सुरेन्द्रान् । संस्तूयमानः खचरैरनेकैर् । जगाम वेगाद्गरुडोग्रवीर्यः ॥६८॥

स भास्कराध्वानमनुप्रपन्नस् । तद्भास्कराभं शिखरं प्रगृह्य । बभौ तदा भास्करसंनिकाशो । रवेः समीपे प्रतिभास्कराभः ॥६९॥

स तेन शैलेन भृशं रराज । शैलोपमो गन्धवहात्मजस्तु । सहस्रधारेण सपावकेन । चक्रेण खे विष्णुरिवार्पितेन ॥७०॥

तं वानराः प्रेक्ष्य तदा विनेदुः । स तानपि प्रेक्ष्य मुदा ननाद । तेषां समुत्कृष्टरवं निशम्य । लङ्कालया भीमतरं विनेदुः ॥७१॥

ततो महात्मा निपपात तस्मिञ् । शैलोत्तमे वानरसैन्यमध्ये । हर्युत्तमेभ्यः शिरसाभिवाद्य । विभीषणं तत्र च सस्वजे सः ॥७२॥

तावप्युभौ मानुषराजपुत्रौ । तं गन्धमाघ्राय महौषधीनाम् । बभूवतुस्तत्र तदा विशल्या । उत्तस्थुरन्ये च हरिप्रवीराः ॥७३॥

सर्वे विशल्या विरुजाः क्षणेन । हरिप्रवीराश्च हता श्च ये स्युः । गन्धेन तासाम् प्रवरौषधीनां । सुप्ता निशान्तेष्विव संप्रबुद्धाः ॥७४॥

यदाप्रभृति लङ्कायां युध्यने हरिराक्षसाः । तदाप्रभृति मानार्थ्माज्ञया रावणस्य च ॥७५॥

ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः । हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥७६॥

ततो हरिर्गन्धवहात्मजस्तु । तमोषधीशैलमुदग्रवीर्यः । निनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥७७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुःसप्ततितमः सर्गः ॥

Listen to the sarga
0:00