ततो हतान्राक्षसपुङ्गवांस्तान् । देवान्तकादित्रिशिरोऽतिकायान् । रक्षोगणास्तत्र हतावशिष्टास् । ते रावणाय त्वरितं शशंसुः ॥१॥
त्रिसप्ततितमः सर्गः 6.73
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ततो हतांस्तान्सहसा निशम्य । राजा मुमोहाश्रुपरिप्लुताक्षः| पुत्रक्षयं भ्रातृवधं च घोरं । विचिन्त्य राजा विपुलं प्रदध्यौ ॥२॥
ततस्तु राजानमुदीक्ष्य दीनं । शोकार्णवे सम्परिपुप्लुवानम्| अथर्षभो राक्षसराजसूनुर् । अथेन्द्रजिद्वाक्यमिदं बभाषे ॥३॥
न तात मोहं प्रतिगन्तुमर्हसि । यत्रेन्द्रजिज्जीवति राक्षसेन्द्र| नेन्द्रारिबाणाभिहतो हि कश् चित् । प्राणान्समर्थः समरेऽभिधर्तुम् ॥४॥
पश्याद्य रामं सहलक्ष्मणेन । मद्बाणनिर्भिन्नविकीर्णदेहम्| गतायुषं भूमितले शयानं । शरैः शितैराचितसर्वगात्रम् ॥५॥
इमां प्रतिज्ञां शृणु शक्रशत्रोः । सुनिश्चितां पौरुषदैवयुक्ताम्| अद्यैव रामं सहलक्ष्मणेन । सन्तापयिष्यामि शरैरमोघैः ॥६॥
अद्येन्द्रवैवस्वतविष्णुमित्र । साध्याश्विवैश्वानरचन्द्रसूर्याः| द्रक्ष्यन्ति मे विक्रममप्रमेयं । विष्णोरिवोग्रं बलियज्ञवाटे ॥७॥
स एवमुक्त्वा त्रिदशेन्द्रशत्रुर् । आपृच्छ्य राजानमदीनसत्त्वः । समारुरोहानिलतुल्यवेगं । रथं खरश्रेष्ठसमाधियुक्तम् ॥८॥
समास्थाय महातेजा रथं हरिरथोपमम्| जगाम सहसा तत्र यत्र युद्धमरिन्दम ॥९॥
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः| संहर्षमाणा बहवो धनुःप्रवरपाणयः ॥१०॥
गजस्कन्धगताः के चित्के चित्परमवाजिभिः| व्याघ्रवृश्चिकमार्जारखरोष्ट्ट्रैश्च भुजम्गमैः ॥११॥
वराहैः श्वापदैः सिम्हैर्जम्बुकैः पर्वतोपमैः । काकहंसमयूरैश्च राक्षसा भीमविक्रमाः ॥१२॥
प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः । भुशुण्डिमुद्गरायष्टिशतग्नीपरिघायुधाः ॥१३॥
स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः| जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ॥१४॥
स शङ्खशशिवर्णेन छत्रेण रिपुसादनः| रराज परिपूर्णेन नभश्चन्द्रमसा यथा ॥१५॥
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः| चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ॥१६॥
स तु दृष्ट्वा विनिर्यान्तम् बलेन महता वृतम् । राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत् ॥१७॥
त्वमप्रतिरथः पुत्र त्वया वै वासवो जितः । किम्पुनर्मानुषम् धृष्यम् निहनिष्यसि राघवम् ॥१८॥
तथोक्तो राक्षसेन्द्रेण प्रत्यगृह्णान्महाश्षः । ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ॥१९॥
रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता । स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः ॥२०॥
स्थापयामास रक्षांसि रथं प्रति समन्ततः । ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ॥२१॥
जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा । स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः ॥२२॥
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् । शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः ॥२३॥
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा । स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ॥२४॥
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः । सकृदेव समिद्धस्य विधूमस्य महार्चिषः ॥२५॥
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् । प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः ॥२६॥
हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः । सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः ॥२७॥
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् । तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके ॥२८॥
सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम् । स पावकं पावकदीप्ततेजा । हुत्वा महेन्द्रप्रतिमप्रभावः| स चापबाणासिरथाश्वसूतः । खेऽन्तर्दध आत्मानमचिन्त्यरूपः ॥२९॥
ततो हयरथाकीर्णं पताकाध्वजशोभितम् । निर्ययौ राक्षसबलम् नर्दमानम् युयुत्सया ॥३०॥
ते शरैर्बहुभिश्चित्रैस्तीक्षणवेगैरलङ्कृतैः । तोमरैरङ्कुशश्चापि वानरान् जघ्नुराहवे ॥३१॥
रावणिस्तु सुसम्क्रुद्धस्तान्निरीक्ष्य निशाचरान् । हृष्टा भवन्तो युध्यन्तु वानराणां जिघांसया ॥३२॥
ततस्ते राक्षसाः सर्वे गर्जन्तो जयकाङिक्षिणः । अभ्यवर्षंस्ततो घोरं वानरान् शरवृष्टिभिः ॥३३॥
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि । रक्षोभिः संवृतः संख्ये वानरान् विचकर्त ह ॥३४॥
ते वध्यमानाः समरे वानराः पादपायुधाः । अभ्यवर्षन्त सहसा रावणिं शैलपादपैः ॥३५॥
इन्द्रजित्तु तदा क्रुद्धो महातेजा महाबलः । वानराणां शरीराणि व्य्धमद्रावणात्मजः ॥३६॥
शरेणैकेन च हरीन्नव पञ्च च सप्त च । बिभेद समरे क्रुद्धो राक्षसान् संप्रहर्षयन् ॥३७॥
स शरैः सूर्यसम्काशैः शातकुम्भविभूषणैः । वानरान् समरे वीरः प्रममाथ सुदुर्जयः ॥३८॥
ते भिन्नगात्राः समरे वानराः शरपीडिताः । पेतुर्मथितसंकल्पाः सुरैरिव महासुराः ॥३९॥
ते तपन्तमिवादित्यं घोरै र्बाणगभस्तिभिः । अभ्याधावन्त सम्क्रुद्धाः सम्युगे वानरर्षभाः ॥४०॥
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः । व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ॥४१॥
तामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः । नर्दन्तस्तेऽनिवृत्तास्तु समरे सशिलायुधाः ॥४२॥
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवंगमाः । अभ्यवर्षन्त समरे रावणिं समवस्थिताः ॥४३॥
तं द्रुमाणाम् शिलानां च वर्षं प्राणहरं महत् । व्यपोहत महातेजा रावणिः समितिंजयः ॥४४॥
ततः पावकसंकाशैः शरैराशीविषोपमैः । वानराणामनीकानि बिभेद समरे प्रभुः ॥४५॥
अष्टादशशरैस्तीक्षणैः स विद्ध्वा गन्धमादनम् । विव्याध नवभिश्चैव नलं दूरादवस्थितम् ॥४६॥
सप्तभिस्तु महावीर्यो मैन्दं मर्मविदारणैः । पञ्चभिर्विशिखैश्चैव गजम् विव्याध संयुगे ॥४७॥
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च । सुग्रीवमृषभं चैव सोऽङ्गदम् द्विविदं तथा ॥४८॥
घोरैर्दत्तवरैस्तीक्षणैर्निष्प्रानकरोत्तदा । अन्यानपि तदा मुख्यान्वानरान् बहुभिः शरैः ॥४९॥
अर्दयामास सम्क्रुद्धः कालाग्निरिव मूर्चितः । स शरैः सूर्यसम्काशैः सुमुखैः शीग्रगामिभिः ॥५०॥
वानराणामनीकानि निर्ममन्थ महारणे । आकुलां वानरीम् सेनां शरजालेन पीडिताम् ॥५१॥
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् । पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ॥५२॥
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् । ममर्द वानरानीकं परितस्त्विन्द्रजिद्बली ॥५३॥
स सैन्यमुत्सृज्य समेत्य तूर्णं । महारणे वानरवाहिनीषु| अदृश्यमानः शरजालमुग्रं । ववर्ष नीलाम्बुधरो यथाम्बु ॥५४॥
ते शक्रजिद्बाणविशीर्णदेहा । मायाहता विस्वरमुन्नदन्तः| रणे निपेतुर्हरयोऽद्रिकल्पा । यथेन्द्रवज्राभिहता नगेन्द्राः ॥५५॥
ते केवलं सन्ददृशुः शिताग्रान् । बाणान्रणे वानरवाहिनीषु| माया निगूढं च सुरेन्द्रशत्रुं । न चात्र तं राक्षसमभ्यपश्यन् ॥५६॥
ततः स रक्षोऽधिपतिर्महात्मा । सर्वा दिशो बाणगणैः शिताग्रैः| प्रच्छादयामास रविप्रकाशैर् । विषादयामास च वानरेन्द्रान् ॥५७॥
स शूलनिस्त्रिंश परश्वधानि । व्याविध्य दीप्तानलसंनिभानि| सविस्फुलिङ्गोज्ज्वलपावकानि । ववर्ष तीव्रं प्लवगेन्द्रसैन्ये ॥५८॥
ततो ज्वलनसङ्काशैः शितैर्वानरयूथपाः| ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ॥५९॥
तेऽन्योन्यमभिसर्पन्तो निनदन्तश् च विस्वरम्| राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ॥६०॥
उदीक्षमाणा गगनं के चिन्नेत्रेषु ताडिताः| शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ॥६१॥
हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्| जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥६२॥
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ| केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम् ॥६३॥
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्| पावकाक्षं नलं चैव कुमुदं चैव वानरम् ॥६४॥
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः| विव्याध हरिशार्दूलान्सर्वांस्तान्राक्षसोत्तमः ॥६५॥
स वै गदाभिर्हरियूथमुख्यान् । निर्भिद्य बाणैस्तपनीयपुङ्खैः । ववर्ष रामं शरवृष्टिजालैः । सलक्ष्मणं भास्कररश्मिकल्पैः ॥६६॥
स बाणवर्षैरभिवर्ष्यमाणो । धारानिपातानिव तान्विचिन्त्य| समीक्षमाणः परमाद्भुतश्री । रामस्तदा लक्ष्मणमित्युवाच ॥६७॥
असौ पुनर्लक्ष्मण राक्षसेन्द्रो । ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः| निपातयित्वा हरिसैन्यमुग्रम् । अस्माञ्शरैरर्दयति प्रसक्तम् ॥६८॥
स्वयम्भुवा दत्तवरो महात्मा । खमास्थितोऽन्तर्हितभीमकायः । कथं नु शक्यो युधि नष्टदेहो । निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ॥६९॥
मन्ये स्वयम्भूर्भगवानचिन्त्यो । यस्यैतदस्त्रं प्रभवश् च योऽस्य| बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ॥७०॥
प्रच्छादयत्येष हि राक्षसेन्द्रः । सर्वा दिशः सायकवृष्टिजालैः| एतच्च सर्वं पतिताग्र्यवीरं । न भ्राजते वानरराजसैन्यम् ॥७१॥
आवां तु दृष्ट्वा पतितौ विसंज्ञौ । निवृत्तयुद्धौ हतरोषहर्षौ| ध्रुवं प्रवेक्ष्यत्यमरारिवासं । असौ समादाय रणाग्रलक्ष्मीम् ॥७२॥
ततस्तु ताविन्द्रजिदस्त्रजालैर् । बभूवतुस्तत्र तदा विशस्तौ| स चापि तौ तत्र विषादयित्वा । ननाद हर्षाद्युधि राक्षसेन्द्रः ॥७३॥
ततस्तदा वानरराजसैन्यं । रामं च सङ्ख्ये सहलक्ष्मणेन| विषादयित्वा सहसा विवेश । पुरीं दशग्रीवभुजाभिगुप्ताम् ॥७४॥
संस्तूयमानः स तु यातुधानैः । पित्रे च सर्वं हृषितोऽभ्युवाच ॥७५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकांडे त्रिसप्ततितमः सर्गः ॥