अतिकायं हतं श्रुत्वा लक्ष्मणेन महात्मना । उद्वेगमगमद्राजा वचनम् चेदमब्रवीत् ॥१॥
द्विपप्ततितमः सर्गः 6.72
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
धूम्राक्षः परमामर्षी सर्वशस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भकर्णस्त्तथैव च ॥२॥
एते महाबला वीरा राक्षसा युद्धकाङिक्षणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ॥३॥
ससैन्यास्ते हता वीरा रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ॥४॥
अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ॥५॥
तौ भ्रातरौ तदा बद्धौ घोरैर्दत्तवरैः शरैः । यन्न शक्यम् सुरैः सर्वैरसुरैर्वा महाबलैः ॥६॥
मोक्तुम् तद् बन्धनम् घोरं यक्षगन्धर्वपन्नगैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ॥७॥
शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गताह् शूरा राक्षसा मम शासनात् ॥८॥
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहम् युद्धे यो.द्य रामं सलक्ष्मणम् ॥९॥
नाशयेत्सबलम् वीरं ससुग्रीवविभीषणम् । अहो सुबलवान् रामो महदस्त्रबलम् च वै ॥१०॥
यस्य विक्रममासाद्य राक्षसा निधनम् गताः । अप्रमत्तेश्च सर्वत्रा गुल्मै रक्ष्या पुरी त्वियम् ॥११॥
अशोकवनिका चैव यत्र सीताभिरक्ष्यते । निष्क्रमो वा प्रवेशो वा ज्ञात्व्यः सर्वदैव नः ॥१२॥
यत्र यत्र भवेद्गुल्मस्तत्र तत्र पुनः पुनः । सर्वतश्चापि तिष्ठध्वम् स्वैः स्वैः परिवृता बलैः ॥१३॥
द्रष्टव्यम् च पदम् तेषाम् वानराणां निशाचराः । प्रदोषे वार्धरात्रे वा प्रत्यूषे वापि सर्वशः ॥१४॥
नावज्ञा तत्र कर्तव्या वानरेषु कदाचन । द्विषतां बलमुद्युक्तमापतत्किं स्थितं तथा ॥१५॥
ततस्ते राक्षसाह् सर्वे श्रुत्वा लङ्काधिपस्य तत् । वचनं सर्वमातिष्ठन् यथावत्तु महाबलाः ॥१६॥
स तान् सर्वान् हि संदिश्य रावणो राक्षसाधिपः । मन्युशल्यम् वहन् दीनः प्रविवेश स्वमालयम् ॥१७॥
ततः स संदीपितकोपपह्नि । र्निशाचराणामधिपो महाबलः । तदेव पुत्रव्यसनम् विचिन्तयन् । मुहुर्मुहुश्चैव तदा व्यनिःश्वसत् ॥१८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्विपप्ततितमः सर्गः ॥