रामायणम्

एकसप्ततितमः सर्गः 6.71

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स्वबलम् व्यथितम् दृष्ट्वा तुमुलं लोमहर्षणम् । भ्रातॄंश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥१॥

पितृव्यौ चापि सन्दृश्य समरे संनिषूदितौ । युद्धोन्मत्तम् च मत्तम् च भ्रातरौ राक्षसर्षभौ ॥२॥

चुकोप च महातेजा ब्रह्मदत्तवरो युधि । अतिकायोऽद्रिसङ्काशो देवदानवदर्पहा ॥३॥

स भास्करसहस्रस्य सङ्घातमिव भास्वरम् । रथमास्थाय शक्रारिरभिदुद्राव वानरान् ॥४॥

स विस्फार्य तदा चापम् किरीटी मृष्टकुण्डलः । नाम संश्रावयामास ननाद च महास्वनम् ॥५॥

तेन सिम्हप्रणादेन नामविश्रावणेन च । ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥६॥

ते दृष्ट्वा देहमाहात्म्यम् कुम्भकर्णोऽयमुत्थितः । भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥७॥

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे । भयाद्वानरयोधास्ते विद्रवन्ति ततस्ततः ॥८॥

तेऽतिकायम् समासाद्य वानरा मूढचेतसः । शरण्यम् शरणम् जग्मुर्लक्ष्मणाग्रजमाहवे ॥९॥

ततोऽतिकायम् काकुत्स्थो रथस्थं पर्वतोपमम् । ददर्श धन्विनम् दूराद्गर्जन्तं कालमेघवत् ॥१०॥

स तम् दृष्ट्वा महाकायम् राघवस्तु सुविस्मितः । वानरान्सान्त्वयित्वा च विभीषणमुवाच ह ॥११॥

कोऽसौ पर्वतसङ्काशो धनुष्मान्हरिलोचनः । युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥१२॥

य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः । अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥१३॥

कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते । आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥१४॥

धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः । शोभयन्ति रथश्रेष्ठम् शक्रपातमिवाम्बरम् ॥१५॥

य एष रक्षः शार्दूलो रणभूमिम् विराजयन् । अभ्येति रथिनाम् श्रेष्ठो रथेनादित्यतेजसा ॥१६॥

ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते । सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन् ॥१७॥

त्रिणतं मेघनिर्ह्रादम् हेमपृष्ठमलङ्कृतम् । शतक्रतुधनुःप्रख्यम् धनुश्चास्य विराजते ॥१८॥

सध्वजः सपताकश्च सानुकर्षो महारथः । चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ॥१९॥

विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः । कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥२०॥

द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ । चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ ॥२१॥

रक्तकण्ठगुणो धीरो महापर्वतसंनिभः । कालः कालमहावक्त्रो मेघस्थ इव भास्करः ॥२२॥

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते । शृङ्गाभ्यामिव तुङ्गाभ्याम् हिमवान्पर्वतोत्तमः ॥२३॥

कुण्डलाभ्याम् तु यस्यैतद्भाति वक्त्रम् शुभेक्षणम् । पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम् ॥२४॥

आचक्ष्व मे महाबाहो त्वमेनम् राक्षसोत्तमम् । यम् दृष्ट्वा वानराः सर्वे भयार्ता विद्रूता दिशः ॥२५॥

स पृष्ठो राजपुत्रेण रामेणामिततेजसा । आचचक्षे महातेजा राघवाय विभीषणः ॥२६॥

दशग्रीवो महातेजा राजा वैश्रवणानुजः । भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥२७॥

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे । वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषाम् वरः ॥२८॥

अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे । भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥२९॥

यस्य बाहुम् समाश्रित्य लङ्का भवति निर्भया । तनयम् धान्यमालिन्या अतिकायमिमम् विदुः ॥३०॥

एतेनाराधितो ब्रह्मा तपसा भावितात्मना । अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥३१॥

सुरासुरैरवध्यत्वम् दत्तमस्मै स्वयम्भुवा । एतच्च कवचम् दिव्यम् रथश्चैषोऽर्कभास्करः ॥३२॥

एतेन शतशो देवा दानवाश्च पराजिताः । रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः ॥३३॥

वज्रम् विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः । पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा ॥३४॥

एषोऽतिकायो बलवान् राक्षसानामथर्षभः । स रावणस्य सुतो धीमान् देवदनव दर्पहा ॥३५॥

तदस्मिन् क्रियताम् यत्नः क्षिप्रं पुरुषपुङ्गव । पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥३६॥

ततोऽतिकायो बलवान्प्रविश्य हरिवाहिनीम् । विस्फारयामास धनुर्ननाद च पुनः पुनः ॥३७॥

तं भीमवपुषम् दृष्ट्वा रथस्थम् रथिनां वरम् । अभिपेतुर्महात्मानो ये प्रधानाः ये वनौकसः ॥३८॥

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च । पादपैर्गिरिशृङ्गैश् च युगपत्समभिद्रवन् ॥३९॥

तेषाम् वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः । अतिकायो महातेजाश्चिच्छेदास्त्रविदाम् वरः ॥४०॥

तांश्चैव सरान्स हरीञ्शरैः सर्वायसैर्बली । विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥४१॥

तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवङ्गमाः । न शेकुरतिकायस्य प्रतिकर्तुं महारणे ॥४२॥

तत्सैन्यम् हरिवीराणाम् त्रासयामास राक्षसः । मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः ॥४३॥

स राषसेन्द्रो हरिसैन्यमध्ये । नायुध्यमानं निजघान कम् चित् । उपेत्य रामम् सधनुः कलापी । सगर्वितम् वाक्यमिदं बभाषे ॥४४॥

रथे स्थितोऽहम् शरचापपाणि । न प्राकृतम् कं चन योधयामि । यस्यास्ति शक्तिर्व्यवसाय युक्ता । ददातुं मे क्षिप्रमिहाद्य युद्धम् ॥४५॥

तत्तस्य वाक्यं ब्रुवतो निशम्य । चुकोप सौमित्रिरमित्रहन्ता । अमृष्यमाणश्च समुत्पपात । जग्राह चापम् च ततः स्मयित्वा ॥४६॥

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् । पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥४७॥

पूरयन्स महीम् शैलानाकाशं सागरम् दिशः । ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् ॥४८॥

सौमित्रेश्चापनिर्घोषम् श्रुत्वा प्रतिभयम् तदा । विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥४९॥

तदातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् । आदाय निशितं बाणमिदम् वचनमब्रवीत् ॥५०॥

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः । गच्छ किम् कालसदृशं माम् योधयितुमिच्छसि ॥५१॥

न हि मद्बाहुसृष्टानामस्त्राणाम् हिमवानपि । सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥५२॥

सुखप्रसुप्तम् कालाग्निं प्रबोधयितुमिच्छसि । न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः ॥५३॥

अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि । तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥५४॥

पश्य मे निशितान् बाणान रिदर्पनिषूदनान् । ईश्वरायुधसङ्काशांस्तप्तकाञ्चनभूषणान् ॥५५॥

एष ते सर्पसङ्काशो बाणः पास्यति शोणितम् । मृगराज इव क्रुद्धो नागराजस्य शोणितम् ॥५६॥

श्रुत्वातिकायस्य वचः सरोषं । सगर्वितम् सम्यति राजपुत्रः । स सञ्चुकोपातिबलो मस्वी । उवाच वाक्यम् च ततो महार्थम् ॥५७॥

न वाक्यमात्रेण भवान्प्रधानो । न कत्थनात्सत्पुरुषा भवन्ति । मयि स्थिते धन्विनि बाणपाणौ । विदर्शयस्वात्मबलम् दुरात्मन् ॥५८॥

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि । पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥५९॥

सर्वायुधसमायुक्तो धन्वी त्वम् रथमास्थितः । शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥६०॥

ततः शिरस्ते निशितैः पातयिष्याम्यहम् शरैः । मारुतः कालसम्पक्वम् वृन्तात्तालफलं यथा ॥६१॥

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः । पास्यन्ति रुधिरम् गात्राद्बाणशल्यान्तरोत्थितम् ॥६२॥

बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि । बालो वा यदि वा वृद्धो मृत्युम् जानीहि सम्युगे ॥६३॥

बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिविक्रमैः । लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ॥६४॥

अतिकायः प्रचुक्रोध बाणम् चोत्तममाददे । ततो विद्याधरा भूता देवा दैत्या महर्षयः ॥६५॥

गुह्यकाश्च महात्मानस्तद्युद्धम् ददृशुस्तदा । ततोऽतिकायः कुपितश्चापमारोप्य सायकम् ॥६६॥

लक्ष्मणस्य प्रचिक्षेप सङ्क्षिपन्निव चाम्बरम् । तमापतन्तं निशितम् शरमाशीविषोपमम् ॥६७॥

अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा । तं निकृत्तम् शरम् दृष्ट्वा कृत्तभोगमिवोरगम् ॥६८॥

अतिकायो भृशम् क्रुद्धः पञ्चबाणान्समाददे । ताञ्शरान्सम्प्रचिक्षेप लक्ष्मणाय निशाचरः ॥६९॥

तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः । स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ॥७०॥

आददे निशितं बाणम् ज्वलन्तमिव तेजसा । तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः ॥७१॥

विचकर्ष च वेगेन विससर्ज च सायकम् । पूर्णायतविसृष्टेन शरेणानत पर्वणा ॥७२॥

ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् । स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ॥७३॥

ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे । राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः ॥७४॥

रुद्रबाणहतं भीमम् यथा त्रिपुरगोपुरम् । चिन्तयामास चाश्वस्य विमृश्य च महाबलः ॥७५॥

साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः । विचार्यैवम् विनम्यास्यं विनम्य च भुजावुभौ ॥७६॥

स रथोपस्थमास्थाय रथेन प्रचचार ह । एकम् त्रीन्पञ्च सप्तेति सायकान्राक्षसर्षभः ॥७७॥

आददे सन्दधे चापि विचकर्षोत्ससर्ज च । ते बाणाः कालसङ्काशा राक्षसेन्द्रधनुश्च्युताः ॥७८॥

हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् । ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्रावणानुजः ॥७९॥

असम्भ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः । ताञ्शरान्युधि सम्प्रेक्ष्य निकृत्तान्रावणात्मजः ॥८०॥

चुकोप त्रिदशेन्द्रारिर्जग्राह निशितम् शरम् । स सन्धाय महातेजास्तं बाणम् सहसोत्सृजत् ॥८१॥

ततः सौमित्रिमायान्तमाजघान स्तनान्तरे । अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ॥८२॥

सुस्राव रुधिरम् तीव्रं मदं मत्त इव द्विपः । स चकार तदात्मानम् विशल्यं सहसा विभुः ॥८३॥

जग्राह च शरम् तीष्णमस्त्रेणापि समादधे । आग्नेयेन तदास्त्रेण योजयामास सायकम् ॥८४॥

स जज्वाल तदा बाणो धनुश्चास्य महात्मनः । अतिकायोऽतितेजस्वी सौरमस्त्रम् समाददे ॥८५॥

तेन बाणं भुजङ्गाभम् हेमपुङ्खमयोजयत् । ततस्तम् ज्वलितं घोरम् लक्ष्मणः शरमाहितम् ॥८६॥

अतिकायाय चिक्षेप कालदण्डमिवान्तकः । आग्नेयेनाभिसम्युक्तम् दृष्ट्वा बाणं निशाचरः ॥८७॥

उत्ससर्ज तदा बाणम् दीप्तम् सूर्यास्त्रयोजितम् । तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ॥८८॥

तेजसा सम्प्रदीप्ताग्रौ क्रुद्धाविव भुजम् गमौ । तावन्योन्यम् विनिर्दह्य पेततुर्धरणीतले ॥८९॥

निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ । तावुभरु दीप्यमानौ स्म न भ्राजेते महीतले ॥९०॥

ततोऽतिकायः सङ्क्रुद्धस्त्वस्त्रमैषीकमुत्सृजत् । तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान् ॥९१॥

ऐषीकं निहतम् दृष्ट्वा कुमारो रावणात्मजः । याम्येनास्त्रेण सङ्क्रुद्धो योजयामास सायकम् ॥९२॥

ततस्तदस्त्रम् चिक्षेप लक्ष्मणाय निशाचरः । वायव्येन तदस्त्रम् तु निजघान स लक्ष्मणः ॥९३॥

अथैनम् शरधाराभिर्धाराभिरिव तोयदः । अभ्यवर्षत सङ्क्रुद्धो लक्ष्मणो रावणात्मजम् ॥९४॥

तेऽतिकायम् समासाद्य कवचे वज्रभूषिते । भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥९५॥

तान्मोघानभिसम्प्रेक्ष्य लक्ष्मणः परवीरहा । अभ्यवर्षत बाणानाम् सहस्रेण महायशाः ॥९६॥

स वर्ष्यमाणो बाणौघैरतिकायो महाबलः । अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ॥९७॥

शरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् । स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥९८॥

मुहूर्तमात्रं निःसम्ज्ञो ह्यभव च्छत्रुतापनः । ततः सम्ज्ञामुपालभ्य चतुर्भिः सायतोत्तमैः ॥९९॥

निजघान हयान् संख्ये सारथिम् च महाबलः । ध्वजस्योन्मथनम् कृत्वा शरवर्षै ररिंदमः ॥१००॥

असंभ्रान्तः स सौमित्रिस्तान् शरानभिलक्षितान् । मुमोच लक्ष्मणो बाणान् वधार्थं तस्य रक्षसः ॥१०१॥

न शशाक रुजम् कर्तुम् युधि तस्य नरोत्तमः । अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ॥१०२॥

ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः । ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा ॥१०३॥

अवध्य एष ह्यन्येषामस्त्राणाम् कवची बली । ततः स वायोर्वचनं निशम्य । सौमित्रिरिन्द्रप्रतिमानवीर्यः । समाददे बाणममोघवेगं । तद्ब्राह्ममस्त्रम् सहसा नियोज्य ॥१०४॥

तस्मिन्वरास्त्रे तु नियुज्यमाने । सौमित्रिणा बाणवरे शिताग्रे । दिशः सचन्द्रार्कमहाग्रहाश् च । नभश्च तत्रास ररास चोर्वी ॥१०५॥

तं ब्रह्मणोऽस्त्रेण नियुज्य चापे । शरम् सुपुङ्खं यमदूतकल्पम् । सौमित्रिरिन्द्रारिसुतस्य तस्य । ससर्ज बाणम् युधि वज्रकल्पम् ॥१०६॥

तम् लक्ष्मणोत्सृष्टममोघवेगं । समापतन्तम् ज्वलनप्रकाशम् । सुवर्णवज्रोत्तमचित्रपुङ्खं । तदातिकायः समरे ददर्श ॥१०७॥

तं प्रेक्षमाणः सहसातिकायो । जघान बाणैर्निशितैरनेकैः । स सायकस्तस्य सुपर्णवेगस् । तदातिवेगेन जगाम पार्श्वम् ॥१०८॥

तमागतं प्रेक्ष्य तदातिकायो बाणं प्रदीप्तान्तककालकल्पम् । जघान शक्त्यृष्टिगदाकुठारैः शूलैर्हलैश्चाप्यविपन्नचेष्टः ॥१०९॥

तान्यायुधान्यद्भुतविग्रहाणि । मोघानि कृत्वा स शरोऽग्निदीप्तः । प्रसह्य तस्यैव किरीटजुष्टं । तदातिकायस्य शिरो जहार ॥११०॥

तच्छिरः सशिरस्त्राणम् लक्ष्मणेषुप्रपीडितम् । पपात सहसा भूमौ शृङ्गम् हिमवतो यथा ॥१११॥

तं भूमौ पतितं दृष्ट्वा विक्षिप्ताम्बरभूषणम् । बभूवुर्व्यथिताः सर्वे हरशेषा निशाचराः ॥११२॥

ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥११३॥

ततस्तत्परितो याता निरपेक्षा निशाचराः । पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥११४॥

प्रहर्षयुक्ता बहवस्तु वानरा । प्रबुद्धपद्मप्रतिमाननास्तदा । अपूजयम्ल्लक्ष्मणमिष्टभागिनं । हते रिपौ भीमबले दुरासदे ॥११५॥

अतिबल मतिकायमभ्रकल्पं । युधि विनिपात्य स लक्ष्मणः प्रहृष्टः । त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ॥११६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः ॥

Listen to the sarga
0:00