रामायणम्

सप्ततितमः सर्गः 6.70

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

नरान्तकम् हतम् दृष्ट्वा चुक्रुशुर् नैरृतर्षभाः। देवान्तकः त्रिमूर्धा च पौलस्त्यः च महोदरः ॥१॥

आरूढो मेघ सम्काशम् वारण इन्द्रम् महा उदरः । वालि पुत्रम् महा वीर्यम् अभिदुद्राव वीर्यवान् ॥२॥

भ्रातृ व्यसन सम्तप्तस् तदा देव अन्तको बली । आदाय परिघम् दीप्तम् अन्गदम् समभिद्रवत् ॥३॥

रथम् आदित्य सम्काशम् युक्तम् परम वाजिभिः । आस्थाय त्रिशिरा वीरो वालि पुत्रम् अथ अभ्ययात् ॥४॥

स त्रिभिर् देव दर्पघ्नैर् नैरृत इन्द्रैर् अभिद्रुतः । वृक्षम् उत्पाटयाम् आस महा विटपम् अन्गदः ॥५॥

देव अन्तकाय तम् वीरसःचिक्षेप सहसा अन्गदः । महा वृक्षम् महा शाखम् शक्रो दीप्तम् इव अशनिम् ॥६॥

त्रिशिरास् तम् प्रचिच्चेद शरैर् आशी विष उपमैः । स वृक्षम् कृत्तम् आलोक्य;उत्पपात ततो अन्गदः ॥७॥

स ववर्ष ततो वृक्षान् शिलासःच कपि कुन्जरः । तान् प्रचिच्चेद सम्क्रुद्धस् त्रिशिरा निशितैःशरैः ॥८॥

परिघ अग्रेण तान् वृक्षान् बभन्ज च सुर अन्तकः । त्रिशिरासःच अन्गदम् वीरम् अभिदुद्राव सायकैः ॥९॥

गजेन समभिद्रुत्य वालि पुत्रम् महा उदरः । जघान उरसि सम्क्रुद्धस् तोमरैर् वज्र सम्निभैः ॥१०॥

देव अन्तकसःच सम्क्रुद्धःपरिघेण तदा अन्गदम् । उपगम्य अभिहत्य आशु व्यपचक्राम वेगवान् ॥११॥

स त्रिभिर् नैरृत श्रेष्ठैर् युगपत् समभिद्रुतः । न विव्यथे महा तेजा वालि पुत्रःप्रतापवान् ॥१२॥

स वेगवान् महावेगम् कृत्वा परमदुर्जयः । तलेन भृशम् उत्पत्य जघान अस्य महा गजम् ॥१३॥

तस्य तेन प्रहारेण नागराजस्य सम्युगे । पेततुर् लोचने तस्य विननाद स वारणः ॥१४॥

विषाणम् च अस्य निष्कृष्य वालि पुत्रो महा बलः । देव अन्तकम् अभिद्रुत्य ताडयाम् आस सम्युगे ॥१५॥

स विह्वलित सर्व अन्गो वात उद्धत;इव द्रुमः । लाक्षा रस सवर्णम् च सुस्राव रुधिरम् मुखात् ॥१६॥

अथ आश्वास्य महा तेजाःकृच्च्राद् देव अन्तको बली । आविध्य परिघम् घोरम् आजघान तदा अन्गदम् ॥१७॥

परिघ अभिहतसःच अपि वानर इन्द्र आत्मजस् तदा । जानुभ्याम् पतितो भूमौ पुनर् एव उत्पपात ह ॥१८॥

तमुत्पतन्तम् त्रिशिरास् त्रिभिर् आशी विष उपमैः । घोरैर् हरि पतेःपुत्रम् ललाटे अभिजघान ह ॥१९॥

ततो अन्गदम् परिक्षिप्तम् त्रिभिर् नैरृत पुम्गवैः । हनूमान् अपि विज्नाय नीलसःच अपि प्रतस्थतुः ॥२०॥

ततसःचिक्षेप शैल अग्रम् नीलस् त्रिशिरसे तदा । तद् रावण सुतो धीमान् बिभेद निशितैःशरैः ॥२१॥

तद् बाण शत निर्भिन्नम् विदारित शिला तलम् । सविस्फुलिन्गम् सज्वालम् निपपात गिरेःशिरः ॥२२॥

स विजृम्भितम् आलोक्य हर्षाद् देव अन्तकस् तदा । परिघेण अभिदुद्राव मारुत आत्मजम् आहवे ॥२३॥

तम् आपतन्तम् उत्पत्य हनूमान् मारुत आत्मजः । आजघान तदा मूर्ध्नि वज्र वेगेन मुष्टिना ॥२४॥

शिरसि प्राहरद्वीरस्तदा वायुसुतो बली । नादेनाकम्पयच्चैव राक्षसान् स महाकै ॥२५॥

स मुष्टि निष्पिष्ट विकीर्ण मूर्धा । निर्वान्त दन्त अक्षि विलम्बि जिह्वः । देव अन्तको राक्षस राज सूनुर् । गत असुर् उर्व्याम् सहसा पपात ॥२६॥

तस्मिन् हते राक्षस योध मुख्ये । महा बले सम्यति देव शत्रौ । क्रुद्धस् त्रिमूर्धा निशित अग्रम् उग्रम् । ववर्ष नील उरसि बाण वर्षम् ॥२७॥

महोदरस्तु सम्क्रुद्धः कुञ्जरं पर्वतोपमम् । भूयः समधिरुह्यशु मन्दरं रश्मिमानिव ॥२८॥

ततो बाणमयं वर्षं नीलस्योपर्यपातयत् । गिरौ वर्षं तडिच्चक्रम् स गर्जन्निव तोयदः ॥२९॥

ततः शरौघैरभिवर्ष्यमाणो । विभिन्न गात्रःकपि सैन्य पालः । नीलो बभूव अथ विसृष्ट गात्रो । विष्टम्भितस् तेन महा बलेन ॥३०॥

ततस् तु नीलःप्रतिलभ्य सम्ज्नाम् । शैलम् समुत्पाट्य सवृक्ष षण्डम् । ततःसमुत्पत्य भृश उग्र वेगो । महा उदरम् तेन जघान मूर्ध्नि ॥३१॥

ततः स शैल अभिनिपात भग्नो । महा उदरस् तेन सह द्विपेन । विपोथितो भूमि तले गत असुः । पपात वर्ज अभिहतो यथा अद्रिः ॥३२॥

पितृव्यम् निहतम् दृष्ट्वा त्रिशिरासःचापम् आददे । हनूमन्तम् च सम्क्रुद्धो विव्याध निशितैःशरैः ॥३३॥

स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः । त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥३४॥

तद्व्यर्थम् शिखरं दृष्ट्वा द्रुमवर्षं तदा कपिः । विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति ॥३५॥

तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् । त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥३६॥

हनूमांस् तु समुत्पत्य हयांस् त्रिशिरसस् तदा । विददार नखैःक्रुद्धो गज इन्द्रम् मृग राड् इव ॥३७॥

अथ शक्तिम् समादाय काल रात्रिम् इव अन्तकः । चिक्षेप अनिल पुत्राय त्रिशिरा रावण आत्मजः ॥३८॥

दिवि क्षिप्ताम् इव उल्काम् ताम् शक्तिम् क्षिप्ताम् असम्गताम् । गृहीत्वा हरि शार्दूलो बभन्ज च ननाद च ॥३९॥

ताम् दृष्ट्वा घोर सम्काशाम् शक्तिम् भग्नाम् हनूमता । प्रहृष्टा वानर गणा विनेदुर् जलदा;इव ॥४०॥

ततःखड्गम् समुद्यम्य त्रिशिरा राक्षस उत्तमः । निचखान तदा रोषाद् वानर इन्द्रस्य वक्षसि ॥४१॥

खड्ग प्रहार अभिहतो हनूमान् मारुत आत्मजः । आजघान त्रिमूर्धानम् तलेन उरसि वीर्यवान् ॥४२॥

स तल भिहतस् तेन स्रस्त हस्त अम्बरो भुवि । निपपात महा तेजास् त्रिशिरास् त्यक्त चेतनः ॥४३॥

स तस्य पततःखड्गम् समाच्चिद्य महा कपिः । ननाद गिरि सम्काशस् त्रासयन् सर्व नैरृतान् ॥४४॥

अमृष्यमाणस् तम् घोषम् उत्पपात निशा चरः| उत्पत्य च हनूमन्तम् ताडयाम् आस मुष्टिना ॥४५॥

तेन मुष्टि प्रहारेण संचुकोप महा कपिः । कुपितसःच निजग्राह किरीटे राक्षस ऋषभम् ॥४६॥

स तस्य शीर्षाण्य् असिना शितेन । किरीट जुष्टानि सकुण्डलानि । क्रुद्धःप्रचिच्चेद सुतो अनिलस्य । त्वष्टुःसुतस्य इव शिरांसि शक्रः ॥४७॥

तान्यायत अक्षाण्य् अग सम्निभानि । प्रदीप्त वैश्वानर लोचनानि । पेतुःशिरांसि इन्द्र रिपोर् धरण्याम् । ज्योतीम्षि मुक्तानि यथा अर्क मार्गात् ॥४८॥

तस्मिन् हते देव रिपौ त्रिशीर्षे । हनूमत शक्र पराक्रमेण । नेदुःप्लवम्गाःप्रचचाल भूमी । रक्षांस्य् अथो दुद्रुविरे समन्तात् ॥४९॥

हतम् त्रिशिरसम् दृष्ट्वा तथैव च महा उदरम् । हतौ प्रेक्ष्य दुराधर्षौ देव अन्तक नर अन्तकौ ॥५०॥

चुकोप परम अमर्षी महा पार्श्वो महा बलः । जग्राह अर्चिष्मतीम् च अपि गदाम् सर्व आयसीम् शुभाम् ॥५१॥

हेम पट्ट परिक्षिप्ताम् मांस शोणित लेपनाम् । विराजमानाम् वपुषा शत्रु शोणित रन्जिताम् ॥५२॥

तेजसा सम्प्रदीप्त अग्राम् रक्त माल्य विभूषिताम् । ऐरावत महा पद्म सार्वभौम भय आवहाम् ॥५३॥

गदाम् आदाय सम्क्रुद्धो महा पार्श्वो महा बलः । हरीन् समभिदुद्राव युग अन्त अग्निर् इव ज्वलन् ॥५४॥

अथ ऋषयःसमुत्पत्य वानरो रवण अनुजम् । महा पार्श्वम् उपागम्य तस्थौ तस्य अग्रतो बली ॥५५॥

तम् पुरस्तात् स्थितम् दृष्ट्वा वानरम् पर्वत उपमम् । आजघान उरसि क्रुद्धो गदया वज्र कल्पया ॥५६॥

स तया अभिहतस् तेन गदया वानर ऋषभः । भिन्न वक्षाःसमाधूतःसुस्राव रुधिरम् बहु ॥५७॥

स सम्प्राप्य चिरात् सम्ज्नाम् ऋषभो वानर ऋषभः । क्रुद्धो विस्फुरमाण ओष्ठो महा पार्श्वम् उदैक्षत ॥५८॥

स वेगवान् वेगवदभ्युपेत्य । तं राक्षसम् वानरवीरमुख्य । संवर्त्य मुष्टिम् सहसा जघान् । बाह्वतरे शैलनिकाशरूपः ॥५९॥

स कृत्तमूलः सहसेव वृषः । क्षितौ पपात क्षतजोक्षिताङ्गह् । ताम् चास्य घोराम् यमदण्डकल्पाम् । गदां प्रगृह्याशु तदा ननाद ॥६०॥

मुहूर्तमासीत्स गतासुकल्पः । प्रत्यागाअत्मा सहसा सुरारिः । उत्पत्य संध्याभ्रसमानवर्ण । स्तं वारिराजात्मजमाजघान ॥६१॥

स मूर्चितो भूमितले पपात । मुहूर्तमुत्पत्य पुनः ससम्ज्ञः । तामेव तस्याद्रिवराद्रिकल्पाम् । गदाम् समाविध्य जघान सम्ख्ये ॥६२॥

सा तस्य रौद्रा समुपेत्य देहम् । रौद्रस्य देवाध्वरविप्रशत्रोः । बिभेद वक्षः क्षतजम् च भूरि । सुस्राव धात्वम्भ इवाद्रिराजः ॥६३॥

अभिदुद्राव वेगेन गदां तस्य महात्मनः । ताम् गृहीत्वा गदाम् भीमाम् आविध्य च पुनःपुनः ॥६४॥

मत्त अनीकम् महा पार्श्वम् जघान रण मूर्धनि । स स्वया गदया भिन्नो विकीर्ण दशन ईक्षणः । निपपात महा पार्श्वो वज्र आहत;इव अचलः ॥६५॥

विदीर्णनयने भूमौ गतस्त्त्वे गतायुषि । पतिते राक्षसे तस्मिन् विद्रुतं राक्षसम् बलम् ॥६६॥

तस्मिन् हते भ्रातरि रावणस्य । तन् नैरृतानाम् बलम् अर्णव आभम् । त्यक्त आयुधम् केवल जीवित अर्थम् । दुद्राव भिन्न अर्णव सम्निकाशम् ॥६७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥

Listen to the sarga
0:00