एवम् विलपमानस्य रावणस्य दुरात्मनः । श्रुत्वा शोक अभितप्तस्य त्रिशिरा वाक्यम् अब्रवीत् ॥१॥
एकोनसप्ततितमः सर्गः 6.69
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
एवम् एव महा वीर्यो हतो नस् तात मध्यमः । न तु सत् पुरुषा राजन् विलपन्ति यथा भवान् ॥२॥
नूनम् त्रिभुवनस्य अपि पर्याप्तस् त्वम् असि प्रभो| स कस्मात् प्राकृत;इव शोकस्य आत्मानम् ईदृशम् ॥३॥
ब्रह्म दत्ता अस्ति ते शक्तिः कवचः सायको धनुः| सहस्र खर सम्युक्तो रथो मेघ सम स्वनः ॥४॥
त्वया असकृद् विशस्तेण विशस्ता देव दानवाः| स सर्व आयुध सम्पन्नो राघवम् शास्तुम् अर्हसि ॥५॥
कामम् तिष्ठ महा राज निर्गमिष्यामि अहम् रणम्| उद्धरिष्यामि ते शत्रून् गरुडः पन्नगान् इह ॥६॥
शम्बरो देव राजेन नरको विष्णुना यथा| तथा अद्य शयिता रामो मया युधि निपातितः ॥७॥
श्रुत्वा त्रिशिरसो वाक्यम् रावणो राक्षस अधिपः| पुनर् जातम् इव आत्मानम् मन्यते काल चोदितः ॥८॥
श्रुत्वा त्रिशिरसो वाक्यम् देव अन्तक नर अन्तकौ| अतिकायसः च तेजस्वी बभूवुर् युद्ध हर्षिताः ॥९॥
ततो अहम् अहम् इति एवम् गर्जन्तो नैरृत ऋषभाः । रावणस्य सुता वीराः शक्र तुल्य पराक्रमाः ॥१०॥
अन्तरिक्ष चराः सर्वे सर्वे माया विशारदाः |१ सर्वे त्रिदश दर्पघ्नाः सर्वे च रण दुर्मदाः ॥११॥
सर्वे अस्त्र बल सम्पन्नाः सर्वे विस्तीर्ण कीर्तयः| सर्वे समरम् आसाद्य न श्रूयन्ते स्म निर्जिताः ॥१२॥
देवैरपि सगन्धर्वैः सकिम्नरमहोरगैः । सर्वे अस्त्र विदुषो वीराः सर्वे युद्ध विशारदाः ॥१३॥
सर्वे प्रवर जिज्नानाः सर्वे लब्ध वरास् तथा । स तैस् तथा भास्कर तुल्य वर्चसैः सुतैर् वृतः शत्रु बल प्रमर्दनैः । रराज राजा मघवान् यथा अमरैर् । वृतो महा दानव दर्प नाशनैः वृतो ॥१४॥
स पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः । आशीर्भिसः च प्रशस्ताभिः प्रेषयाम् आस सम्युगे ॥१५॥
युद्धोन्मत्तम् च मत्तं च भ्रातरौ च अपि रावणः । रक्षण अर्थम् कुमाराणाम् प्रेषयाम् आस सम्युगे ॥१६॥
ते अभिवाद्य महात्मानम् रावणम् रिपु रावणम् । कृत्वा प्रदक्षिणम् चैव महा कायाः प्रतस्थिरे ॥१७॥
सर्व ओषधीभिर् गन्धैसः च समालभ्य महा बलाः । निर्जग्मुर् नैरृत श्रेष्ठाः षड् एते युद्ध कान्क्षिणः ॥१८॥
त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । महोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ॥१९॥
ततः सुदर्शनम् नाम नील जीमूत सम्निभम् । ऐरावत कुले जातम् आरुरोह महा उदरः ॥२०॥
सर्व आयुध समायुक्तम् तूणीभिसः च स्वलम्कृतम् । रराज गजम् आस्थाय सविता इव अस्त मूर्धनि ॥२१॥
हय उत्तम समायुक्तम् सर्व आयुध समाकुलम् । आरुरोह रथ श्रेष्ठम् त्रिशिरा रावण आत्मजः ॥२२॥
त्रिशिरा रथम् आस्थाय विरराज धनुर् धरः । सविद्युद् उल्कः सज्वालः स इन्द्र चापिव अम्बुदः ॥२३॥
त्रिभिः किरीटैस् त्रिशिराः शुशुभे स रथ उत्तमे । हिमवान् इव शैल इन्द्रस् त्रिभिः कान्चन पर्वतैः ॥२४॥
अतिकायो अपि तेजस्वी राक्षस इन्द्र सुतस् तदा । आरुरोह रथ श्रेष्ठम् श्रेष्ठः सर्व धनुष्मताम् ॥२५॥
सुचक्र अक्षम् सुसम्युक्तम् सानुकर्षम् सकूबरम् । तूणी बाण आसनैर् दीप्तम् प्रास असि परिघ आकुलम् ॥२६॥
स कान्चन विचित्रेण किरीटेन विराजता । भूषणैसः च बभौ मेरुः प्रभाभिर् इव भास्वरः ॥२७॥
स रराज रथे तस्मिन् राज सूनुर् महा बलः । वृतो नैरृत शार्दूलैर् वज्र पाणिर् इव अमरैः ॥२८॥
हयम् उच्चैः श्रवः प्रख्यम् श्वेतम् कनक भूषणम् । मनो जवम् महा कायम् आरुरोह नर अन्तकः ॥२९॥
गृहीत्वा प्रासम् उक्ल आभम् विरराज नर अन्तकः । शक्तिम् आदाय तेजस्वी गुहः शत्रुष्व् इव आहवे ॥३०॥
देव अन्तकः समादाय परिघम् वज्र भूषणम् । परिगृह्य गिरिम् दोर्भ्याम् वपुर् विष्णोर् विडम्बयन् ॥३१॥
महा पार्श्वो महा तेजा गदाम् आदाय वीर्यवान् । विरराज गदा पाणिः कुबेर;इव सम्युगे ॥३२॥
ते प्रतस्थुर् महात्मानो बलैर् अप्रतिमैर् वृताः । तान् गजैसः च तुरम्गैसः च रथैसः च अम्बुद निस्वनैः ॥३३॥
अनुजग्मुर् महात्मानो राक्षसाः प्रवर आयुधाः । ते विरेजुर् महात्मानो कुमाराः सूर्य वर्चसः ॥३४॥
किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता;इव अम्बरे । प्रगृहीता बभौ तेषाम् चत्राणाम् आवलिः सिता ॥३५॥
शारद अभ्र प्रतीकाशाम् हंस आवलिर् इव अम्बरे । मरणम् वा अपि निश्चित्य शत्रूणाम् वा पराजयम् ॥३६॥
इति कृत्वा मतिम् वीरा निर्जग्मुः सम्युग अर्थिनः । जगर्जुसः च प्रणेदुसः च चिक्षिपुसः च अपि सायकान् ॥३७॥
जहृषुसः च महात्मानो निर्यान्तो युद्ध दुर्मदाः । क्ष्वेडित आस्फोट निनदैः संचचाल इव मेदिनी ॥३८॥
रक्षसाम् सिम्ह नादैसः च पुस्फोट इव तदा अम्बरम् । ते अभिनिष्क्रम्य मुदिता राक्षस इन्द्रा महा बलाः ॥३९॥
ददृशुर् वानर अनीकम् समुद्यत शिला नगम् । हरयो अपि महात्मानो ददृशुर् नैरृतम् बलम् ॥४०॥
हस्ति अश्व रथ सम्बाधम् किन्किणी शत नादितम् । नील जीमूत सम्काशम् समुद्यत महा आयुधम् ॥४१॥
दीप्त अनल रवि प्रख्यैर् नैरृतैः सर्वतो वृतम् । तद् दृष्ट्वा बलम् आयान्तम् लब्ध लक्ष्याः प्लवम् गमाः ॥४२॥
समुद्यत महा शैलाः सम्प्रणेदुर् मुहुर् मुहुः । अमृष्यमाणा रक्षांसि प्रतिनर्दन्त वान्राः ॥४३॥
ततः समुद्घुष्ट रवम् निशम्य । रक्षो गणा वानर यूथपानाम् । अमृष्यमाणाः पर हर्षम् उग्रम् । महा बला भीमतरम् विनेदुः ॥४४॥
ते राक्षस बलम् घोरम् प्रविश्य हरि यूथपाः । विचेरुर् उद्यतैः शैलैर् नगाः शिखरिणो यथा ॥४५॥
केचिद् आकाशम् आविश्य केचिद् उर्व्याम् प्लवम् गमाः । रक्षः सैन्येषु सम्क्रुद्धासः चेरुर् द्रुम शिला आयुधाः ॥४६॥
द्रुमांस्च विपुलस्कन्धान् गृह्य वानरपुम्गवाः । तद्युद्धमभवद्घोरं रक्षोवानरसम्कुलम् ॥४७॥
ते पादप शिला शैलैसः चक्रुर् वृष्टिम् अनुत्तमाम् । बाण ओघैर् वार्यमाणासः च हरयो भीम विक्रमाः ॥४८॥
सिम्ह नादान् विनेदुसः च रणे राक्षस वानराः । शिलाभिसः चूर्णयाम् आसुर् यातु धानान् प्लवम् गमाः ॥४९॥
निजघ्नुः सम्युगे क्रुद्धाः कवच आभरण आवृतान् । केचिद् रथ गतान् वीरान् गज वाजि गतान् अपि ॥५०॥
निजघ्नुः सहसा आप्लुत्य यातु धानान् प्लवम् गमाः । शैल शृन्ग निपातैसः च मुष्टिभिर् वान्त लोचनाः ॥५१॥
चेलुः पेतुसः च नेदुसः च तत्र राक्षस पुम्गवाः । राक्षसाश्च शरैस्तीक्ष्णैर्बभिदुः कपिकुञ्जरान् । शूलामुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः ॥५२॥
अन्योन्यम् पातयामासुः परस्परजयैषिण ॥५३॥
रिपुशोणितदिग्धाङ्गास्त्र वानरराक्षसाः । ततः शैलैसः च खड्गैसः च विसृष्टैर् हरि राक्षसैः ॥५४॥
मुहूर्तेन आवृता भूमिर् अभवत् शोणित आप्लुता । विकीर्ण पर्वत आकारै रक्षोभिर् अरि मर्दनैः ॥५५॥
आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः । आक्षिप्ताः क्षिप्यमाणासः च भग्न शूलासः च वानरैः ॥५६॥
पुनरङ्गैस्तदा चक्रुरासन्ना युद्धमद्भुतम् । वानरान् वानरैर् एव जग्नुस् ते रजनी चराः ॥५७॥
राक्षसान् राक्षसैर् एव जघ्नुस् ते वानरा अपि । आक्षिप्य च शिलास् तेषाम् निजघ्नू राक्षसा हरीन् ॥५८॥
तेषाम् च आच्चिद्य शस्त्राणि जघ्नू रक्षांसि वानराः । निर्जघ्नुः शैल शूल अस्त्रैर् विभिदुसः च परस्परम् ॥५९॥
सिम्ह नादान् विनेदुसः च रणे वानर राक्षसाः । चिन्न वर्म तनु त्राणा राक्षसा वानरैर् हताः ॥६०॥
रुधिरम् प्रस्रुतास् तत्र रस सारम् इव द्रुमाः । रथेन च रथम् च अपि वारणेन च वारणम् ॥६१॥
हयेन च हयम् केचिन् निजघ्नुर् वानरा रणे । क्षुरप्रैर् अर्ध चन्द्रैसः च भल्लैसः च निशितैः शरैः ॥६२॥
राक्षसा वानर इन्द्राणाम् चिच्चिदुः पादपान् शिलाः । विकीर्णैः पर्वत अग्रैसः च द्रुमैसः चिन्नैसः च सम्युगे ॥६३॥
हतैसः च कपि रक्षोभिर् दुर्गमा वसुधा अभवत् । ते वानरा गर्वितहृष्टचेष्टाः । सम्ग्राममासाद्य भयं विमुच्य । युद्धम् स्म सर्वे सह राक्षसै स्त्रै । र्नानायुधैश्चक्रुरदीनसत्त्वाः ॥६४॥
तस्मिन् प्रवृत्ते तुमुले विमर्दे । प्रहृष्यमाणेषु वली मुखेषु । निपात्यमानेषु च राक्षसेषु । महर्षयो देव गणासः च नेदुः ॥६५॥
ततो हयम् मारुत तुल्य वेगम् । अरुह्य शक्तिम् निशिताम् प्रगृह्य । नर अन्तको वानर राज सैन्यम् । महा अर्णवम् मीन;इव आविवेश ॥६६॥
स वानरान् सप्त शतानि वीरः । प्रासेन दीप्तेन विनिर्बिभेद । एकः क्षणेन इन्द्र रिपुर् महात्मा । जघान सैन्यम् हरि पुम्गवानाम् ॥६७॥
ददृशुसः च महात्मानम् हय पृष्ठे प्रतिष्ठितम् । चरन्तम् हरि सैन्येषु विद्या धर महर्षयः ॥६८॥
स तस्य ददृशे मार्गो मांस शोणित कर्दमः । पतितैः पर्वत आकारैर् वानरैर् अभिसम्वृतः ॥६९॥
यावद् विक्रमितुम् बुद्धिम् चक्रुः प्लवग पुम्गवाः । तावद् एतान् अतिक्रम्य निर्बिभेद नर अन्तकः ॥७०॥
ददाह हरि सैन्यानि वनानि इव विभावसुः । यावद् उत्पाटयाम् आसुर् वृक्षान् शैलान् वन ओकसः ॥७१॥
तावत् प्रासहताः पेतुर् वज्र कृत्ता;इव अचलाः । ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः ॥७२॥
दिक्षु सर्वासु बलवान् विचचार नर अन्तकः । प्रमृद्नन् सर्वतो युद्धे प्रावृट् काले यथा अनिलः ॥७३॥
न शेकुर् धावितुम् वीरा न स्थातुम् स्पन्दितुम् कुतः । उत्पतन्तम् स्थितम् यान्तम् सर्वान् विव्याध वीर्यवान् ॥७४॥
एकेन अन्तक कल्पेन प्रासेन आदित्य तेजसा । भिन्नानि हरि सैन्यानि निपेतुर् धरणी तले ॥७५॥
वज्र निष्पेष सदृशम् प्रासस्य अभिनिपातनम् । न शेकुर् वानराः सोढुम् ते विनेदुर् महा स्वनम् ॥७६॥
पतताम् हरि वीराणाम् रूपाणि प्रचकाशिरे । वज्र भिन्न अग्र कूटानाम् शैलानाम् पतताम् इव ॥७७॥
ये तु पूर्वम् महात्मानः कुम्भ कर्णेन पातिताः । ते अस्वस्था वानर श्रेष्ठाः सुग्रीवम् उपतस्थिरे ॥७८॥
प्रेक्षमाणः सुग्रीवो ददर्श हरि वाहिनीम् । नर अन्तक भय त्रस्ताम् विद्रवन्तीम् इतस् ततः ॥७९॥
विद्रुताम् वाहिनीम् दृष्ट्वा स ददर्श नर अन्तकम् । गृहीत प्रासम् आयान्तम् हय पृष्ठे प्रतिष्ठितम् ॥८०॥
दृष्ट्वोवाच महा तेजाः सुग्रीवो वानर अधिपः । कुमारम् अन्गदम् वीरम् शक्र तुल्य पराक्रमम् ॥८१॥
गच्च एनम् राक्षसम् वीर यो असौ तुरगम् आस्थितः । क्षोभयन्तम् हरि बलम् क्षिप्रम् प्राणैर् वियोजय ॥८२॥
स भर्तुर् वचनम् श्रुत्वा निष्पपात अन्गदस् तदा । अनीकान् मेघ सम्काशान् मेघ अनीकाद् इव अंशुमान् ॥८३॥
शैल सम्घत सम्काशो हरीणाम् उत्तमो अन्गदः । रराज अन्गद सम्नद्धः सधातुर् इव पर्वतः ॥८४॥
निरायुधो महा तेजाः केवलम् नख दम्ष्ट्रवान् । नर अन्तकम् अभिक्रम्य वालि पुत्रो अब्रवीद् वचः ॥८५॥
तिष्ठ किम् प्राकृतैर् एभिर् हरिभिस् त्वम् करिष्यसि । अस्मिन् वज्र सम स्पर्शे प्रासम् क्षिप मम उरसि ॥८६॥
अन्गदस्य वचः श्रुत्वा प्रचुक्रोध नर अन्तकः । संदश्य दशनैर् ओष्ठम् निश्वस्य च भुजम्गवत् ॥८७॥
अभिगम्याङ्गदं क्रुद्धो वालिपुत्रम् नरान्तकः । स प्रासमाविध्य तदाङ्गदाय । स प्रासम् आविध्य तदा अन्गदाय| समुज्ज्वलन्तम् सहसा उत्ससर्ज । स वालि पुत्रोर् असि वज्र कल्पे । बभूव भग्नो न्यपतच् च ॥८८॥
तम् प्रासम् आलोक्य तदा विभग्नम् । सुपर्ण कृत्त उरग भोग कल्पम् । तलम् समुद्यम्य स वालि पुत्रस् । स्तुरम्गमस्य अभिजघान मूर्ध्नि ॥८९॥
निभग्न पादः स्फुटित अक्षि तारो । निष्क्रान्त जिह्वो अचल सम्निकाशः । स तस्य वाजी निपपात भूमौ । तल प्रहारेण विकीर्ण मूर्धा ॥९०॥
नर अन्तकः क्रोध वशम् जगाम । हतम् तुरगम् पतितम् निरीक्ष्य । स मुष्टिम् उद्यम्य महा प्रभावो । जघान शीर्षे युधि वालि पुत्रम् ॥९१॥
अथ अन्गदो मुष्टि विभिन्न मूर्धा| सुस्राव तीव्रम् रुधिरम् भृश उष्णम् । मुहुर् विजज्वाल मुमोह च अपि । सम्ज्नाम् समासाद्य विसिष्मिये च ॥९२॥
अथ अन्गदो वज्र समान वेगम् । सम्वर्त्य मुष्टिम् गिरि शृन्ग कल्पम् । निपातयाम् आस तदा महात्मा । नर अन्तकस्य उरसि वालि पुत्रः ॥९३॥
स मुष्टि निष्पिष्ट विभिन्न वक्षा । ज्वालाम् वमन् शोणित दिग्ध गात्रः । नर अन्तको भूमि तले पपात । यथा अचलो वज्र निपात भग्नः ॥९४॥
थदान्तरिक्षे त्रिदश उत्तमानाम् । वन ओकसाम् चैव महा प्रणादः । बभूव तस्मिन् निहते अग्र्य वीरे । नर अन्तके वालि सुतेन सम्ख्ये ॥९५॥
अथ अन्गदो राम मनः प्रहर्षणम् । सुदुष्करम् तम् कृतवान् हि विक्रमम् । विसिष्मिये सो अपि अतिवीर्य विक्रमः । पुनसः च युद्धे स बभूव हर्षितः ॥९६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकांडे एकोनसप्ततितमः सर्गः ॥