रामायणम्

अष्टषष्टितमः सर्गः 6.68

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

कुम्भकर्णम् हतम् दृष्ट्वा राघवेण महात्मना । राक्षसा राक्षस इन्द्राय रावणाय न्यवेदयन् ॥१॥

राजन् स कालसंकाशः संयुक्तः कालकर्मणा । विद्राव्य वानरीम् सेनाम् भक्षयित्वा च वानरान् ॥२॥

प्रतिपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा । कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥३॥

निकृत्तनासाकर्णेन विक्षरद्रुधिरेण च| रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥४॥

कुम्भकर्णस्तव भ्राता काकुत्थ्सशरपीडितः । लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥५॥

श्रुत्वा विनिहतम् सम्ख्ये कुम्भ कर्णम् महा बलम् । रावणः शोक सम्तप्तो मुमोह च पपात च ॥६॥

पितृव्यम् निहतम् श्रुत्वा देव अन्तक नर अन्तकौ । त्रिशिरासः च अतिकायसः च रुरुदुः शोक पीडिताः ॥७॥

भ्रातरम् निहतम् श्रुत्वा रामेण अक्लिष्ट कर्मणा । महा उदर महा पार्श्वौ शोक आक्रान्तौ बभूवतुः ॥८॥

ततः कृच्च्रात् समासाद्य सम्ज्ञाम् राक्षस पुम्गवः । कुम्भ कर्ण वधाद् दीनो विललाप स रावणः ॥९॥

हा वीर रिपु दर्पघ्न कुम्भ कर्ण महा बल । शत्रु सैन्यम् प्रताप्य एकः क्व माम् सम्त्यज्य गच्चसि ॥१०॥

मम शल्यमनुद्धृत्य बान्धवानाम् महाबल । शत्रुसैन्यम् प्रताप्यैकः क्व माम् सम्त्यज्य गच्छसि ॥११॥

इदानीम् खल्व् अहम् न अस्मि यस्य मे पतितो भुजः । दक्षिणो यम् समाश्रित्य न बिभेमि सुर असुरान् ॥१२॥

कथम् एवम् विधो वीरो देव दानव दर्पहा । काल अग्नि प्रतिमो हि अद्य राघवेण रणे हतः ॥१३॥

यस्य ते वज्र निष्पेषो न कुर्याद् व्यसनम् सदा । स कथम् राम बाण आर्तः प्रसुप्तो असि मही तले ॥१४॥

एते देव गणाः सार्धम् ऋषिभिर् गगने स्थिताः । निहतम् त्वाम् रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥१५॥

ध्रुवम् अद्य एव सम्हृष्टा लब्ध लक्ष्याः प्लवम् गमाः । आरोक्ष्यन्ति इह दुर्गाणि लन्का द्वाराणि सर्वशः ॥१६॥

राज्येन न अस्ति मे कार्यम् किम् करिष्यामि सीतया । कुम्भ कर्ण विहीनस्य जीविते न अस्ति मे रतिः ॥१७॥

यदि अहम् भ्रातृ हन्तारम् न हन्मि युधि राघवम् । ननु मे मरणम् श्रेयो न च इदम् व्यर्थ जीवितम् ॥१८॥

अद्य एव तम् गमिष्यामि देशम् यत्र अनुजो मम । न हि भ्रातृऋन् समुत्सृज्य क्षणम् जीवितुम् उत्सहे ॥१९॥

देवा हि माम् हसिष्यन्ति दृष्ट्वा पूर्व अपकारिणम् । कथम् इन्द्रम् जयिष्यामि कुम्भ कर्ण हते त्वयि ॥२०॥

तद् इदम् माम् अनुप्राप्तम् विभीषण वचः शुभम् । यद् अज्ञानान् मया तस्य न गृहीतम् महात्मनः ॥२१॥

विभीषण वचो यावत् कुम्भ कर्ण प्रहस्तयोः । विनाशो अयम् समुत्पन्नो माम् व्रीडयति दारुणः ॥२२॥

तस्य अयम् कर्मणः प्रातो विपाको मम शोकदः । यन् मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥२३॥

इति बहु विधम् आकुल अन्तर् आत्मा । कृपणम् अतीव विलप्य कुम्भ कर्णम् । न्यपतद् अथ दश आननो भृश । स्तमनुजम् इन्द्र रिपुम् हतम् विदित्वा ॥२४॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः ॥

Listen to the sarga
0:00