ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा । नैष्ठिकीं बुद्धिमास्थाय सर्वे सम्ग्रामकांक्षिणः ॥१॥
सप्तषष्टितमः सर्गः 6.67
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
समुदीरितवीर्यास्ते समारोपितविक्रमाः । पर्यवस्थापिता वाक्यैरङ्गदेन बकूतसा ॥२॥
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः । चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥३॥
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च । वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन् ॥४॥
कुम्भकर्णः सम्क्रुद्धो गदामुद्यम्य वीर्यवान् । धर्षयन् स महाकायः समन्ताद्व्यक्षिपद्रिपून् ॥५॥
शतानि सप्त चाष्टौ च सहस्राणि च वानराः । प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन ताडिताः ॥६॥
षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां खादन्वि परिधावति ॥७॥
भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव । कृच्छ्रेण च समाश्वस्ताः सम्गम्य च ततस्ततः ॥८॥
वृक्षाद्रिहस्ता हरयस्तस्थुः सम्ग्राममूर्धनि । ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः ॥९॥
दुद्राव गिरिशृङ्गाभम् विलम्ब इव तोयदः । तं समुत्पत्य चिक्षेप कुम्भकर्णाय वानरः ॥१०॥
तमप्राप्य महाकायम् तस्य सैन्येऽपतत्ततः । ममर्दाश्वान् गजांश्चापि रथांश्चापि नगोत्तमः ॥११॥
तानि चान्यानि रक्षांसि एवम् चान्यद्गिरेः शिरः । तच्छएलवेगाभिहतं हताश्वं हतसारथि ॥१२॥
रक्षसाम् रुधिरक्लिन्नम् बभूवायोधनम् महत् । रथिनो वानरेन्द्राणाम् शरैः कालान्तकोपमैः ॥१३॥
शिरांसि नर्दताम् जह्रुः सहसा भीमनिःस्वनाः । वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ॥१४॥
रथानश्वान् गजानुष्ट्रान्राक्षसानभ्यसूदयन् । हनूमान् शैलशृङ्गाणि वृक्षांश्च विविधान् ध्रुमान् ॥१५॥
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः । तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह ॥१६॥
बभञ्ज वृक्षवर्षम् च कुम्भकर्णो महाबलः । ततो हरीणां तदनीकमुग्रं । दुद्राव शूलं निशितं प्रगृह्य । तस्थौ ततोऽस्यापततः पुरस्तान् । न्महीधराग्रम् हनुमान् प्रगृह्य ॥१७॥
स कुम्भकर्णम् कुपितो जघान । वेगेन शैलोत्तमभीमकायम् । स चुक्षुभे तेन तदाभिबूतो । मेदार्द्रगात्रो रुधिरावसिक्तः ॥१८॥
स शूलमाविध्य तडित्प्रकाशं । गिरिर्यथा प्रज्वलिताग्रशृङ्गम् । बाह्वन्तरे मारुति माजघान । गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ॥१९॥
स शूलनिर्भिन्न महाभुजान्तरः । प्रविह्वलः शोणितमुद्वमन्मुखात् । ननाद भीमं हनुमान् महाहवे । युगान्तमेघस्तनितस्वनोपमम् ॥२०॥
ततो विनेदुः सहसा प्रहृष्टा । रक्षोगणास्तं व्यथितं समीक्ष्य । प्लवम्गमास्तु व्यथिता भयार्ताः । प्रदुद्रुवुः सम्यति कुम्भकर्णात् ॥२१॥
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैलाग्रम् कुम्भकर्णाय धीमते ॥२२॥
तदापतन्तं सम्प्रेक्ष्ये मुष्टिनाभिजघान ह । मुष्टिप्रहाराभिहतम् तच्छैलाग्रम् व्यशीर्यत ॥२३॥
सविस्फुलिम्गम् सज्वालं निपपात महीतले । ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ॥२४॥
पञ्च वानर शार्दूलाः कुम्भकर्णमुपाद्रवन् । शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ॥२५॥
कुम्भकर्णं महाकाम् निजघ्नुः सर्वतो युधि । स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ॥२६॥
ऋषभम् तु महावेगं बाहुभ्यां परिषस्वजे । कुम्भकर्णभुजाभ्याम् तु पीडितो वानरर्षभः ॥२७॥
निपपातर्षभो भीमः प्रमुखागतशोणितः । मुष्टिना शरभम् हत्वा जानुना नीलमाहवे ॥२८॥
आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा । पादेनाभ्यहनत्कृद्ध स्तरसा गन्धमादनम् ॥२९॥
दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः । निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥३०॥
तेषु वानरमुख्येषु पतितेषु महात्मसु । वानराणाम् सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥३१॥
तम् शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः । समारुह्य समुत्पत्य ददंशुश्च महाबलाः ॥३२॥
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा । कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥३३॥
स वानरसहस्त्रैस्तु विचितः पर्वतोपमः । रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥३४॥
बाहुभ्याम् वानरान् सर्वान् प्रगृह्य स महाबलः । भक्षयामास सम्क्रुद्धो गरुडः पन्नगानिव ॥३५॥
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे । नासापुटाभ्यां निर्जग्मुः कर्णाभ्याम् चैव वानराः ॥३६॥
भक्षयन् भृशसम्क्रुद्धो हरीन् पर्वतसंनिभः । बभञ्ज वानरान् सर्वान् सम्क्रुद्धो राक्षसोत्तमः ॥३७॥
मांसशोणितसम्क्लेदां कुर्वन् भूमिम् कुर्वन्स राक्षसः । चचार हरिसैन्येषु कालाग्निरिव मूर्छितः ॥३८॥
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः । शूलहस्तो बभौ कुम्भकर्णो महाबलः ॥३९॥
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो ददाह सः ॥४०॥
ततस्ते वध्यमानास्तु हतयूथा विनायकाः । वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥४१॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः । राघवम् शरणम् जग्मुर्व्यथिताः खिन्नचेतसः ॥४२॥
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तात्मजात्मजः । अभ्यधावत वेगेन कुम्भकर्णम् महाहवे ॥४३॥
शैलशृङ्गं महद्गृह्य विनदन् स मुहुर्मुहुः । त्रासयन् राक्षसान् सर्वा कुम्भकर्णपदानुगान् ॥४४॥
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । स तेनाभिहतो मूर्ध्नि शैलेनेन्द्ररिपुस्तदा ॥४५॥
कुम्भकर्णः प्रजज्वाल क्रोधेन महता तदा । सोऽभ्यधावत वेगेन वालिपुत्रममर्षणम् ॥४६॥
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान् । शूलम् ससर्ज वै रोषादङ्गदे तु महाबलः ॥४७॥
त मापतन्तम् बुद्ध्वा तु युद्धमार्गविशारदः । लाघवान्मोचयामास बलवान् वानरर्षभः ॥४८॥
उत्पत्य चैनम् तरसा तलेनोरस्यताडयत् । स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः ॥४९॥
स लब्धसम्ज्ञोऽतिबलो मुष्टिम् सम्गृइह्य राक्षसः । अपहासेन चिक्षेप विसम्ज्ञः स पपात ह ॥५०॥
तस्मिन् प्लवगशार्दूले विसम्ज्ञे पतिते भुवि । तचुछूलम् समुपादाय सुग्रीवमभिदुद्रुवे ॥५१॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् । उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥५२॥
स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥५३॥
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवंगमम् । तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः ॥५४॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन् । कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥५५॥
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमम् यशः ॥५६॥
त्यज तद्वानरानीकं प्राकृतैः किम् करिष्यसि । सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस ॥५७॥
तद्वाक्यम् हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥५८॥
प्रजापतेस्तु पौत्रस्त्वम् तथैवर्क्षरजःसुतः । धृतिपौरुषसम्पन्नः कस्माद्गर्जसि वानर ॥५९॥
स कुम्भकर्णस्य वचो निशम्य । व्याविध्य शैलम् सहसा मुमोच । तेनाजघानोरसि कुम्भकर्णं । शैलेन वज्राशनिसंनिभेन ॥६०॥
तच्छैलशृङ्गं सहसा विकीर्णं । भुजान्तरे तस्य तदा विशाले । ततो विषेदुः सहसा प्लवम्गा । रक्षोगणाश्चापि मुदा विनेदुः ॥६१॥
स शैलशृङ्गाभिहतश् चुकोप । ननाद कोपाच्च विवृत्य वक्त्रम् । व्याविध्य शूलम् च तडित्प्रकाशं । चिक्षेप हर्यृक्षपतेर्वधाय ॥६२॥
तत्कुम्भकर्णस्य भुजप्रविद्धं । शूलम् शितम् काञ्चन दामजुष्टम् । क्षिप्रम् समुत्पत्य निगृह्य दोर्भ्यां । बभञ्ज वेगेन सुतोऽनिलस्य ॥६३॥
कृतं भारसहस्रस्य शूलम् कालायसं महत् । बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः ॥६४॥
शूलम् भग्नम् हनुमता दृष्ट्वा वानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥६५॥
बभूवाथ परित्रस्तो राक्षसो विमुखोऽभवत् । सिम्हनादम् च ते चक्रुः प्रहृष्टा वनगोचराः ॥६६॥
मारुतिं पूजयांचक्रुर्दृष्ट्वा शूलम् तथागतम् । स तत्तदा भग्नमवेक्ष्य शूलं । चुकोप रक्षोऽधिपतिर्महात्मा । उत्पाट्य लङ्कामलयात्स शृङ्गं । जघान सुग्रीवमुपेत्य तेन ॥६७॥
स शैलशृङ्गाभिहतो विसम्ज्ञः । पपात भूमौ युधि वानरेन्द्रः । तं प्रेक्ष्य भूमौ पतितम् विसम्ज्ञं । नेदुः प्रहृष्टा युधि यातुधानाः ॥६८॥
तमभ्युपेत्याद्भुतघोरवीर्यं । स कुम्भकर्णो युधि वानरेन्द्रम् । जहार सुग्रीवमभिप्रगृह्य । यथानिलो मेघमतिप्रचण्डः ॥६९॥
स तं महामेघनिकाशरूपम् । उत्पाट्य गच्छन्युधि कुम्भकर्णः । रराज मेरुप्रतिमानरूपो । मेरुर्यथात्युच्छ्रितघोरशृङ्गः ॥७०॥
ततः समुत्पाट्य जगाम वीरः । संस्तूयमानो युधि राक्षसेन्द्रैः । शृण्वन्निनादम् त्रिदशालयानां । प्लवम्गराजग्रहविस्मितानाम् ॥७१॥
ततस्तमादाय तदा स मेने । हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः । अस्मिन्हृते सर्वमिदम् हृतं स्यात् । सराघवम् सैन्यमितीन्द्रशत्रुः ॥७२॥
विद्रुताम् वाहिनीम् दृष्ट्वा वानराणां ततस्ततः । कुम्भकर्णेन सुग्रीवम् गृहीतं चापि वानरम् ॥७३॥
हनूमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवम् गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥७४॥
यद्वै न्याय्यं मया कर्तुम् तत्करिष्यामि सर्वथा । भूत्वा पर्वतसम्काशो नाशयिष्यामि राक्षसं ॥७५॥
मया हते सम्यति कुम्भकर्णे । महाबले मुष्टिविशीर्णदेहे । विमोचिते वानरपार्थिवे च । भवन्तु हृष्टाः प्रवगाः समग्राः ॥७६॥
अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः । गृहीतोऽयम् यदि भवेत्त्रिदशैः सासुरोरगैः ॥७७॥
मन्ये न तावदात्मानं बुध्यते वानराधिपः । शैलप्रहाराभिहतः कुम्भकर्णेन सम्युगे ॥७८॥
अयं मुहूर्तात्सुग्रीवो लब्धसम्ज्ञो महाहवे । आत्मनो वानराणाम् च यत्पथ्यं तत्करिष्यति ॥७९॥
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः । अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥८०॥
तस्मान्मुहूर्तम् काम्क्षिष्ये विक्रमं पार्थिवस्य नः । भिन्नम् च वानरानीकं तावदाश्वासयाम्यहम् ॥८१॥
इत्येवम् चिन्तयित्वा तु हनूमान्मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ॥८२॥
स कुम्भकर्णोऽथ विवेश लङ्कां । स्फुरन्तमादाय महाहरिम् तम् । विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥८३॥
लाजगन्धोदवर्षैस्तु सेव्यमानः शनैः शनैः । राजवीथ्यास्तु शीतत्वात्सम्ज्ञाम् प्राप महाबलः ॥८४॥
ततः स सम्ज्ञामुपलभ्य कृच्छ्रा । द्बलीयसस्तस्य भुजान्तरस्थः । अवेक्षमाणः पुरराजमार्गं । विचिन्तयामास मुहुर्महात्मा ॥८५॥
एवम् गृहीतेन कथं नु नाम । शक्यं मया सम्प्रति कर्तुमद्य । तथा करिष्यामि यथा हरीणां । भविष्यतीष्टम् च हितं च कार्यम् ॥८६॥
ततः कराग्रैः सहसा समेत्य । राजा हरीणा ममरेन्द्रशत्रोः । नखैश्च कर्णौ दशनैश्च नासां । ददंश पादैर्विददार पर्श्वौ ॥८७॥
स कुम्भकर्णौ हृतकर्णनासो । विदारितस्तेन रदैर्नखैश्च । रोषाभिभूतः क्षतजार्द्रगारः । सुग्रीवमाविध्य पिपेष भूमौ ॥८८॥
स भूतले भीमबलाभिपिष्टः । सुरारिभिस्तैरभिहन्यमानः । जगाम खम् कन्दुकवज्जवेन । पुनश्च रामेण समाजगाम ॥८९॥
कर्णनासाविहीनस्य कुम्भकर्णो महाबलः । रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव ॥९०॥
शोणितार्द्रो महाकायो राक्षसो भीमदर्शनः । अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः ॥९१॥
नीलाञ्जनचयप्रख्याः ससंध्य इव तोयदः । युद्धायाभिमुखो भीमो मनश्चक्रे निशाचरः ॥९२॥
गते च तस्मिन् सुरराजशत्रुह् । क्रोधात्प्रदुद्राव रणाय भूयः । अनायुधोऽस्मीति विचिन्त्य रौद्रो । घोरम् तदा मुद्गरमाससाद ॥९३॥
ततः स पुर्याः सहसा महात्मा । निष्क्रम्य तद्वानरसैन्यमुग्रम् । बभक्ष रक्षो युधि कुम्भकर्णः । प्रजा युगान्ताग्निरिव प्रदीप्तः ॥९४॥
बुभुक्षितः शोणितमांसगृध्नुः । प्रविश्य तद्वानरसैन्यमुग्रम् । चखाद रक्षांसि हरीन्पिशाचान् । ऋक्षांश्च मोहाद्युधि कुम्भकर्णः । यथैव मृत्युर्हरते युगान्ते । स भक्षयामास हरींश्च मुख्यान् ॥९५॥
एकम् द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः । समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥९६॥
सम्प्रस्रवंस्तदा मेदः शोणित च महाबलः । वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ॥९७॥
ते भक्ष्यमाणा हरयो रामम् जग्मुस्तदा गतिम् । कुम्भकर्णो भृशम् क्रुद्धः कपीन् खादन् प्रधावति ॥९८॥
शतानि सप्त चाष्टौ च विंशत्त्रिंशत्तथैव च । सम्परिष्वज्य बहुभ्याम् खादन्विपरिधावति ॥९९॥
मेदोवसाशोणितदिग्धगात्रः । कर्णावसक्तग्रथितान्त्रमालः । ववर्षशूलानि सुतीक्षणदंष्ट्रः । कालो युगान्तस्थ इव प्रवृद्धः ॥१००॥
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः । चकार लक्ष्मणः क्रुद्धो युद्धम् परपुरम्जयः ॥१०१॥
स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् । निचखानाददे चान्यान्विससर्ज च लक्ष्मणः ॥१०२॥
पीड्यमानस्तदस्त्रम् तु विशेषम् ततस राक्षसः । ततश्चुकोप बलवान् सुमित्रानंदवर्धनः ॥१०३॥
अथस्य कवचम् शुभ्रम् जामुबूनदमयम् शुभम् । प्रच्छादयामास शरैः संध्याभ्रमिव मारुतः ॥१०४॥
नीलाञ्जनचयप्रख्याः शैरैः काञ्चनभूषणैः । आपीड्यमानः शुशुभे मेघैः सूर्य इवांशुमान् ॥१०५॥
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । सावज्ञ्मेव प्रोवाच वाक्यम् मेघौघनिःस्वनः ॥१०६॥
अन्तकस्याप्यकष्टेन युधि जेतारमाहवे । युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥१०७॥
प्रगृहीतायुधस्येह मृत्योरिव महामृधे । तिष्ठन्नप्रग्रतः पूज्यः किमु युद्धप्रदायकः ॥१०८॥
ऐरावतम् समारूडो वृतः सर्वामरैह् प्रभुः । नैव शक्रोऽपि समरे स्थित पूर्वः कदाचन ॥१०९॥
अद्य त्वयाहम् सौमित्रे बलेनापि पराक्रमैः । तोषितो गन्तुमिच्छामि त्यामनुज्ञाप्य राघवम् ॥११०॥
यत्तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया । राममेवैकमिच्छमि हन्तुम् यस्मिन् हते हतम् ॥१११॥
रामे मयात्र निहते येऽन्ये स्थास्यन्ति संयुगे । तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥११२॥
इत्युक्तवाक्यम् तद्रक्षः प्रोवाच स्तुतिसंहितम् । मृधे घोरतरं वाक्यं सौमित्रिः प्रहसन्निव ॥११३॥
यस्त्वं शक्रादिभिर्वीरैरसह्यः प्राप्य पौरुषम् । तत्सत्यम् नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥११४॥
एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः । इति श्रुत्वा ह्यनादृत्य लक्ष्मणम् स निशाचरः ॥११५॥
अतिक्रम्य च सौमित्रिम् कुम्भकर्णो महाबलः । राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥११६॥
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् । कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ॥११७॥
तस्य रामेण विद्धस्य सहसाभिप्रधावतः । अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥११८॥
रामस्त्रविद्धो घोरम् वै नर्दन् राक्षसपुंगनः । अभ्यधावत तम् क्रुद्धो हरीन् विद्रावयन् रणे ॥११९॥
तस्योरसि निमग्नाश्च शरा बर्हिणवाससः । हस्ताच्चास्य परिभ्रष्टा गदा चोर्व्याम् पपात ह ॥१२०॥
आयुधानि च सर्वाणि समकीर्यन्त भूतले । स निरायुधमात्मानम् यदा मेने महाबलः ॥१२१॥
मुष्टिभ्याम् च कराभ्याम् च चकार कदनम् महत् । स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ॥१२२॥
रुधिरम् परिसुस्राव गिरिः प्रस्रावणम् यथा । स तीव्रेण च कोपेन रुधिरेण च मूर्छितः । वानरान्राक्षसानृक्षान् खादन् स परिधावति ॥१२३॥
अथ शृङ्गम् समाविध्य भीमम् भीमपराक्रमः । चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥१२४॥
अप्राप्तमन्तरा रामः सप्तभीस्तमजिह्मगैः । चिच्छेद गिरिशृङ्गम् तम् पुनः संधाय कार्मुकम् ॥१२५॥
ततस्तु रामो धर्मात्मा तस्य शृङ्गम् महत्तदा ॥१२६॥
शरैः काञ्चनचित्राङ्गै श्चिच्छेद भरतग्रज । तन्मेरुशिखराकारम् द्योतमानमिव श्रिया ॥१२७॥
द्वे शते वानराणाम् च पतमानमपातयत् । तस्मिन् काले स धर्मात्मा लक्ष्मणो राममब्रवीत् ॥१२८॥
कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् । नैवायम् वानरान्राजन्न विजानाति राक्षसान् ॥१२९॥
मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति । साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः ॥१३०॥
यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः । अद्ययं दुर्मतिः काले गुरुभारप्रपीडितः ॥१३१॥
प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् । तस्य तद्वचनम् श्रुत्वा राजपुत्रस्य धीमतः ॥१३२॥
ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवम्गमाः । कुम्भकर्णस्तु सम्क्रुद्धः समारूढः प्लवम्गमैः ॥१३३॥
व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् । तान्दृष्ट्वा निर्धूतान्रामो रुष्टोऽयमिति राक्षसः ॥१३४॥
समुत्पपात वेगेन धनुरुत्तममाददे । क्रोधरक्तेक्षणो वीरो निर्दहन्निव चक्षुषा ॥१३५॥
राघवो राक्षसम् रोषादभिदुद्राव वेगितः । यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ॥१३६॥
स चापमादाय भुजङ्गकल्पं । दृढज्यमुग्रम् तपनीयचित्रम् । हरीन्समाश्वास्य समुत्पपात । रामो निबद्धोत्तमतूणबाणः ॥१३७॥
स वानरगणैस्तैस्तु वृतः परमदुर्जयः । लक्ष्मणानुचरो रामः सम्प्रतस्थे महाबलः ॥१३८॥
स ददर्श महात्मानम् किरीटिनमरिन्दमम् । शोणितावृतरक्ताक्षम् कुम्भकर्णं महाबलम् ॥१३९॥
सर्वान् समभिधावन्तम् यथा रुष्टम् दिशागजम् । मार्गमाणम् हरीन् क्रुद्धं राक्षसैः परिवारितम् ॥१४०॥
विन्ध्यमन्दरसम्काशम् काञ्चनाङ्गदभूषणम् । स्रवन्तम् रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ॥१४१॥
जिह्वया परिलिह्यन्तम् सृक्किणी शोणितोक्षितम् । मृद्नन्तम् वानरानीकम् कालान्तकयमोपमम् ॥१४२॥
तम् दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं । विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥१४३॥
स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः । अमृष्यमाणस्तम् घोषमभिदुद्राव राघवम् ॥१४४॥
ततस्तु वातोद्धतमेघकल्पं । भुजम्गराजोत्तमभोगबाहुम् । तमापतन्तम् धरणीधराभम् । उवाच रामो युधि कुम्भकर्णम् ॥१४५॥
आगच्छ रक्षोऽधिपमा विषादम् । अवस्थितोऽहं प्रगृहीतचापः । अवेहि माम् राक्षसवंशवाशनम् । अयं मुहूर्ताद्भविता विचेताः ॥१४६॥
रामोऽयमिति विज्ञाय जहास विकृतस्वनम् । अभ्यधावत सम्क्रुद्धो हरीन्विद्रावयन् रणे ॥१४७॥
दारयन्निव सर्वेषां हृदयानि वनौकसाम् । प्रहस्य विकृतं भीमम् स मेघस्वनितोपमम् ॥१४८॥
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् । नाहम्न् विराधो विज्ञेयो न कबन्धः खरो न च । न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥१४९॥
पश्य मे मुद्गरम् भीमम् सर्वकालायसं महत् । अनेन निर्जिता देवा दानवाश्च मया पुरा ॥१५०॥
विकर्णनास इति मां नावज्ञातुम् त्वमर्हसि । स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात् ॥१५१॥
दर्शयेक्ष्वाकुशार्दूल वीर्यम् गात्रेषु मे लघु । ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥१५२॥
स कुम्भकर्णस्य वचो निशम्य । रामः सुपुङ्खान्विससर्ज बाणान् । तैराहतो वज्रसमप्रवेगैर् । न चुक्षुभे न व्यथते सुराइः ॥१५३॥
यैः सायकैः सालवरा निकृत्ता । वाली हतो वानरपुङ्गवश् च । ते कुम्भकर्णस्य तदा शरीरं । वज्रोपमा न व्यथयां प्रचक्रुः ॥१५४॥
स वारिधारा इव सायकांस्तान् । पिबन् शरीरेण महेन्द्रशत्रुः । जघान रामस्य शरप्रवेगं । व्याविध्य तं मुद्गरमुग्रवेगम् ॥१५५॥
ततस्तु रक्षः क्षतजानुलिप्तं । वित्रासनं देवमहाचमूनाम् । व्याविध्य तं मुद्गरमुग्रवेगं । विद्रावयामास चमूं हरीणाम् ॥१५६॥
वायव्यमादाय ततो वरास्त्रं । रामः प्रचिक्षेप निशाचराय । समुद्गरम् तेन जहार बाहुं । स कृत्तबाहुस्तुमुलं ननाद ॥१५७॥
स तस्य बाहुर्गिरिशृङ्गकल्पः । समुद्गरो राघवबाणकृत्तः । पपात तस्मिन् हरिराजसैन्ये । जघान ताम् वानरवाहिनीं च ॥१५८॥
ते वानरा भग्नहतावशेषाः । पर्यन्तमाश्रित्य तदा विषण्णाः । प्रपिडिताङ्गा ददृशुः सुघोरं । नरेन्द्ररक्षोऽधिपसंनिपातम् ॥१५९॥
स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर् । र्महासिकृत्ताग्र इवाचलेन्द्रः । उत्पाटयामास करेण वृक्षं । ततोऽभिदुद्राव रणे नरेन्द्रम् ॥१६०॥
स तस्य बाहुम् सह सालवृक्षं । समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जहार रामो । बाणेन जाम्बूनदचित्रितेन ॥१६१॥
स कुम्भकर्णस्य भुजो निकृत्तः । पपात भूमौ गिरिसंनिकाशः । विवेष्टमानो निजघान वृक्षान् । शैलाञ्शिलावानरराक्षसांश् च ॥१६२॥
तम् छिन्नबाहुम् समवेक्ष्य रामः । समापतन्तम् सहसा नदन्तम् । द्वावर्धचन्द्रौ निशितौ प्रगृह्य । चिच्छेद पादौ युधि राक्षसस्य ॥१६३॥
तौ तस्य पादौ प्रदिशो दिशश्च । गिरेर्गुहाश्चैव महार्णवम् च । लङ्काम् च सेनाम् कपिराक्षसानां । विनादयन्तौ विनिपेततुश्च ॥१६४॥
निकृत्तबाहुर्विनिकृत्तपादो । विदार्य वक्त्रं वडवामुखाभम् । दुद्राव रामम् सहसाभिगर्जन् । राहुर्यथा चन्द्रमिवान्तरिक्षे ॥१६५॥
अपूरयत्तस्य मुखं शिताग्रै । रामः शरैर्हेमपिनद्धपुङ्खैः । स पूर्णवक्त्रो न शशाक वक्तुं । चुकूज कृच्छ्रेण मुमोह चापि ॥१६६॥
अथाददे सूर्यमरीचिकल्पं । स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्रं निशितम् सुपुङ्खं । रामः शरं मारुततुल्यवेगम् ॥१६७॥
तम् वज्रजाम्बूनदचारुपुङ्खं । प्रदीप्तसूर्यज्वलनप्रकाशम् । महेन्द्रवज्राशनितुल्यवेगं । रामः प्रचिक्षेप निशाचराय ॥१६८॥
स सायको राघवबाहुचोदितो । दिशः स्वभासा दश सम्प्रकाशयन् । विधूमवैश्वानरदीप्तदर्शनो । जगाम शक्राशनितुल्यविक्रमः ॥१६९॥
स तन्महापर्वतकूटसंनिभं । सुवृत्तदंष्ट्रं चलचारुकुण्डलम् । चकर्त रक्षोऽधिपतेः शिरस्तदा । यथैव वृत्रस्य पुरा पुरन्दरः ॥१७०॥
कुम्भकर्णशिरो भाति कुण्डलालम्कृतं महत् । आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥१७१॥
तद्रामबाणाभिहतं पपात । रक्षःशिरः पर्वतसंनिकाशम् । बभञ्ज चर्यागृहगोपुराणि । प्राकारमुच्चं तमपातयच्च ॥१७२॥
तच्चातिकायं हिमवत्प्रकाशं । रक्षस्तदा तोयनिधौ पपात । ग्राहान् परान् मीनचयान्भुजंगमान् । ममर्द भूमिम् च तथा विवेश ॥१७३॥
तस्मिर्हते ब्राह्मणदेवशत्रौ । महाबले सम्यति कुम्भकर्णे । चचाल भूर्भूमिधराश् च सर्वे । हर्षाच्च देवास्तुमुलं प्रणेदुः ॥१७४॥
ततस्तु देवर्षिमहर्षिपन्नगाः । सुराश्च भूतानि सुपर्णगुह्यकाः । सयक्षगन्धर्वगणा नभोगताः । प्रहर्षिता राम पराक्रमेण ॥१७५॥
ततस्तु ते तस्य वधेन भूरिणा । मनस्विनो नैरृतराजबान्धवाः । विनेदुरुच्छैर्व्यथिता रघूत्तमम् । हरिं समीक्ष्यैव यथा मतङ्गजाः ॥१७६॥
स देवलोकस्य तमो निहत्य । सूर्यो यथा राहुमुखाद्विमुक्तः । तथा व्यभासीद्धरिसैन्यमध्ये । निहत्य रामो यधि कुम्भकर्णम् ॥१७७॥
प्रहर्षमीयुर्बहवस्तु वानराः । प्रबुद्धपद्मप्रतिमैरिवाननैः । अपूजयन् राघवमिष्टभागिनं । हते रिपौ भीमबले दुरासदे ॥१७८॥
स कुम्भकर्णं सुरसैन्यमर्दनं । महत्सु युद्धेष्वपराजितश्रमम् । ननन्द हत्वा भरताग्रजो रणे । महासुरं वृत्रमिवामराधिपः ॥१७९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः ॥