स लङ्घायित्वा प्राकारम् गिरिकूटोपमो महान् । निर्ययौ निगरात्तूत्णम् कुम्भकर्णो महाबलः ॥१॥
षट्षष्टितमः सर्गः 6.66
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ननाद च महानादम् समुद्रमभिनादयन् । विजयन्निव निर्घातान्विधमन्निव पर्वतान् ॥२॥
तमवध्यं मघवता यमेन वरुणेन च । प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥३॥
तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥४॥
आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च । क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥५॥
साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । नालं युद्धाय वै रक्षो महतीयं विभीषिकाः ॥६॥
महतीमुत्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥७॥
कृच्छ्रेण तु समाश्वास्य सङ्गम्य च ततस्ततः । वृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ॥८॥
ते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः । निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥९॥
प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः । पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥१०॥
तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥११॥
सोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम् । ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥१२॥
लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥१३॥
लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । के चित्समुद्रे पतिताः के चिद्गगनमाश्रिताः ॥१४॥
वध्यमानास्तु ते वीरा राक्षसेन बलीयसा । सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥१५॥
ते स्थलानि तथा निम्नं विषण्णवदना भयात् । ऋक्षा वृक्षान्समारूढाः के चित्पर्वतमाश्रिताः ॥१६॥
ममज्जुरर्णवे के चिद्गुहाः के चित्समाश्रिताः । निषेदुः प्लवगाः के चित्के चिन्नैवावतस्थिरे ॥१७॥
केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव । तान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत् ॥१८॥
अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः । भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ॥१९॥
स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ । निरायुधानां द्रवतामसङ्गगतिपौरुषाः ॥२०॥
दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम् । कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ॥२१॥
क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा । अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥२२॥
विकत्थनानि वो यानि यदा वै जनसंसदि । तानि वः क्व च यतानि सोदग्राणि महान्ति च ॥२३॥
भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥२४॥
शयामहे वा निहताः पृथिव्यामल्पजीविताः । प्राप्नुयामो ब्रह्मलोकम् दुष्प्रपम् च कुयोधिभिः ॥२५॥
अवाप्नुयामः कीर्तिम् वा निहत्वा शत्रुमाहवे । निहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥२६॥
न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥२७॥
पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् । एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥२८॥
एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥२९॥
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥३०॥
एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥३१॥
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः ॥३२॥
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । आज्ञाप्रतीक्षास्तुस्थुश्च सर्वे वानरयूथपाः ॥३३॥
ऋषभशरभमैन्दधूम्रनीलाः । कुमुदसुषेणगवाक्षरम्भताराः| द्विविदपनसवायुपुत्रमुख्यास् । त्वरिततराभिमुखं रणं प्रयाताः ॥३४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षट्षष्टितमः सर्गः ॥